________________
३९०
[ द्वादशी
हा । कामाभिदुग्धोऽस्म्यभिदुग्धोस्मिकामकामाय स्वाहेति ॥ ९ ॥ अथोपतिष्ठते, सं मा सिञ्चन्तु मरुतः समिन्द्रः संबृहस्पतिः । सं मायमग्निः सिञ्चतु प्रजया च धनेन चेति ॥ १० ॥ एतदेव प्रायश्चित्तम् ॥ १२ ॥ २ ॥
पारस्करगृह्यसूत्रम् ।
( कर्क: ) -- तेन प्रसङ्गेन नैमित्तिकं पश्वन्तरमभिधातुमिदमाह ' अथा' 'श्चित्तम् ' व्याख्यास्यत इति सूत्रशेषः । अवकीर्णी ब्रह्मचारी यः स्त्रियमुपैति सोऽनेनाधिक्रियते । ८ अमा. "जेत ' अन्योऽपि हविर्यज्ञरूपोऽवकीर्णिपशुरस्ति अतः पाकयज्ञेनेत्युक्तम् । 'अव 'होमः ' अग्न्यपवादोऽयमवदानमात्रस्य । आधारादि त्वग्नावेव । भूमौ णम् ' शाखापशौ पुरोडाशाभावादिह विधानम् । तस्य चाज्येन सह संस्कारानुष्ठानम् 'तां छविं "त्येके' तामेव गर्दभच्छविं परिधत्ते । ऊर्द्धवालाभित्येके । बालशब्देन पुच्छमभिधीयते । ऊर्द्धवालां तिर्यग्वालां वैति विकल्पः । 'संव र्तयन् ' निरुकं वा एनः कनीयो भवतीति श्रुतेः । 'अथापरम् ' प्रायश्चित्तान्तरं व्याख्यास्यत इति सूत्रशेषः । ' आज्या हु' ' 'स्वाहा' इत्यागन्तुत्वादाहुतिद्वयं चतुर्दशाहुतिकान्ते भवति । 'अथोपनेन च' इत्यनेन ॥ १२ ॥ ( जयरामः ) --- एतत्पशुप्रसङ्गेन पश्वन्तरं नैमित्तिकमभिधातुमाह- अथेत्यादि । वक्ष्यत इति सूत्रशेषः । अवकीर्णी ब्रह्मचारी सन् यः स्त्रियमुपैति सोऽनेनाधिक्रियते । पाकयज्ञेन यजेतेत्यनेनान्यो पि हविर्यज्ञरूपोऽवकीर्णपशुरस्तीत्युक्तम् । अप्स्वित्ययमग्न्यपवादोऽत्रदानमात्रस्य । आधारादि त्वग्नावेव । भूमौ पश्विति शाखापशौ पुरोडाशाभावाद्विधानम् । तस्य चाज्येन सह संस्कारानुष्ठानम् । तामेव गर्दभस्य छवि त्वचं परिदधीत । ऊर्ध्ववालां तिर्यग्वालां वेति विकल्पः । बालशब्देन पुच्छमभिधीयते । स्वकर्म अवकीर्णित्वम् । निरुक्तं वा एनः कनीयो भवतीति श्रुतेः । अथापरं प्रायश्चित्तान्तरं वक्ष्यत इति सूत्रशेप: । आज्याहुती द्वे जुहोति । कामावकीर्णोऽस्मि कामाभिदुग्धोस्मीत्येताभ्यां मन्त्राभ्याम् । एते आहुती आगन्तुत्वाच्चतुर्दशाहुत्यन्ते भवतः । अथ मन्त्रार्थः । तत्र द्वयोः प्रजापतिरनुष्टुप् काम आज्यहोमे० । हे काम क्षोभक अहं कामेन त्वत्कृतक्षोभेण अवकीर्ण: अभिभूतोऽस्मि, अतोऽवकीर्णः क्षतत्रतोऽस्मि । अतः कामाय शोधकत्वेन हविः कामयमानाय तुभ्यं स्वाहा सुहुतमस्तु । एवमभिदुग्धो हिंसितः, शिष्टं समानम् । अथोपस्थानमन्त्रार्थः । तत्र प्रजापतिरनुष्टुप् लिङ्गोक्ता उपस्थाने० । मरुतो देवा मा मां सम्यक् सिञ्चन्तु अभीष्टप्रदानेन समर्द्धयन्तु प्रजया च पुत्रादिरूपया तथा धनेन धर्मानुकूलसमृद्ध्या च चकारात्सिभ्चन्तु । तथेन्द्रः सम्यक् सिञ्चत्वित्युत्तरत्रापि योज्यम् । एतदेव प्रायश्चित्तम् । प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्वययुग्वृत्तं प्रायश्चित्तमितीरितम् ॥ १२ ॥
( हरिहर : ) - एवं तावन्नद्यन्तरे नावं कारये दित्यनेन नवश्राद्धप्रयोजनपशुरुक्तस्तत्प्रसङ्गान्नैमित्तिकं पश्वन्तरं व्याख्यातुमाह ' अथा चित्तम् ' अथेदानी यतः पशुरभिहितः अतस्तत्प्रसङ्गात अवकीर्णिनः स्खलितब्रह्मचर्यस्य ब्रह्मचारिणः प्रायश्चित्तं शुद्धिसंपादकं कर्म वक्ष्यत इति सूत्रशेषः । अमाभते ' यो ब्रह्मचारी सन् स्त्रीगमनादवकीर्णी भवति स पुनः प्रायश्चित्तं चिकीर्षुरमावा - स्यायां कस्यांचित् कृष्णपश्चदश्यां चतुष्पथे चत्वारः पन्थानो यत्र भूभागे स चतुष्पथः तस्मिन् देशे गर्दभ रासभं पशुमालभते संज्ञपयति । 'निर्भर 'जेत्' निर्ऋति देवतां पाकयज्ञेन पाकयज्ञविधानेन पशुना यजेत । अत्रावकीर्णिनो हविर्यज्ञरूपोऽन्योपि पशुरस्ति तेन हेतुना पाकयज्ञेन यजेतेत्युक्तम् ।' अप्स्व' 'होम:' अप्सु जले अवदानानामेव होमः देवतोद्देशेन प्रक्षेपो भवति नत्वनौ ।
१ दुग्धोऽस्म्यभिदुग्घोस्मीत्यपि पाठः ।