Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
खरतरगच्छालंकार युगप्रधानाचार्य गुर्वा व ली।
नमो युगप्रधानमुनीन्द्रेभ्यः। वर्धमानं जिनं नत्वा, वर्धमानजिनेश्वराः । मुनीन्द्रजिनचन्द्राख्याऽभयदेवमुनीश्वराः ॥१॥ श्रीजिनवल्लभसूरिः, श्रीजिनदत्तसूरयः। यतीन्द्रजिनचन्द्राख्यः, श्रीजिनपतिसूरयः ॥२॥ एतेषां चरितं किञ्चिन्मन्दमत्या यदुच्यते । वृद्धेभ्यः श्रुत[वेत्तृभ्य]स्तन्मे कथयतः शृणु ॥३॥
१. अ भो ह र दे शे' जिनचन्द्राचार्या देवगृहनिवासिनश्चतुरशीतिस्थावलकनायका आसन् । तेषां वर्धमाननामा शिष्यः। तस्य च सिद्धान्तवाचनां गृह्णतश्चतुरशीतिराशातनाः समायाताः। ताश्च परिभावयत इयं भावना मनसि समजनि-'यद्येता रक्ष्यन्ते तदा भद्रं भवति'। व्रतगुरोश्च निवेदितम् । गुरुणा चिन्तितम्-'अस्य मनो न मनोहरम्' इति ज्ञात्वा सूरिपदे स्थापितः । तथापि तस्य मनो न रमते चैत्यगृहवासे स्थातुम् । ततो गुरोः सम्मत्या निर्गत्य कतिचिन्मुनिसमेतो ढिल्ली वा द ली प्रभृतिदेशेषु समायातः। तस्मिन् प्रस्तावे, तत्रैवोद्योतनाचार्यसूरिवर आसीत् । तस्य पार्थे सम्यगागमतत्त्वं बुद्धवा, उपसम्पदं गृहीतवान् । तदनन्तरं श्रीवर्धमानसूरेरियं चिन्ता जाता-'अस्य मूरिमन्त्रस्य कोऽधिष्ठाता' । तस्य ज्ञानायोपवासत्रयमकारि । तृतीयोपवासे धरणेन्द्रः समागतः । तेनोक्तं सूरिमन्त्रस्याहमधिष्ठाता। ततश्च सर्वेषां सूरिमत्रपदानां प्रत्येकं फलं निवेदितम् । ततश्च संस्फुर्र आचार्यमत्रो जातः । तेन च संस्फुराः सपरिवारा वर्धमानसूरयो जज्ञिरे।
२. अस्मिन् प्रस्तावे विज्ञप्तं पण्डितजिनेश्वरगणिना-'भगवन् ! ज्ञातस्य जिनमतस्य किं फलम् , यदि कुत्रापि गत्वा न प्रकाश्यते । गूर्जरत्रादेशः प्रभूतो देवगृहवास्याचार्यव्याप्तः श्रूयते । अतस्तत्र गम्यते' । 'युक्तमुक्तं परं शकुननिमित्तादि परिभाव्यते, ततः सर्वे शुभम् । ततो भामहबृहत्संघातसहिता आत्माष्टादशाश्चलिताः प्राप्ताः । बहिर्भूमिगतस्य पण्डितजिनेश्वरगणिसहितवर्धमानसूरेः सोमध्वजो नाम जटाधरो मिलितः। तेन सहेष्टगोष्ठी जज्ञे । तन्मध्ये गुणं दृष्ट्वा प्रश्नोत्तरः कृतः
का दौर्गत्यविनाशिनी हरिविरञ्च्युग्रप्रवाची च को,
वर्णः को व्यपनीयते च पथिकैरत्यादरेण श्रमः। चन्द्रः पृच्छति मन्दिरेषु मरुतां शोभाविधायी च को,
दाक्षिण्येन नयेन विश्वविदितः को वा भुवि भ्राजते॥ १ प्रत्यन्तरे-आभोहर० । २ व्रतं। ३ आयातः । ४ सस्फुर । ५ वर्द्धमानाचार्याः। * एतद्वितारकान्तर्गतः पाठो नोपलभ्यते प्रत्यन्तरे।
पा पली
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148