Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 77
________________ ५० खरतरगच्छालंकार श्रीनेमिनाथ-श्रीपार्श्वनाथबिम्बानां नन्दीश्वरस्य च प्रह्लादनपुरे प्रतिष्ठा । ___इति श्रीजिनचन्द्रमूरि-श्रीजिनपतिमूरि-श्रीजिनेश्वरसूरिसत्कसजनमनश्चमत्कारिप्रभावनावा नामपरिमितत्वेऽपि तन्मध्यवत्तिन्यः कतिचित् स्थूलाः स्थूला वार्ताः श्रीचतुर्विधसंघप्रमोदार्थम् । दिल्लीवास्तव्यसाधुसाहुलिसुत सा० हेमाभ्यर्थनया। जिनपालोपाध्यायैरित्थं ग्रथिताः स्वगुरुवार्ताः ॥ लोकभाषानुसारिण्यः सुखयोध्या भवन्त्यतः। इत्येकवचनस्थाने वाऽपि [च] बहक्तिरपि ॥ [७६] बालावबोधनायैव सन्ध्यभावः कचित्कृतः। इति शुद्धिकृच्चेतोभिः सद्भिज्ञेयं स्वचेतसि ॥ [७७] बुद्धये शुद्धये ज्ञानवृद्धयै जनसमृद्धये । चतुर्विधस्य संघस्य भण्यमाना भवन्त्वतः ॥ [७८] ॥ उद्देशतो ग्रं० (?) १२४ ॥ ६८. सं० १३०६ ज्येष्ठ सुदि १३, श्रीश्रीमाले कुन्थुनाथारनाथप्रतिमाप्रतिष्ठा । द्वितीयवेलाध्वजारोपणं च कारितं सा० धीधाकेन । सं० १३०९ श्रीप्रह्लादनपुरे मार्गशीर्ष सुदि १२, समाधिशेखर-गुणशेखर-देवशेखर-साधुभक्त-वीरवल्लभमुनीनां तथा मुक्तिसुन्दरिसाध्वीदीक्षा । तस्मिन्नेव वर्षे माघ सुदि १०, श्रीशान्तिनाथ-अजितनाथ-धर्मनाथ-वासुपूज्यमुनिसुव्रत-सीमन्धरस्वामि-पद्मनाभप्रतिमायाः प्रतिष्ठा कारिता च सा० विमलचन्द्राहीरादिसमुदायेन । तथा हि-साधुविमलचन्द्रेण श्रीशान्तिनाथो नगरकोट्टप्रासादस्थो महाद्रव्यव्ययेन प्रतिष्ठापितः, अजितनाथो बल०साधारणेन, धर्मनाथो विमलचन्द्रपुत्रक्षेमसिंहेन, वासुपूज्यः सर्वश्राविकाभिः, मुनिसुव्रतो गोष्ठिकथेहडेन, सीमन्धरस्वामी गोष्ठिकहीराकेण, पद्मनाभो महाभावसारेण हालाकेन श्रीप्रह्लादनपुरे । तस्मिन्नेव संवत्सरे वाग्भटमेरौ श्रीआदिनाथशिखरोपरि स्वर्णदण्डस्वर्णकलशौ प्रतिष्ठापितौ, सहजापुत्रेण वत्थडेन महोत्सवेन च तत्र गवाऽऽरोपितौ । ____ सं० १३१० वैशाख सुदि ११, श्रीजावालिपुरे चारित्रवल्लभ-हेमपर्वत-अचलचित्त-लोभनिधि-मोदमन्दिर-गजकीर्ति-रत्नाकर-गतमोह-देवप्रमोद-वीराणन्द-विगतदोष-राजललित-बहुचरित्र-विमलप्रज्ञ-रत्ननिधाना इति पश्चदश साधवः कृताः। चारित्रवल्लभ-विमलप्रज्ञौ पितृ-पुत्रावेतन्मध्याज्ज्ञेयौ। तस्मिन्नेव वैशाखे १३ स्वातिनक्षत्रे शनौ वारे श्रीमहावीरविधिचैत्ये राजश्रीउदयसिंहदेवादिराजलोकसमागमे मह जैत्रसिंहे राजमान्ये सति श्रीप्रह्लादनपुरीय-वाग्गडीयप्रमुखसर्वसमुदायमेलापके सति चतुर्विंशतिजिनालय-सप्ततिशत-संमेत-नन्दीश्वर-तीर्थकरमातृ-हीरासत्कश्रीनेमिनाथउज्जयिनीसत्कश्रीमहावीर-श्रीचन्द्रप्रभ-शान्तिनाथ श्रे०हरिपालसत्कसुधर्मस्वामि-श्रीजिनदत्तमूरि-सीमन्धरस्वामि-युगमन्धरखामिप्रभृतिनानाप्रतिमानां महामहोत्सवेन प्रतिष्ठा जज्ञे। प्रमोदश्रीगणिन्या महत्तरापदं च लक्ष्मीनिधिनाम कृतम् , ज्ञानमालागणिन्याः प्रवर्तिनीपदम् । ____सं० १३११ वैशाख सुदि ६, श्रीप्रह्लादनपुरे श्रीचन्द्रप्रभस्वामिविधिचैत्ये श्रीभीमपल्लीप्रासादस्थितश्रीमहावीरप्रतिमा साधुभवनपालेन महामहोत्सवेन निजभुजोपार्जितद्रव्यव्ययेन प्रतिष्ठापिता। श्रीऋषभनाथः समुदायेन, अनन्तनाथो बोहित्थेन, अभिनन्दनो मोल्हाकेन, वाग्भटमेरुनिमित्तं श्रीनेमिनाथ आम्बासहोदरेण भावसारेण केल्हणेन, श्रीजिनदत्तमूरिप्रतिमा हरिपाललघुभ्रात्रा श्रे० कुमारपालेन । श्रीप्रह्लादनपुरे श्रीजिनपालोपाध्यायानामनशन पूर्व द्योगमनम् । सं० १३१२ वैशाख सुदि १५, चंद्रकीर्तिगणेरुपाध्यायपदं श्रीचन्द्रतिलकोपाध्याय इति नाम कृतम् , वाचना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148