________________
५०
खरतरगच्छालंकार श्रीनेमिनाथ-श्रीपार्श्वनाथबिम्बानां नन्दीश्वरस्य च प्रह्लादनपुरे प्रतिष्ठा । ___इति श्रीजिनचन्द्रमूरि-श्रीजिनपतिमूरि-श्रीजिनेश्वरसूरिसत्कसजनमनश्चमत्कारिप्रभावनावा नामपरिमितत्वेऽपि तन्मध्यवत्तिन्यः कतिचित् स्थूलाः स्थूला वार्ताः श्रीचतुर्विधसंघप्रमोदार्थम् ।
दिल्लीवास्तव्यसाधुसाहुलिसुत सा० हेमाभ्यर्थनया।
जिनपालोपाध्यायैरित्थं ग्रथिताः स्वगुरुवार्ताः ॥ लोकभाषानुसारिण्यः सुखयोध्या भवन्त्यतः। इत्येकवचनस्थाने वाऽपि [च] बहक्तिरपि ॥ [७६] बालावबोधनायैव सन्ध्यभावः कचित्कृतः। इति शुद्धिकृच्चेतोभिः सद्भिज्ञेयं स्वचेतसि ॥ [७७] बुद्धये शुद्धये ज्ञानवृद्धयै जनसमृद्धये । चतुर्विधस्य संघस्य भण्यमाना भवन्त्वतः ॥ [७८]
॥ उद्देशतो ग्रं० (?) १२४ ॥ ६८. सं० १३०६ ज्येष्ठ सुदि १३, श्रीश्रीमाले कुन्थुनाथारनाथप्रतिमाप्रतिष्ठा । द्वितीयवेलाध्वजारोपणं च कारितं सा० धीधाकेन ।
सं० १३०९ श्रीप्रह्लादनपुरे मार्गशीर्ष सुदि १२, समाधिशेखर-गुणशेखर-देवशेखर-साधुभक्त-वीरवल्लभमुनीनां तथा मुक्तिसुन्दरिसाध्वीदीक्षा । तस्मिन्नेव वर्षे माघ सुदि १०, श्रीशान्तिनाथ-अजितनाथ-धर्मनाथ-वासुपूज्यमुनिसुव्रत-सीमन्धरस्वामि-पद्मनाभप्रतिमायाः प्रतिष्ठा कारिता च सा० विमलचन्द्राहीरादिसमुदायेन । तथा हि-साधुविमलचन्द्रेण श्रीशान्तिनाथो नगरकोट्टप्रासादस्थो महाद्रव्यव्ययेन प्रतिष्ठापितः, अजितनाथो बल०साधारणेन, धर्मनाथो विमलचन्द्रपुत्रक्षेमसिंहेन, वासुपूज्यः सर्वश्राविकाभिः, मुनिसुव्रतो गोष्ठिकथेहडेन, सीमन्धरस्वामी गोष्ठिकहीराकेण, पद्मनाभो महाभावसारेण हालाकेन श्रीप्रह्लादनपुरे । तस्मिन्नेव संवत्सरे वाग्भटमेरौ श्रीआदिनाथशिखरोपरि स्वर्णदण्डस्वर्णकलशौ प्रतिष्ठापितौ, सहजापुत्रेण वत्थडेन महोत्सवेन च तत्र गवाऽऽरोपितौ । ____ सं० १३१० वैशाख सुदि ११, श्रीजावालिपुरे चारित्रवल्लभ-हेमपर्वत-अचलचित्त-लोभनिधि-मोदमन्दिर-गजकीर्ति-रत्नाकर-गतमोह-देवप्रमोद-वीराणन्द-विगतदोष-राजललित-बहुचरित्र-विमलप्रज्ञ-रत्ननिधाना इति पश्चदश साधवः कृताः। चारित्रवल्लभ-विमलप्रज्ञौ पितृ-पुत्रावेतन्मध्याज्ज्ञेयौ। तस्मिन्नेव वैशाखे १३ स्वातिनक्षत्रे शनौ वारे श्रीमहावीरविधिचैत्ये राजश्रीउदयसिंहदेवादिराजलोकसमागमे मह जैत्रसिंहे राजमान्ये सति श्रीप्रह्लादनपुरीय-वाग्गडीयप्रमुखसर्वसमुदायमेलापके सति चतुर्विंशतिजिनालय-सप्ततिशत-संमेत-नन्दीश्वर-तीर्थकरमातृ-हीरासत्कश्रीनेमिनाथउज्जयिनीसत्कश्रीमहावीर-श्रीचन्द्रप्रभ-शान्तिनाथ श्रे०हरिपालसत्कसुधर्मस्वामि-श्रीजिनदत्तमूरि-सीमन्धरस्वामि-युगमन्धरखामिप्रभृतिनानाप्रतिमानां महामहोत्सवेन प्रतिष्ठा जज्ञे। प्रमोदश्रीगणिन्या महत्तरापदं च लक्ष्मीनिधिनाम कृतम् , ज्ञानमालागणिन्याः प्रवर्तिनीपदम् । ____सं० १३११ वैशाख सुदि ६, श्रीप्रह्लादनपुरे श्रीचन्द्रप्रभस्वामिविधिचैत्ये श्रीभीमपल्लीप्रासादस्थितश्रीमहावीरप्रतिमा साधुभवनपालेन महामहोत्सवेन निजभुजोपार्जितद्रव्यव्ययेन प्रतिष्ठापिता। श्रीऋषभनाथः समुदायेन, अनन्तनाथो बोहित्थेन, अभिनन्दनो मोल्हाकेन, वाग्भटमेरुनिमित्तं श्रीनेमिनाथ आम्बासहोदरेण भावसारेण केल्हणेन, श्रीजिनदत्तमूरिप्रतिमा हरिपाललघुभ्रात्रा श्रे० कुमारपालेन । श्रीप्रह्लादनपुरे श्रीजिनपालोपाध्यायानामनशन पूर्व द्योगमनम् ।
सं० १३१२ वैशाख सुदि १५, चंद्रकीर्तिगणेरुपाध्यायपदं श्रीचन्द्रतिलकोपाध्याय इति नाम कृतम् , वाचना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org