________________
युगप्रधानाचार्यगुर्वावली। चार्यपदं प्रबोधचन्द्रगणि-लक्ष्मीतिलकगण्योश्च संजातम् । तदनन्तरं ज्येष्ठ वदि १, उपशमचित्त-पवित्रचित्तआचारनिधि-त्रिलोकनिधिदीक्षा। ___सं० १३१३ फाल्गुन सुदि ४, श्रीया(जा)वालिपुरे स्वर्णगिर्युपरि महाप्रासादे वाहित्रिकोद्धरणप्रतिष्ठापितश्रीशान्तिनाथस्थापना । चैत्र सुदि १४,कनककीर्ति-विबुधराज-राजशेखर-गुणशेखर-जयलक्ष्मी-कल्याणनिधि-प्रमोदलक्ष्मीगच्छवृद्धिदीक्षा । अनन्तरं वैशाख वदि १, श्रीअजितनाथप्रतिमा प्रतिष्ठापिता। पद्रू-मूलिगाभ्यां बहुद्रव्यव्ययेन स्थापिता द्वितीयदेवगृहे । ततः प्रह्लादनपुरे आपाढ सुदि १०, भावनातिलक-भरतकीर्तिदीक्षा । श्रीभीमपल्लयां च तस्मिन्नेव दिने श्रीमहावीरस्थापना च ।।
सं० १३१४ माघ सुदि १३, कनकगिर्युपरिनिर्मापितप्रधानप्रासादोपरि ध्वजारोपः। श्रीउदयसिंहराजप्रसादपूर्वकं निर्विघ्नं संजातं । आषाढ सुदि १०, सकलहित-राजदर्शनसाध्वोर्बुद्धिसमृद्धि-ऋद्धिसुन्दरि-रत्नवृष्टिसाध्वीनां च श्रीप्रह्लादनपुरे महाविस्तरेण प्रव्रज्या। ___ सं० १३१६ श्रीजावालिपुरे माघ सुदि१, धर्मसुन्दरिगणिन्याः प्रवर्तिनीपदम् । माघ सुदि ३, पूर्णशेखर-कनककलशयोः प्रव्रज्या । माघ सुदि६, स्वर्णगिरौ श्रीशान्तिनाथप्रासादे स्वर्णकलश-स्वर्णदण्डारोपणं पद्रू-मूलिगाभ्यां श्रीचाचिगदेवराज्ये कारितम् । आपाढ सुदि ११, श्रीवीजापुरे श्रीवासुपूज्यजिनमन्दिरे वर्णकलश-वर्णदण्डध्वजारोपणं विशेघेण श्रीसोममत्रिणा कारितम् । ___ सं० १३१७ माघ सुदि १२, लक्ष्मीतिलकगणेरुपाध्यायपदं महा पद्माकरस्य दीक्षा च । माघ सुदि १४, श्रीजावालिपुरालङ्कारश्रीमहावीरजिनेन्द्रप्रासादचतुर्विंशतिदेवगृहिकासु स्वर्णकलश-स्वर्णदण्डध्वजानामारोपणं सर्वसमुदायेन कारितम् । फाल्गुन सुदि १२, श्रीशान्तनपुरे श्रीअजितस्वामिप्रासादे ध्वजप्रतिष्ठारोपौ वा० पूर्णकलशगणिद्वारेण । श्रीभीमपल्लयां श्रीमण्डलिकराज्ये दण्डाधिपतिश्रीमीलगण (सीलण ?) सान्निध्येन अनेकप्रह्लादनपुरादिसमुदायमेलकेन सा०खीमडसुत सा० जगद्धर-तदङ्गजरत्न सा० भुवनेन समुदायसहितेन महर्या, वैशाख सुदि १० दशम्यां सोमवारे, श्रीमहावीरकेवलज्ञानमहोत्सवदिने, मन्दिरतिलकनामश्रीवर्धमानजिनप्रासादशिखरे स्वर्णदण्ड-स्वर्णकलशप्रतिष्ठा तयोरध्यारोपश्च कारितः । तथा श्रेष्ठिहरिपालेन तद्भात्रा श्रेष्ठिकुमारपालेन श्रीसरस्वतीप्रतिमा अनवद्यविद्याचक्रवर्तिकल्पा शशाङ्कशुभ्रप्रभाऽनल्पा सकलसंघसुबुद्धिप्रदायिनी एकपञ्चाशदङ्गुलप्रमाणा महर्या प्रतिष्ठापिता । अङ्गुलिकत्रिंशत्प्रमाणा श्रीशान्तिनाथप्रतिमा सा० राजदेवेन, ऋषभनाथप्रतिमा मूलदेव-क्षेमन्धराभ्याम् , श्रीमहावीरप्रतिमा सावदेवपुत्रेण पूर्णसिंहेन, आजडसुतबोघाकेन श्रीपार्श्वनाथप्रतिमा, धारसिंहेन श्रीपार्श्वनाथप्रतिमा भीमभुजबलपराक्रमक्षेत्रपालबिम्बं च, श्रीऋषभनाथ महावीरप्रतिमे पूनाणीऊदाकेन, चतुर्विंशतिपट्टाजितप्रतिमे सा० बालचन्द्रेण, श्री. ऋषभनाथप्रतिमा श्रेष्ठिधान्धलेन भावडसुतेन, शान्तिनाथप्रतिमा वो० शान्तिगेन, श्रीऋषभनाथप्रतिमा आसणागेन, महावीरप्रतिमात्रयं साढलपुत्रधनपालेन, वसा० भोजाकेन शान्तिनाथप्रतिमा, श्रेष्ठिहरिपाल-कुमारपालाभ्यां जिनदत्तमरिमूर्ति-चन्द्रप्रभस्वामिप्रतिमे, रूपचन्द्रसुतनरपतिना श्रीनेमिनाथविम्बं, स्तम्भ० धनपालेन, चण्डे० वीजाकेन, अम्बिकाप्रतिमा समुदायेन । द्वादश्यां सौम्यमूर्ति-न्यायलक्ष्मीदीक्षा । संवत १३१८ पौप सुदि ३, संघभक्तस्य दीक्षा धर्ममूर्तिगणेचिनाचार्यपदं च ।
सं० १३१९ मार्ग० सुदि ७, अभयतिलकगणेरुपाध्यायपदम् । तस्मिन्नेव वर्षे श्रीअभयतिलकोपाध्यायः पं० देवमूर्त्यादिसाधुपरिवृतैरुजयिन्यां विहृत्य तपोमतीयं पं० विद्यानन्दं निर्जित्य प्रासुकं शीतलं जलं यतिकस्य[कल्पत ?] इति सिद्धान्तबलेन व्यवस्थाप्य च जयपत्रं गृहीतम् । तस्य च प्रह्लादनपुरादिषु विस्तरेण प्रवेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org