________________
खरतरगच्छालंकार कोत्सवः । सं० १३१९ माघ वदि ५, विजयसिद्धिसाध्व्या दीक्षा । माघ वदि ६, श्रीचन्द्रप्रभस्वामिप्रतिमा अजितनाथप्रतिमा सुमतिनाथप्रतिमा श्रेष्ठिबुधचन्द्रेण महामहोत्सवेन प्रतिष्ठापिता । श्रीऋषभनाथप्रतिमा सा० भुवनपालेन, धर्मनाथप्रतिमा जिसधरसुतेन जीविगश्रावकेण, सुपार्श्वप्रतिमा रत्न-पेथडश्रावकाभ्याम् , श्रीजिनवल्लभसू रिमूर्तिः सिद्धान्तयक्षमूर्तिश्च श्रेष्ठिहरिपाल तद्भातश्रेष्ठिकुमारपालाभ्याम् । श्रीपत्तने श्रीशान्तिनाथदेवप्रासादे अक्षततृतीयायां दण्डकलशारोपः सा० अभयचन्द्रेण कारापितः।
सं० १३२१ फाल्गुन सुदि २, गुरौ चित्तसमाधि-क्षान्तिनिधिसाध्व्योर्दीक्षा । सं० १३२१ फाल्गुन वदि ११, श्रीप्रह्लादनपुरे आलयप्रतिमात्रयस्य दण्डस्य च प्रतिष्ठा कारयित्वा जेसलमेरवास्तव्यसमुदायेन सा० जसोधवलकारिते देवगृहशिखरे जेसलमेरौ ज्येष्ठ सुदि १२ श्रीपार्श्वनाथस्य स्थापना दण्डध्वजारोपश्च कारितः । सं० १३२१ ज्येष्ठ सुदि १५, चारित्रशेखर-लक्ष्मीनिवास-रत्नावतारसाधवो दीक्षिता विक्रमपुरे । ___ सं० १३२२ माघ सुदि १४, त्रिदशानन्द-शान्तमूर्ति-त्रिभुवनानन्द-कीर्तिमण्डल-सुबुद्धिराज-सर्वराज-वीरप्रियजयवल्लभ-लक्ष्मीराज-हेमसेननामानो दश साधवः, मुक्तिवल्लभा-नेमिभक्ति-मङ्गलनिधि-प्रियदर्शनाभिधानाश्चतस्रः साध्व्यश्च कृताः। श्रीविक्रमपुरे वैशाखसुदि ६ वीरसुन्दरी साध्वी च । __ १३२३ मार्ग० वदि ५, नेमिध्वजसाधुः, विनयसिद्धि-आगमवृद्धिसाध्व्यौ च कृताः। जावालिपुरे, सं०१३२३ वैशाख सुदि १३, देवमूर्तिगणेर्वाचनाचार्यपदम् ; द्वितीयज्येष्ठ सुदि १०, जेसलमेरुश्रीपार्श्वविधिचैत्यारोपार्थ स्वर्णदण्ड कलशयोः सा० नेमिकुमार-सा० गणदेवकारितयोः प्रतिष्ठा; विवेकसमुद्रगणेचिनाचार्यपदस्थापना च कृता । आपाढ वदि १, हीराकरसाधुः कृतः।
सं० १३२४ वर्षे मार्ग० वदि २ शनौ, कुलभूषणसाधु-हेमभूषणसाधुद्वयम् , अनन्तलक्ष्मी-व्रतलक्ष्मी-एकलक्ष्मीप्रधानलक्ष्मी इति साध्वीपश्चकं (चतुष्टयं ?) च महा श्रीजावालिपुरे कृतम् । ___ सं० १३२५ वैशाख सुदि १०, श्रीजावालिपुरे श्रीमहावीरविधिचैत्ये श्रीप्रह्लादनपुरीय-स्तम्भतीर्थीय-श्रीमेदपाटीय-श्रीउच्चीय-श्रीवाग्गडीयप्रमुखसर्वसमुदायमेलापके व्रतग्रहण-मालारोप-सम्यक्त्वारोप-सामायिकारोपादिनन्दी महाविस्तरेण संजज्ञे । तत्र गजेन्द्रवल इति साधुः, पद्मावतीति साध्वी च कृता । तथा वैशाख सुदि १४, श्रीमहावीरविधिचैत्य एव चतुर्विंशतिजिनबिम्बानां चतुर्विंशतिध्वजदण्डानां सीमन्धरस्वामि-युगमन्धरस्वामि-बाहु-सुबाहुबिम्बानाम् , अन्येषां च प्रभूतबिम्बानां महाविस्तरेण प्रतिष्ठा जज्ञे । तथा ज्येष्ठ वदि ४, सुवर्णगिरौ श्रीशान्तिनाथविधिचैत्ये चतुविंशतिदेवगृहिकामध्ये तेषामेव चतुर्विंशतिजिनविम्बानां सीमन्धरस्वामि-युगमन्धरस्वामि-बाहु-सुबाहुबिम्बानां सर्वसमुदायमेलकेन महामहोत्सदेन विस्तरेण स्थापनामहोत्सवः संजातः । तत्रैव च दिने धर्मतिलकगणेाचनाचार्यपदम् । तथा वैशाख सुदि १४, श्रीजेसलमेरौ श्रीपार्श्वनाथविधिचैत्ये सा० नेमिकुमार-सा० गणदेवकारितयोः सुवर्णदण्डसुवर्णकलशयोः सविशेषमहोत्सवो विस्तरेण संजातः ।
६९. सं० १३२६ वर्षे, सा० भुवनपालसुत सा० अभयचन्द्रविरचितेन, मं० अजितसुत मं० देदासुश्रावकाङ्गीकतपच्छेवाणप्राग्भारेण, सा०अभयचन्द्र-महं० अजितसुत महं०देदा-सा राजदेव-श्रेष्ठिकुमारपाल सानीम्बदेवसुतसा. श्रीपति-सा० मूलिग-सा० धनपालप्रमुखेण चतुर्दिग्भवेन विधिसंघेन सह तद्गाढाभ्यर्थनया श्रीशत्रुञ्जयादितीर्थयात्रार्थ श्रीजिनेश्वरमरिगुरुषु श्रीजिनरत्नाचार्य श्रीचन्द्रतिलकोपाध्याय-कुमुदचन्द्रप्रभृतिसाधु २३ पर्युपास्यमानेषु, श्रीलक्ष्मीनिधिमहत्तराप्रमुखसाध्वी१३परिवृतेषु, चैत्र वदि१३,श्रीप्रह्लादनपुरात् प्रचलितेषु,स्थाने स्थाने श्रीविधिसंघे चमत्कारकारिणी विधिमार्गप्रभावनां कुर्वाणे श्रीतारणमहातीर्थे महं० देदाकेन द्रं० १५०० इन्द्रपदम् , पूनाकसुतेन सा० पेथडेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org