________________
युगप्रधानाचार्यगुर्वावली ।
४९
६७. श्रीजिनेश्वरसूरीणां च संक्षेपवाचनेयम् - सं० १२७८ माघ सुदि ६, श्रीमजिनेश्वरसूरीणां पदस्थापना । माघ सुदि ९, यशः कलशगणि- विनयरुचिगणि-बुद्धिसागरगणि-रत्नकीर्त्तिगणि-तिलकप्रभगणि-रत्नप्रभगण्यमरकीर्तिगणि [ नामान: ] ते सप्त साधवो दीक्षिताः श्रीजाबालिपुरे । श्रीमाले सा०यशोधवलेन सह विहृत्य ज्येष्ठ सुदि १२, श्रीविजय- हेमप्रभ-श्रीतिलकप्रभ-श्रीविवेकप्रभ- चारित्रमालागणिनी - ज्ञानमाला [गणिनी] - सत्य मालागणिनीनां दीक्षा । आषाढ सुदि १०, पुनः श्रीश्रीमाले सा० जगद्धरसत्कसमवसरण प्रतिष्ठा श्री शान्तिनाथस्थापना च । श्रीजावालिपुरे देवगृहप्रारम्भश्च । जावालिपुरे १२७९ माघ सुदि ५, अर्हदत्तगणि-विवेक श्रीगणिनी- शीलमालागणिनी- चन्द्रमालागणिनी-विनयमालागणिनीनां दीक्षा । श्रीमाले १२८० माघ सुदि १२, श्री शान्तिनाथभवने ध्वजारोपः । श्रीऋषभनाथ - श्रीगौतमस्वामि- श्रीजिनपतिरिमेघनाद क्षेत्रपाल पद्मावतीप्रतिमानां प्रतिष्ठा । फाल्गुन वदि १, कुमुदचन्द्र कनकचन्द्र- पूर्ण श्रीगणिनी- हेमश्रीगणिनीनां दीक्षा | वैशाख सुदि १४, श्रीप्रह्लादनपुरे सकलनगरे (?) स्तूपे जिनपतिसूरिप्रतिमा स्थापिता, विस्तरेण श्रीजिनहितोपाध्यायद्वारेण । सं० १२८१ वैशाख सुदि ६, जावालिपुरे विजयकीर्ति उदयकीर्त्ति गुणसागर - परमानन्द - कमलश्रीगratri दीक्षा | ज्येष्ठ सुदि ९, जावालिपुरे श्रीमहावीरभवने ध्वजारोपः । १२८३ माघ वदि २, बाडमेरौ श्री ऋषभदेवभवने ध्वजारोपः । माघ वदि ६, श्रीसूरप्रभोपाध्यायपदं मङ्गलमतिगणिन्याः प्रवर्तिनीपदं च, वीरकलशगणि-नन्दिवधन- विजयवर्धनगणिदीक्षा । १२८४ वीजापुरे श्रीवासुपूज्य देवस्थापना, आषाढ सुदि २, अमृतकीर्तिगणि- सिद्धकीतिंगणि चारित्र सुन्दरिगणिनी-धर्मसुन्दरिगणिनीदीक्षा । सं० १२८५ ज्येष्ठ सुदि २, कीर्तिकलशगणि-पूर्णकलशगणिउदय श्रीगणिनीदीक्षा | ज्येष्ठ सुदि ९, वीजापुरे श्रीवासुपूज्यभवने जलानयनादिमहद्धर्ज्या ध्वजारोपः । १२८६ फाल्गु न वदि ५, वीजापुरे विद्याचन्द्र - न्यायचन्द्रा ऽभयचन्द्रगणिदीक्षा । १२८७ फाल्गुन सुदि ५, प्रह्लादनपुरे जयसेन - देवसेन- प्रबोधचन्द्राशोक चन्द्रगणि- कुलश्रीगणिनी - प्रमोद श्रीगणिनीदीक्षा । १२८८ भाद्रपद सुदि १०, स्तूपध्वजप्रतिष्ठा श्रीजाबालिपुरे | आश्विन सुदि १०, स्तूपे ध्वजारोपः प्रह्लादनपुरे साधुभुवनपालेन समुदायसहितेन राजपुत्र श्रीजगसीहसान्निध्येन महामहोत्सवेन कारितः श्रीजिनपालोध्यायद्वारेण । पौष सुदि ११, जाबालिपुरे शरच्चन्द्र - कुशलचन्द्रकल्याणकलश-प्रसन्नचन्द्र - लक्ष्मीतिलकगणि- वीरतिलक - रत्नतिलक - धर्ममति- विनयमतिगणिनी- विद्यामतिगणिनी - चारित्रमतिगणिनीदीक्षा | चित्रकूटे ज्येष्ठ सुदि १२, अजित सेन- गुणसेन - अमृतमूर्ति-धर्ममूर्ति राजीमती हेमावली- कनकावली-रत्नावलीगणिनी-मुक्तावलीगणिनीदीक्षा । आपाढ वदि २, श्रीऋषभदेव - श्री नेमिनाथ - श्री पार्श्वनाथप्रतिष्ठा साधुलक्ष्मीधर- सा०राह्लाभ्यां कारिता । सहस्र ८ लक्ष्मीधरेण वैचिताः (व्ययीकृताः) । राजनिखानेषु वाद्यमानेषु जलानयनम् । १२८९ उज्जयन्त-शत्रुञ्जय स्तम्भनकतीर्थेषु यात्रा ठ० अश्वराज सा० राल्हा साहाय्येन कृता । स्तम्भतीर्थे च वादियमदण्डनामदिगम्बरवादिना [ सह] पण्डित गोष्ठी । महामात्य श्रीवस्तुपालस्य सपरिवारस्य श्री पूज्यानां संमुखागमनेन प्रभावना च । १२९१ वैशाख सुदि १०, जावालिपुरे यतिकलश-क्षमा चन्द्र-शीलरत्न - धर्मरत्न - चारित्ररत्न - मेघकुमारगणि अभयतिलकगणि-श्रीकुमार - शीलसुन्दरिगणिनी- चन्दन सुन्दरिदीक्षा । ज्येष्ठ वदि २, मूलार्के श्रीविजयदेवसूरीणामाचार्यपदम् । १२९४ श्रीसंघहितोपाध्यायस्य पदम् । १२९६ फाल्गुन वदि५, प्रह्लादनपुरे प्रमोद मूर्ति-प्रबोधमूर्ति देवमूर्तिगणीनां मह दीक्षा । ज्येष्ठ सुदि १०, श्रीशान्तिनाथप्रतिष्ठा, साम्प्रतं पत्तन उपविष्टोऽस्ति । १२९७ चैत्रसुदि १४, देवतिलक-धर्म तिलकदीक्षा प्रह्लादनपुरे । १२९८ वैशाख ११, जाबालिपुरे स्वर्णदण्डे ध्वजारोपो मह० कुलधरेण समुदाय सहितेन वसाय गुणचन्द्रेण कारितः । १२९९ प्रथमाश्विन वदि २, महामत्रिकुलधरस्य सकलराजलोकनगरलोकाश्चर्याम्भोधिप्रोल्लासपार्वणेन्दुसोदरेण महामहोत्सवेन दीक्षा, तस्य च कुलतिलकमुनिरिति नाम संजातम् । १३०४ वैशाखसुदि १४, विजयवर्धन गणेराचार्य पदस्थापना, जिनरत्नाचार्य इति नाम । त्रिलोकहित - जीवहित-धर्माकर-हर्षदत्त-संघप्रमोद-विवेकसमुद्र - देवगुरुभक्त चारित्रगिरि- सर्वज्ञभक्त- त्रिलोकानन्ददीक्षा । १३०५ आषाढ सुदि १०, श्रीमहावीर - श्री ऋषभनाथ
यु० गु० ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org