Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 99
________________ खरतरगच्छालंकार गीयमानेष्वहनिंशमविधवसुधवाभिर्नारीभी रासकवृन्देषु, नृत्यमानेषु खेलकसमूहेषु, सम्पद्यमानेषु श्री साधर्मिकवात्सयेषु, समग्र श्रीपत्तनीयमहामहर्द्धिकव्यवहारिकलोक - राजलोकमहामेलापकेन गुरुतरजलयात्रानिर्माणपूर्वकं सकलजनमनचमत्कारकारी नानाभवोपार्जितपापसंभारापहारी प्रतिष्ठामहामहोत्सवः सविस्तरतरः कारितः । तस्मिन् महोत्सवे साधुतेजपालका रित श्रीयुगादिदेवप्रमुखानेकशैलमय- पित्तलामयविम्बानां श्रीजिनप्रबोधसूरि - श्रीजिनचन्द्रसूरिमूर्त्तीनां श्रीकपर्दयक्ष - श्रीक्षेत्रपालाम्बिकाद्यधिष्ठायिकानां नानासु श्रावककारितानां प्रतिष्ठा संजाता । श्रीशत्रुञ्जयप्रासादयोग्यदण्डध्वजप्रतिष्ठा च । तस्मिन् महोत्सवे सा०धीणा पुत्ररत्नसा० खेतसिंहादिसु श्रावकैरिन्द्रपद श्रीयुगादिदेवमुखोद्घाटनादिमाला ग्रहणपूर्वकममेयं स्वस्वापतेयं सफलीकृतम् | मार्गशीर्षवदिषष्ट्यां च सविस्तरतरः श्रीमालारोपण - श्रीसम्यज्वारोप- सामायिकारोप - परिग्रहपरिमाणादिनन्दिमहामहोत्सवश्च कृतः । ७२ ९४. तदनन्तरं सं० १३८० श्रीयोगिनी पुरवास्तव्येन श्रीश्रीमालकुलोत्तंसेन गङ्गाम्बु प्रवाहवत् स्वच्छाशयेन श्रीजिनशासनप्रभावनाकरणप्रवणेन पूर्व कृतसविस्तरतर श्रीफलवर्धिका महातीर्थयात्रोत्सवेनोद्भटभाग्यप्रतापलङ्केश्वरेण दानाध:कृतसंकलविश्वम्भरादातृवर्गेण साधुहरुपुत्ररत्नेन साधु श्रीरयपति सुश्रावकेण राजमान्यप्रभावक विदेश विख्यातोद्भटचरित्रस्वपुत्ररत्नसाधुराजधर्मसिंहपार्श्वात् पातसा हिश्रीग्यास दीनमहाराजाधिराजफुरमाणं सकलमीर मलिक शिरोवधूननकारकं श्रीराजप्रधानश्रीने बसाहाय्येन निष्कासयित्वा, श्रीपूज्यानां श्रीपत्तनस्थितानां समीपे श्रीशत्रुञ्जयोज्जयन्तादिमहातीर्थयात्राकरणार्थं स्वविज्ञप्तिकादानपूर्वकं मानुषाणि प्रेषितानि । तदनन्तरं सकलातिशयनिधानैर्ज्ञानध्यानादिगुणगणानुकृतसकलपूर्व युगप्रधानैः श्रीपूज्यैः श्रीजिनकुशलसूरिभिः सम्यक् परिभाव्य श्रीतीर्थयात्राकरणादेशः प्रदत्तः । तदाकर्णनादेव हर्षाकुलचेतसा साधुश्रीरयपतिसुश्रावकेण प्रभावकोदारचरित्र पुत्ररत्नसाधुमहणसिंह - साधुधर्म सिंह - साधुशिवराज- साधुअभयचन्द्र-पौत्र भीष्म भ्रातृसाधुजवणपालादिसारपरिवार परिवृतेन श्रीपूज्योपदिष्टविधिना श्री योगिनी पुरसमुदाय मुकुटकल्पमत्रिदल कुलोत्तंससाधुजवणपाल - श्रीदेवगुर्वाज्ञाप्रतिपालनोद्यत श्रीश्रीमालीय साधुभोजा - सा०छीतम-ठ० फेरू - धामइना वास्तव्य सा० रूपा - सा०वीजाप्रमुख-प उलीसा क्षेमन्धरप्रमुख - श्रीलूणीवडी वास्तव्य समुदायान् श्री योगिनीपुरप्रत्यासन्नानेकग्राम समुदायांश्च मेलयित्वा, स्वपुत्ररत्नसाधुराजधर्मसिंहराजबलेन अत्थसंअण (?) श्रीयोगिनीपुरराजमार्गेण वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, दीयमानेषु रासकेषु गीयमानेषु गीतेषु, पठत्सु श्रीसुरत्राणादिमहाराजबन्दिवृन्देषु दीयमानेषु कनकाश्वपट्टांशुकादिनानाविधेषु दानेषु, अश्वाधिरूढवाद्यमानढोल परम्पराबधिरीकृताशाचक्रेषु, प्रथमवैशाखवदिसप्तम्यां नूतनकारितप्रासादसदृशः श्रीदेवालयस्य चतुर्विधसंघसमन्वितस्य निष्क्रमणमहामहोत्सवः कृतः । तदनन्तरं प्रथमदिनादारभ्य प्रतिदिनमवारितसत्रं कुर्वाणो गुर्वाडम्बरेण साधुश्रीरयपति सुश्रावकः समग्रसंघान्वितः श्रीकन्यानयने समायातः । तत्र च श्रीयुगप्रधान श्रीजिनदत्तसूरिप्रतिष्ठित श्रीमहावीरदेवतीर्थराजस्य यात्रानिर्माणपूर्वकं समग्रम्लेच्छानामपि सम्यक्त्वदायिनी प्रभावना कृता । ततः स्थानाच्च श्रीजिनशासनप्रभावक सकलोत्सवधु राधुरीणश्रे० पूना - श्रे० पद्मा-श्रे० राजा - श्रे०रातू - ठ० देपाल - साधुराजकाला - खारद्र (?) पूनाप्रमुख श्री समुदायो गुर्वाडम्बरेण सा देदाप्रमुखश्री मिकासमुदायः श्रीसंघेन सह प्रचलितः । तदनन्तरं ग्रामनगरादिषु प्रोत्सर्पणां कुर्वाणः सर्वोऽपि संघः श्रीनरभटे समायातः । तत्र च श्रीजिनदत्तसूरिप्रतिष्ठितं नवस्फटाविभूषितं सर्वातिशयप्रधानं श्रीपार्श्वनाथदेवाधिदेवं नानाविध...... पूर्वकं सकलसंघेन नमश्चक्रे । ततः स्थानाच्च सा० भीमा-सा० देवराजादिसमुदायः श्रीसंघेन सह प्रचलितः । तदनन्तरं खाटू वास्तव्यसा० गोपालप्रमुखनानानगरग्रामवास्तव्याने कश्रावकाः श्रीनवहा- झुञ्झणू वास्तव्यसा० काण्हाप्र मुखविधिसमुदायादिश्रावकाच संघेन सह प्रस्थिताः । ततः पश्चात् श्रीजिनशासनप्रभावनां कुर्वाणः सर्वसंघसमन्वितः साधुश्रीरयपतिसुश्रावकः श्रीफलवर्धिकायां श्रीपार्श्वनाथ देवयात्रार्थं समायातः । तत्राऽऽगते साधुश्रीरयपतिसंघसमुद्रे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148