Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
खरतरगच्छालंकार पा)श्विरं जीवेत्यादिविविधाशीर्वादैराशिष्यमाणाः, अग्रेगच्छदतुच्छश्रीपूज्यपुण्यविलासाहृतप्रभूतकामकलशायमानकामिनीजनवराङ्गविन्यस्तपूर्णकलशाः, सौवप्रभावातिशयनिशितपरशूप्रलूनप्रत्यूहव्यूहवल्लिवितानाः, दुष्टम्लेच्छैरपि सुश्रावकलोकैरिव वन्धमानपादारविन्दाः, वादीन्द्रद्विपघटापश्चाननाः, श्रीजिनपतिमूरिश्रीअजयमेरुमहानगरश्रीपृथ्वीराजकारितमहाप्रवेशकमहोत्सवानुहारिणा निरवधिविधिमार्गदुष्टलोकमुखमालिन्यनिर्मापणमपीकूर्चकानुकारिणा सविस्तरप्रवेशकमहोत्सवेन प्रवेशिताः सार्वकामुकस्वप्रतिष्ठितश्रीयुगादिदेवपादस्वःपादपयुगं ववन्दिरे ।।
तत्र च विधिमार्गीयक्यासपुरवास्तव्यखरतरसमुदायेन कोमलश्रावकैश्च श्रीपूज्यज्ञानध्यानपवित्रचारित्रादिवरेण्यगुणगणावर्जितैः प्रतिदिनविधीयमानशालिदालिहैयङ्गवीननवीनपक्वान्नव्यञ्जनफलावलिबहुलश्रीसाधर्मिकवात्सल्य-श्रीसंघपूजावारितसत्र-रासकप्रदान-खेलक-नर्तन-प्रेक्षणीयकनिर्मापणादिमिर्गुर्वीप्रवचनप्रभावना विरचयाश्चके । श्रीपूज्याः कौतूहलागततुरुष्कनायकान् स्ववचनचातुरीभिराह्लादयन्तः सुप्रथितमिथ्यात्वान्धकारपूरितबहुललोकहृदयकन्दरासु बोधिलाभमहोद्योतमुल्लासयन्तः, सुश्रावकभविकक.................
......................दापयतश्चतुर्मास्युपरि श्रीदेवराजपुरे समस्तसमुदायकारितगुरुतरप्रवेशकमहोत्सवाः श्रीयुगादिदेवं नमस्कृतवन्तः ।
११२. तदनन्तरम् , सं० १३८७ वर्षे श्रेनरपाल-सा हरिपाल-सा आम्बा-सा लखण-सा०वीकलप्रमुखश्रीउच्चकीयसमुदायगुरुतराग्रहबशादात्मत्रयोदशाः............(अत्र कियान् पाठो नष्टः) । ___तत्र च मासमेकं पूर्ववत्तीर्थप्रभावना........गूर्जरनगर इव प्रकटतयाऽर्हद्धर्मकमलपरिमलं विस्तार्य श्रीउच्चापुरीतः श्रीपरशुरोर[को वास्तव्यसा० हरिपाल-सा०रूपा-सा आशा-सा०सामलप्रमुख समुदायदृढाग्रहवशात् श्रीजिनकुशलसूरयश्चक्रेणइयदि(१)यात्राकरणप्रवणाः प्रभूतश्रावकानुगम्यमाना नानाग्रामेषु श्रीपूज्यागमनोत्कर्णनोद्भवत्प्रमोदाभिरामेषु श्रावकान् वन्दापयन्तः परशुरोरकोट्टे वाद्यमानढोल्लनिनादमेदविप्रतिनिनादेन गह्वरितेषु दिग्विवरेषु, संमुखमागच्छत्सु शृङ्गारस्फारेषु नागरेषु, संजातगुरुतरप्रवेशकोत्सवा.
..................श्रीवहिरामपुरश्रीपार्श्वदेवपादारविन्दं नमश्चक्रुः । तत्र च महतीश्रीजिनशासनप्रभावनां पूर्ववद्विरचयां............ । ततः स्थानात् श्रीक्यासपुरादि........'ग्रामे एका रात्रिनगरे पञ्चरात्र'मित्यनया रीत्या भविकलोकपरोपकाराय ........विहत्य चतुमास्युपरिश्रीदेवराजपुरवरे श्रीयुगादिजिनवरेन्द्रपादारविन्दं प्रणेमुः।
११३. ततश्च सं०१३८८ वर्षे श्रीविमलाचलचूलालङ्कारहारश्रीमन्मानतुङ्गविहारशृङ्गारश्रीप्रथमतीर्थङ्करप्रमुखाहद्विम्बनिकरप्रतिष्ठापन संस्थापन-व्रतग्रहण-मालारोपणादिमहामहोत्सवानेकदेशप्रदेशविहाराद्यवदातवातविततकदलीजातब........संजातयशःकाचकर्पूरपूरपारीपरिमलत्रिभुवनोदयमूरिभिः श्रीजिनकुशलसूरिभिर्विशिष्टवरिष्ठज्ञानध्यानबलेन सम्यक् समयं परिभाव्य निजभुजासमुपार्जित......निर्जितपारिजातकल्पद्रुमश्रीउच्चापुरी......क्तिकस्तवको... लितसौवर्णतिलकायमानश्रीविधिसमुदायश्रीबहिरामपुर श्रीक्यासपुर-श्रीसिलारवाहणादिनानानगरग्रामवास्तव्यसर्वसिन्धुदेशसमुदायमेलापके प्रभूतदिनेभ्य आरभ्य नरीनृत्यमानेषु खेलकवितानेषु, दीयमानेषु श्रावकलोकेन सकर्णकर्णसुधासेकेषु रासकेषु, संजायमानेषु श्रीसाधर्मिकवात्सल्यावारितसत्रश्रीसंघपूजादिषु, दीयमानेषु श्रावकलोकेन सततममेयेषु स्वस्वापतेयेषु, वितन्यमानेषु भाविक्षुल्लक क्षुल्लिकानां पुष्पाङ्केषु अ......णायां स्वपक्ष-परपक्षचेतश्चमत्कारकारी पदस्थापन-व्रतग्रहण-मालारोपण-सामायिकारोपण-सम्यक्त्वारोपादिनन्दिमहामहोत्सवो मार्गशीर्षशुक्लदशमीदिने निर्मापयामासे । तस्मिन् महोत्सवे गाम्भीर्योदार्यधैर्यस्थैर्यार्जवविद्वत्वकविखवाग्मिनसत्त्वसौविहित्यज्ञानदर्शनचारित्रविशदषट्त्रिंशत्सरिगुणगणमणिविपणीनां पं० तरुणकीर्तिगणीनामाचार्यपदं प्रदत्तम्-नाम श्रीतरुणप्रभाचार्याः; पं०लन्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148