Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 112
________________ युगप्रधानाचार्यगुर्वावली | ८५ निधानगणीनामभिषेकपदं प्रदत्तम् - नाम श्रीलब्धिनिधानोपाध्यायाः; क्षुल्लक क्षुल्लिकाद्वयं च बभूव, तन्नामानि जयप्रिमुनि-पुण्यप्रियमुनिक्षुल्लकौ जयश्री - धर्मश्रीक्षुल्लिके । दशभिः श्राविकाभिर्मालाग्रहणं कृतम् । अनेकश्रावक-श्राविकाभिः परिग्रहपरिमाण - सामायिकारोप- सम्यक्त्वारोपार्थं नन्द्यारोहश्च । सौत्रभुजापरिघसमुपार्जितविततनिर्निदानदानोलसितदन्तिदन्तवन्मुक्तोदक्षीरोदक्षीरडिण्डी.. ..दृहासकाशसंकाश यशः कुसुमसमुच्चय समन्वित सकलदिग्देवताचक्रवालेन ....बभूवे । ११४. ततश्च चतुर्मासी श्रीदेवराजपुरे श्रीजैनशासनसंस्थानां परमनिदानेऽपूर्वापरिशीलित श्रीस्याद्वादरत्नाकर महातर्करत्नाकर श्री तरुगप्रभाचार्य - श्रीलब्धिनिधानमहोपाध्यायानां सूक्ष्मशेमुषीविवरगोचरं कुर्वाणाः, स्वप्रान्त्यसमयमवलोक्य स्वर्गं विरचेव (१)वर्णिनीपाणिपीडनविधौ शुद्धक्षेत्रमवधार्य ते तस्थुः । ततो माघशुक्ल...... गाढज्वरश्वासादिरोगाबाधिते स्वनिर्वाणसमयं ज्ञात्वा श्री तरुणप्रभाचार्य - श्रीलब्धिनिधानमहामहोपाध्यायानां श्रीमुखेन स्वकीयपट्टयोग्यपश्चदशवर्षप्रमाणस्वशिष्यरत्नप्रधानसा० लक्ष्मीधर पुत्ररत्न साधुराजआम्बा-साध्वीनी कीकानन्दन - युगप्रधान कमला लीलावती लिलीलालासनश्रीमेरु महीधरमण्डन श्रीनन्दनाभिधानप्रधानकाननसमानं पद्ममूर्तिक्षुल्लकं स्वकीय पदसंस्थापनविषयां शिक्षां सर्वां दत्त्वा सं० १३८९ फाल्गुन कृष्णपञ्चम्यां पाश्चात्यप्रहरे श्रीचतुर्विधसंघेन सह दत्तमिध्यादुष्कृतदानाः स्वमुखोच्चारिताशनाः नानाराधनामृतपानाः पञ्चपरमेष्ठिश्रेष्ठध्यानसन्धानपश्चसौगन्धिकताम्बूलाखादनसुरभितानना रात्रिहरद्वयोद्देशे स्वर्गकमलापाणिपीडनविधिं विदधुः । ततः प्रातः समये साम्प्रतिकविषमकालकालरात्रन्यक्कारसमाचारचतुर भास्करप्रकार श्रीमद्विधिसंघमहाधार श्रीमजिनकुशलसूरियुगप्रवरास्तमनेन विधुरितान्तःकरणेनापि श्रीसिन्धुमण्डलनानास्थानवास्तव्य सुश्रावकसमुदायप्रवरेण श्रीदेवगुरुकार्यकरणप्रगुणेन पञ्चसप्ततिमण्डपिकामण्डितसमुद्दण्डदण्डविडम्बिताखण्डमण्डलविमाननिर्याणविमानविधानपूर्वकं निर्याणमहामहोत्सवञ्चक्रे । शरीरसंस्कारश्च सारघनसारागुरुकस्तुरिका श्रीमलयाचलसारचन्दनप्रमुख सुगन्धिद्रव्यैरेव विरचयाञ्चक्रे | Far संस्कारभूम्यां साधुराजरीहड पूर्णचन्द्र कुलप्रदीप - साधुराजहरिपालसुश्रावकवरेण सत्पुत्रसा०झाञ्झण-सा०यशोधवलप्रमुखसर्व परिवारपरिघृतेन समस्तशस्तदर्शनजनजातनेत्र पत्रसुधाधारापारणाकारणाप्रवीणरूपं श्रीभरताधिपविनिर्मितं श्रीमदष्टापदशिखरिशिखरशेखराय मानश्रीइक्ष्वाकु कुलवंशीय मुनिमतल्लिकावितानसंस्कारस्थानप्रधानस्तूपस्वरूपमतुच्छ म्लेच्छ कुलजनव्याकुलश्रीसिन्धु मण्डलमध्यनिवासिश्रावक लोकमनोऽवष्टम्भनादानान्तरीपं श्री स्तूपं कारयामास । ११५. ततश्च सं० १३९० वर्षे ज्येष्ठशुक्लपट्यां सोमवारे मिथुनलग्ने श्रीदेवराजपुरे श्रीयुगादिदेवविधिचैत्ये श्रीतरुणप्रभाचार्यैः श्रीजयधर्ममहोपाध्याय -श्रीलब्धिनिधान महोपाध्यायप्रमुख त्रिंशत्संख्याक मुनि... मालानेकसाध्वीनानाजनपदनगरग्रामवास्तव्यासंख्यस्वपक्ष-परपक्षसुश्रावक ब्राह्मण ब्रह्मक्षत्रिय राजपुत्र- तुरुष्कनाथाद्यनेकसहस्रसंख्यलोकमहामेलापकेन विधीयमानास्वमारिघोषणा, क्रियमाणासु नानाविधासु प्रोत्सर्पणासु, वितत्यमानेषु बहुविधेष्वचास्तिसत्रेषु, स्थाने स्थाने दीयमानेषु तालाशसकेषु गीयमानेष्वविधव सुधवनारीभिर्धवलमङ्गलेषु, संजायमानेषु समग्रजननयनप्रमोदनृत्याभिषेकेषु प्रेक्षणीयेषु, पुष्करावर्तमेघवदखण्डधनधान्यवस्त्र स्वर्णसुवर्णतुरङ्गमादिनानाविधमहादानधाराभिर्वर्षत्सु श्रावककदम्बकेषु, निजभुजार्जितामेयस्वापतेय बीजवपनक्षेत्र भूमिकासु क्रियमाणासु श्रीचतुर्विधसंघपूजासु, श्रीजिनकुशलसूरीणां शिक्षानुसारेण पद्ममूर्तिक्षुल्लकस्य श्रीजिनकुशलसूरीन्द्र पट्टसिंहासने संस्थापना विदधे । श्रीपूज्यादेशानुसारेण श्रीजिनपद्मसूरय इति नाम कृतम् । श्रीजिनपद्मसूरीणां पट्टाभिषेकमहोत्सवश्च रीहडकुलप्रदीपसाधुधनदेवपुत्ररत्न-साधुहेमलाङ्गज- साधुपूर्णचन्द्रपुत्ररत्लेन श्रीजिनशासनप्रभावनाकरणप्रवीणेन श्रीशत्रुञ्जयोज्जयन्तादिमहातीर्थयात्रा करण श्रीजिनचन्द्रसूरि-श्रीजिनकुशलसूरियुगप्रवरागमश्री सिन्धुदेशविहारकारापण श्रीआचार्य पद-श्रीउ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148