________________
युगप्रधानाचार्यगुर्वावली |
८५
निधानगणीनामभिषेकपदं प्रदत्तम् - नाम श्रीलब्धिनिधानोपाध्यायाः; क्षुल्लक क्षुल्लिकाद्वयं च बभूव, तन्नामानि जयप्रिमुनि-पुण्यप्रियमुनिक्षुल्लकौ जयश्री - धर्मश्रीक्षुल्लिके । दशभिः श्राविकाभिर्मालाग्रहणं कृतम् । अनेकश्रावक-श्राविकाभिः परिग्रहपरिमाण - सामायिकारोप- सम्यक्त्वारोपार्थं नन्द्यारोहश्च । सौत्रभुजापरिघसमुपार्जितविततनिर्निदानदानोलसितदन्तिदन्तवन्मुक्तोदक्षीरोदक्षीरडिण्डी.. ..दृहासकाशसंकाश यशः कुसुमसमुच्चय समन्वित सकलदिग्देवताचक्रवालेन ....बभूवे ।
११४. ततश्च चतुर्मासी श्रीदेवराजपुरे श्रीजैनशासनसंस्थानां परमनिदानेऽपूर्वापरिशीलित श्रीस्याद्वादरत्नाकर महातर्करत्नाकर श्री तरुगप्रभाचार्य - श्रीलब्धिनिधानमहोपाध्यायानां सूक्ष्मशेमुषीविवरगोचरं कुर्वाणाः, स्वप्रान्त्यसमयमवलोक्य स्वर्गं विरचेव (१)वर्णिनीपाणिपीडनविधौ शुद्धक्षेत्रमवधार्य ते तस्थुः । ततो माघशुक्ल...... गाढज्वरश्वासादिरोगाबाधिते स्वनिर्वाणसमयं ज्ञात्वा श्री तरुणप्रभाचार्य - श्रीलब्धिनिधानमहामहोपाध्यायानां श्रीमुखेन स्वकीयपट्टयोग्यपश्चदशवर्षप्रमाणस्वशिष्यरत्नप्रधानसा० लक्ष्मीधर पुत्ररत्न साधुराजआम्बा-साध्वीनी कीकानन्दन - युगप्रधान कमला लीलावती लिलीलालासनश्रीमेरु महीधरमण्डन श्रीनन्दनाभिधानप्रधानकाननसमानं पद्ममूर्तिक्षुल्लकं स्वकीय पदसंस्थापनविषयां शिक्षां सर्वां दत्त्वा सं० १३८९ फाल्गुन कृष्णपञ्चम्यां पाश्चात्यप्रहरे श्रीचतुर्विधसंघेन सह दत्तमिध्यादुष्कृतदानाः स्वमुखोच्चारिताशनाः नानाराधनामृतपानाः पञ्चपरमेष्ठिश्रेष्ठध्यानसन्धानपश्चसौगन्धिकताम्बूलाखादनसुरभितानना रात्रिहरद्वयोद्देशे स्वर्गकमलापाणिपीडनविधिं विदधुः ।
ततः प्रातः समये साम्प्रतिकविषमकालकालरात्रन्यक्कारसमाचारचतुर भास्करप्रकार श्रीमद्विधिसंघमहाधार श्रीमजिनकुशलसूरियुगप्रवरास्तमनेन विधुरितान्तःकरणेनापि श्रीसिन्धुमण्डलनानास्थानवास्तव्य सुश्रावकसमुदायप्रवरेण श्रीदेवगुरुकार्यकरणप्रगुणेन पञ्चसप्ततिमण्डपिकामण्डितसमुद्दण्डदण्डविडम्बिताखण्डमण्डलविमाननिर्याणविमानविधानपूर्वकं निर्याणमहामहोत्सवञ्चक्रे । शरीरसंस्कारश्च सारघनसारागुरुकस्तुरिका श्रीमलयाचलसारचन्दनप्रमुख सुगन्धिद्रव्यैरेव विरचयाञ्चक्रे | Far संस्कारभूम्यां साधुराजरीहड पूर्णचन्द्र कुलप्रदीप - साधुराजहरिपालसुश्रावकवरेण सत्पुत्रसा०झाञ्झण-सा०यशोधवलप्रमुखसर्व परिवारपरिघृतेन समस्तशस्तदर्शनजनजातनेत्र पत्रसुधाधारापारणाकारणाप्रवीणरूपं श्रीभरताधिपविनिर्मितं श्रीमदष्टापदशिखरिशिखरशेखराय मानश्रीइक्ष्वाकु कुलवंशीय मुनिमतल्लिकावितानसंस्कारस्थानप्रधानस्तूपस्वरूपमतुच्छ म्लेच्छ कुलजनव्याकुलश्रीसिन्धु मण्डलमध्यनिवासिश्रावक लोकमनोऽवष्टम्भनादानान्तरीपं श्री स्तूपं कारयामास ।
११५. ततश्च सं० १३९० वर्षे ज्येष्ठशुक्लपट्यां सोमवारे मिथुनलग्ने श्रीदेवराजपुरे श्रीयुगादिदेवविधिचैत्ये श्रीतरुणप्रभाचार्यैः श्रीजयधर्ममहोपाध्याय -श्रीलब्धिनिधान महोपाध्यायप्रमुख त्रिंशत्संख्याक मुनि... मालानेकसाध्वीनानाजनपदनगरग्रामवास्तव्यासंख्यस्वपक्ष-परपक्षसुश्रावक ब्राह्मण ब्रह्मक्षत्रिय राजपुत्र- तुरुष्कनाथाद्यनेकसहस्रसंख्यलोकमहामेलापकेन विधीयमानास्वमारिघोषणा, क्रियमाणासु नानाविधासु प्रोत्सर्पणासु, वितत्यमानेषु बहुविधेष्वचास्तिसत्रेषु, स्थाने स्थाने दीयमानेषु तालाशसकेषु गीयमानेष्वविधव सुधवनारीभिर्धवलमङ्गलेषु, संजायमानेषु समग्रजननयनप्रमोदनृत्याभिषेकेषु प्रेक्षणीयेषु, पुष्करावर्तमेघवदखण्डधनधान्यवस्त्र स्वर्णसुवर्णतुरङ्गमादिनानाविधमहादानधाराभिर्वर्षत्सु श्रावककदम्बकेषु, निजभुजार्जितामेयस्वापतेय बीजवपनक्षेत्र भूमिकासु क्रियमाणासु श्रीचतुर्विधसंघपूजासु, श्रीजिनकुशलसूरीणां शिक्षानुसारेण पद्ममूर्तिक्षुल्लकस्य श्रीजिनकुशलसूरीन्द्र पट्टसिंहासने संस्थापना विदधे । श्रीपूज्यादेशानुसारेण श्रीजिनपद्मसूरय इति नाम कृतम् । श्रीजिनपद्मसूरीणां पट्टाभिषेकमहोत्सवश्च रीहडकुलप्रदीपसाधुधनदेवपुत्ररत्न-साधुहेमलाङ्गज- साधुपूर्णचन्द्रपुत्ररत्लेन श्रीजिनशासनप्रभावनाकरणप्रवीणेन श्रीशत्रुञ्जयोज्जयन्तादिमहातीर्थयात्रा करण श्रीजिनचन्द्रसूरि-श्रीजिनकुशलसूरियुगप्रवरागमश्री सिन्धुदेशविहारकारापण श्रीआचार्य पद-श्रीउ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org