Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
८६
खरतरगच्छालंकार पाध्यायसंस्थापनास्वपुत्रिकादीक्षादापनप्रमुखदन्तिदन्तावदातावदातव्रातसंजातसुयशःकुसुमश्रेणीसौरभभरसुरभितसर्वदिक्कुटुम्बकेन साधुराजहरिपालसुश्रावकेण पितृव्यसाधुकटुक-भ्रातृसाधुकुलधर-सत्पुत्रसाधुझाञ्झण-सा यशोधवलप्रमुखसकलपरिवारपरिकलितेन सर्वेषु देशेषु कुङ्कुमपत्रिकाप्रेषणपूर्व चतुर्दिक्षु सर्वस्थानश्रीविधिसंघान् समामन्त्र्य,मासैकादारभ्य प्रतिदिनं श्रीसाधर्मिकवात्सल्यादिनानाप्रभावनासंघपूजादिमहामहोत्सवेषु स्वभुजोपार्जितानेकसहस्रसंख्यरूप्यटङ्ककव्ययेन याचकजनमनःसन्तोषपोषपूर्वकं कारितः।
तस्मिन् महोत्सवे साधुआम्बा-सा झाझा-सा०मम्मी-सा०चाहड-सा०धुस्सुर-श्रे०मोहण-सा नागदेव-सा गोसल -सा०कर्मसिंह-सा०खेतसिंह-साबोहिथप्रमुखनानास्थानवास्तव्यमहामहद्धिकसुश्रावकैश्च स्वकीयं स्वापतेयं सफलीचक्रे । तस्मिन्नेव महोत्सवे जयचन्द्र-शुभचन्द्र-हर्षचन्द्रमुनीनां महाश्री-कनकश्रीक्षुल्लिकायाश्च श्रीजिनपद्मसूरिभिर्दीक्षा प्रददे । पं०अमृतचन्द्रगणेर्वाचनाचार्यपदं प्रदत्तम् । अनेकश्राविकाभिर्माला गृहीता । अनेकश्रावक-श्राविकाभिः श्रीसम्यक्त्वारोप-श्रीसामायिकारोप-परिग्रहपरिमाणानि गृहीतानि । तदनन्तरं ज्येष्ठशुक्लनवम्यां साधुराजहरिपालकारितश्रीयुगादिदेवप्रमुखाईद्धिम्बानां स्तूपयोग्य-श्रीजेसलमेरुयोग्य-श्रीक्यासपुरयोग्य-श्रीजिनकुशलसूरीणां मूर्तित्रयस्य प्रतिष्ठामहोत्सवः पदस्थापनामहोत्सववत् सविस्तरतरः कृतः। तस्मिन्नेव च दिने महता विस्तरेण श्रीचतुर्विधसंघमहामेलापकेन श्रीजिनकुशलसूरीणां मूर्तिः स्तूचे संस्थापिता । तदनन्तरं पट्टाभिषेकमहोत्सवोपरि समागतश्रीजेसलमेरवीयश्रीविधिसमुदायगाढतराभ्यर्थनया श्रीउपाध्याययुगलप्रमुखसाधुद्वादशपरिवारपरिवृताः श्रीपूज्याः श्रीजेसलमेरवीयश्रीविधिसमुदायकारितस्वपक्ष-परपक्षातुच्छम्लेच्छानन्दकारिसविस्तरतरप्रवेशकमहामहोत्सवपूर्वकं श्रीपाश्वनाथदेवाधिदेवं नमाकृतवन्तः। प्रथमा चतुर्मासी च तत्र कृता।
११६. तदनन्तरम् , सं० १३९१ वर्षे पौषवदिदशम्यां मालारोपादिमहोत्सवं सविस्तरतरं विधाय, लक्ष्मीमालागणिन्याः प्रवर्तिनीपदं दत्त्वा, श्रीपूज्या वाग्भटमेरूपरि विहताः । तत्र च सा०प्रतापसिंह-सा०सातसिंहप्रमुखश्रीसमुदायेन श्रीचाहमानकुलप्रदीपराणकश्रीशिखरप्रमुखश्रीराजलोकनगरलोकसंमुखानयनपूर्वकं प्रवेशकमहोत्सवं विधाय श्रीयुगादिदेवमहातीर्थ नमस्कारिताः । तत्र च दिनदशकं श्रीसमुदायस्य समाधानं समुत्पाद्य, श्रीपूज्याः श्रीसत्यपुरोपरि विहताः। श्रीसत्यपुरे च राजमान्यसर्वसंघकार्यनिर्वाहणसमर्थसाधुनिम्बाप्रमुखश्रीसमुदायेन राणकश्रीहरिपालदेवप्रमुखश्रीराजलोक-नगरलोकसम्मुखानयनपूर्वकं प्रवेशकमहामहोत्सवः प्रचक्रे । श्रीमहावीरदेवं च श्रीपूज्या नमस्कतवन्तः। तत्र च माघशुक्लषष्ठयां श्रीसमुदायकारितं सकलजनचेतश्चमत्कारकारकं व्रतग्रहणमालारोपादिमहोत्सवं चक्रुः । श्रीपूज्यैस्तस्मिन् महोत्सवे नयसागर-अभयसागरक्षुल्लकयोर्दीक्षा प्रदत्ता । अनेकश्राविकाभिर्माला प्रगृहीता । श्रीसम्यक्त्वारोपश्च कृतः। तत्र च किंचिदूनं मासमेकं श्रीसमुदायस्य समाधानमुत्पाद्य, पश्चात् श्रीआदित्यपाटके संघपुरुषसा०वीरदेवादिसर्वसमुदायकारितसविस्तरतरप्रवेशकमहामहोत्सवेन श्रीशान्तिनाथमहातीर्थ नमश्चक्रुः । ततो माघशुक्लपूर्णिमायां सा जाहणकुलावतंससा०तेजपालप्रमुखश्रीसमुदायकारितः सविस्तरतरः प्रतिष्ठामहामहोत्सवो विरचयाञ्चक्रे । तस्मिन् महोत्सवे श्रीयुगादिदेवप्रमुखजिनविम्बपञ्चशत्याः श्रीपूज्यैः प्रतिष्ठा विदथे । ततः फाल्गुनाद्यषष्ठीदिने मालारोपण-श्रीसम्यक्त्वारोपादिमहोत्सवो विरचयामासे ।
ततः सं० १३९२ वर्षे मार्गशीर्षवदिषष्ठीदिने क्षुल्लकयोरुत्थापनाश्राविकामालाग्रहणादिमहोत्सवश्चक्रे ।
११७. ततः सं० १३९३ वर्षे कार्तिकमासे श्रीपूज्यैलघुवयोभिरप्यवश्यकर्तव्यतया साधुतेजपालकारितसविस्तरतरघनसारनन्दिपूर्वकं प्रथमोपधानतपो व्यूढम् । ततः श्रीश्रीमालकुलावतंससा० सोमदेवसुश्रावकस्य श्रीजीरापल्लीसमलङ्कारश्रीपार्श्वनाथजिननिनंसाविहितगाढतराभिग्रहस्य विज्ञप्तिकया फाल्गुनाद्यदशम्यां श्रीपत्तनात् प्रस्थाय, नारउद्रस्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148