Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
८८
खरतरगच्छालंकार मण्डलिक-मं०वयरसिंह-सानेमा-सा०कुमरपाल-सा०महीपालप्रमुखत्रिशृङ्गमकसङ्घन महाराजश्रीमहीपालाङ्गज-महाराजश्रीरामदेवविज्ञपनं कृला, तदीयनिरोपमासाद्य निःस्वानेषु वाद्यमानेषु सविस्तरतरः श्रीसङ्घस्य नगरप्रवेशकमहामहोत्सवश्चक्र | श्रीपूज्यैश्च सर्वचतुर्विधसङ्घसमन्वितैः सविस्तरा सर्वप्रासादेषु चैत्यप्रपाटी विदधे । श्रीसङ्घश्च श्रीशक्रपदादिनिर्माणेन रूप्यटङ्कशत १५० श्रीपार्श्वनाथप्रासादे कृतार्थीचकार ।
१२०. ततः प्रतिदिक्प्रसर्पत्प्रतिनिनादश्रीपूज्यनिष्प्रतिमप्रातिभवैभवादिगुणगणसंभवयशोवादसमाकर्णनेन संजातकौतुकसमाजः श्रीरामदेवमहाराजः सा०मोखदेव मं०मण्डलिकाग्रे प्रतिपादयामास- युष्मद्गुरूणां लघुवयसामपि महान् प्रज्ञाप्रकर्षः श्रूयते । अतस्तदवलोकनार्थमहं तत्रागमिष्यामि; अथवा तान् मम पार्श्व समानयत' । ततः सामोखदेवमं०मण्डलिकाभ्यां श्रीपूज्या महताऽऽग्रहेण विज्ञप्यन्ते स्म । ततस्तदाग्रहाच्छ्रीपूज्याः श्रीलब्धिनिधानमहोपाध्यायादिसाधुपरिवृताः श्रीरामदेवमहाराजसभायां पादा अवधारितवन्तः। श्रीरामदेवमहाराजः श्रीपूज्यान समागच्छतोऽवलोक्य स्वकीयासनात् समुत्थाय श्रीपूज्यपादान ननाम । श्रीपूज्योपवेशनार्थ चतुष्किकां मोचयामास च । श्रीपूज्यैश्वाशीदिः प्रादायि । तत्र चोपविष्टेन श्रीसारङ्गदेवमहाराजव्यासेन स्वोपज्ञं काव्यं व्याख्यायि । तत्काव्ये च श्रीलब्धिनिनमहोपाध्यायैः क्रियापदे कूटं निरकास्यत । ततः श्रीरामश्चित्ते चमत्कृतः । पुनः पुनः सभायां बभाण-'अहो ! अमीषामुपाध्यायानां जाग्रत्समग्रशास्त्ररहस्यानां महाभटवद्वाक्पटुता, येनास्माकमपि सभायां व्यासवचने कूटं निष्कासितम्' । ततः सर्वाऽपि राजपर्पत् मस्तकधूननेन ताण्डवं नाटयन्ती श्रीपूज्यराजश्रीमदुपाध्यायमिश्रगुणवर्णनपरा जज्ञे । ततः श्रीपूज्यैः श्रीराममहाराजवर्णनं तात्कालिकयार्यया विदधे । तथा हि
विहितं सुवर्णसारङ्गलोभिनापि त्वयाऽद्भुतं राम!।
यत्ते लङ्कापुरुषेण ननु ददे श्रीवरा सीता ॥ ततः सर्वाऽपि सभा चमत्कृता । ततः श्रीरामेण श्रीसिद्धसेनप्रमुखाचार्यान् समाकार्य, तत्प्रत्यक्ष श्रीपूज्यपार्थात् कायस्थकथितं विकटाक्षरं काव्यमलेख्यत । तच्च श्रीपूज्यनूतनदृष्टराजसभायामपि धाष्टर्थशालिभिरिमेकं वाचयिखोत्पुंस्य च मुखे नाममालामनवच्छिन्नवाण्या गुणयत् सर्वकं समलिख्यत । लोकश्च सर्वोऽपि श्रीपूज्यानां संमुखो बभूव । ततः पुनरप्येकस्यैकस्य श्लोकस्य प्रत्येकमेकमेकमक्षरमाचार्य-व्यास कायस्थपाल्लेिखयित्वा श्रीपूज्यैरुत्पुसितम् । एवं द्वितीयवारं तृतीयवारमित्यादि यावत् श्लोकत्रयं सम्पूर्णमजनिष्ट । ततः श्रीपूज्यनिष्प्रतिमप्रज्ञापोषविशेपशालिभिः सम्पूर्णश्लोकत्रयं पट्टकेऽलेखि । तेन च सुकर्मणा विश्वत्रयेऽपि स्वकीयश्लोकराजहंसः खेलनार्थमप्रैषि । ततः सर्वाऽपि राजसभा-'अद्यापि विषमकलिकालविलुप्तसकलकलास्वपि लोकेषु श्रीजैनशासने विलोक्यन्तेऽतिशायिकलाकलापकलिताः श्रीसूरिवराः' इति श्रीपूज्यगुणगणवर्णनपरा जज्ञे। श्रीपूज्याश्च सराजराजसभाचेतश्चमत्कारं समुत्पाद्य श्रीसद्धे पादाववधारयाश्चक्रुः।
१२१. ततश्चन्द्रावत्यादिमार्गेण श्रीचतुर्विधसङ्घन वरिवस्यमानाः श्रीपूज्या बूजडीस्थाने पादाववधारयामासुः । तत्र च नियूंढश्रीसङ्घयाग्भारेण निर्निदानस्वर्णरूप्यवस्त्राश्वप्रमुखवस्तुवितानमहादानप्रदानपवित्रीकृतामेयस्वकीयस्वापतेयसारेण सङ्घपुरुषसाधुमोखदेवसुश्रावकवरेण श्रीउदयसिंहमहाराजप्रमुखराजलोकनागरिकलोकसंमुखागमनेन....... वाद्यमानेषु सर्वेष्वपि वाद्येषु श्रीसङ्घसहितश्रीदेवालयस्य प्रवेशकमहामहोत्सवो विरचयामासे । श्रीपूज्याश्च सपरिवारास्तत्र चतुर्मासी चक्रुः॥
[९३]
॥ समाप्तिमगमदत्रेयं गुर्वावली ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148