Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 110
________________ युगप्रधानाचार्यगुर्वावली। ११०. तदनन्तरम् , सं०१३८६ वर्षे निरुपमाकृत्रिमान्तरदृढतरभक्तिप्राग्भारशृङ्गारसुभगं श्रीदेवगुर्वाज्ञाचिन्तामणिविभूषणप्रियं भावुकमस्तकश्रीजिनशासनप्रभावनावनीतलसमुल्लासनघनाघनालीसमवायश्रीबहिरामपुरीयखरतरसमुदायधनतरोपरोधवशतः सततविहितसुविहाराः खकीयसप्रसरज्योतिर्विसरापसारितान्तरघोरान्धकारा जागरूकीकृतविचित्रचित्रमाङ्गलिक्यप्राग्भाराः स्वीकृतचरणकरणालङ्करणसुश्रावकगणपरिवाराः श्रीजिनकुशलसूरियुगप्रवरा दिवाकरा इव सकलभविककमलकाननप्रबोधनप्रबद्धादरा मोहान्धकारतिरस्कारकरणार्थ श्रीबहिरामपुरे सा० भीम-सान्देदा-सा० धीर-सा०रूपाप्रमुखसमग्रश्रीवहिरामपुरवास्तव्यश्रीविधिसमुदायविधीयमानसमग्रवपक्षपरपक्षचेतश्चमत्कारकारिसविस्तरतरप्रवेशकमहोत्सवाः संमुखागतास्तोकलोकसमुत्कीर्त्यमानकुन्देन्दुसमानानेकप्रविवेकशमदमसंयमप्रकाराः कमनीयरूपलावण्यादिप्रगुणगुणश्रेणयः स्वमहिमातिशयनिशितपरशूधारालूनविनवल्लीविततयः श्रीपाश्चदेवविधिमन्दिरे समस्तसमीहितसम्पादनसमर्थसेवं श्रीपार्श्वनाथदेवं नमस्कृतवन्तः। ___ तत्र च प्रतिष्ठितं श्रीबहिरामपुरवास्तव्यविधिसमुदायेन श्रीपूज्यपादारविन्दवन्दनार्थमागतनानाग्रामवास्तव्यश्रावकसमुदायेन कोमलकश्रावकैरप्यहमहमिकापूर्व........श्रीसाधर्मिकवात्सल्य-श्रीसंघपूजावारितसत्रनिर्मापणादिप्रभावनासु विधीयमानासु, कार्यमाणेषु नागरिकजननिनिमेषेक्षणप्रेक्षणीयेषु, संजायमानेषु स्थाने स्थानेऽन्वहं....धकमलवर्जत्यङ्ग(१)नर्तनपूर्वकं नागरिकलोकेन श्रीपूज्यगुणग्रामवर्णनेषु, कियन्त्यपि दिनानि स्थित्वा, नोभिगिध्यान्धकारतिरस्कारसमुल्लासश्रीकस्यक्रुक्षपमहाप्रकाशनिवेश्य(?), श्रीबहिरामपुरात् श्रीक्यासपुरीयखरतरसमुदायगाढतरोपरोधेन प्रस्थाय प्राच्ययुगप्रवरागमरत्नपादप्रधाराभावमूरिनोभूयमागथानतमस्काण्डक्रीडापुरे(?) श्रीक्यासपुरोपरि विजहुः श्रीपूज्याः। अत्र च...सा०धीणिग-साजेठू-सा वेला-सा०महाधरप्रमुखश्री........लारवाहणीयसमुदायेन श्रीलारवाहणे स्वकीयम्लेच्छनायकसंमुखानयनपूर्वकम् , वाद्यमानढोल्लनान्दीतूर्यवर्यनिनादेन मुखरीक्रियमाणेषु दिङ्मुखेषु, मिलितज.... पादाश्च तेमूली(?)वातसंमूछेदतुच्छाम्बुदभ्रमेणाकाण्डताण्डवाडम्बरं कुर्वत्सु मयूरेषु, मन्दिरद्वारेषु वध्यमानासु वन्दनामालिका सु श्री...पूज्यानां प्रवेशकमहोत्सवो कारयांचवे । तत्र च, श्रावकलोकेन...संजायमानेषु श्रीसाधर्मिकवात्सल्यावारितसत्रेषु, जायमानासु सविस्तरतरासु श्रीसंघपूजासु, दिनषट्कं......प्रबोधा.......ततः स्थानात् प्रस्थायान्तरालखोजावाहनादिव.............मानप्रवेशकोत्सवा............ प्राग्भारानुगमैकश्रावकलोकवाहनोखातरजःपुञ्जजञ्जन्यमा... ................................. (अत्र कियान् विशेषपाठस्त्रुटितः प्रतिभाति) [1] १११. तदनन्तरम् , नैसर्गिकगुरुतरगुरुभक्तिरसरङ्गतरङ्गितमानसनिरवधिविधिमार्गसरःकलहंसश्रीक्यासपुरनिवासिश्रे०मोहण-सा०कुमरसिंह-व्यव० खीमसिंह-सा० नाथू-सा जट्टडप्रमुखश्रावकसमुदायेन युगप्रवरागमश्रीजिनकुशल- - सूरिपादावधारणसमुच्छलदनगलतराह्लादपयःपटलप्रेक्ष्यमाणक्षेत्रप्रोद्भूतप्रभूतरोमाङ्कुरपूरोदयेन स्वकीयम्लेच्छनायकपार्थात करकलितदण्डकं तुरष्काष्टकं दुष्टलोकनिवारकं सहादाय, राजलोक-नगरलोक-सा०चाचिगप्रमुखकोमलश्रावकलोकमेलापके वाद्यमानेष्वधरीकृतभद्रभाद्रपदीयसजलजलधरगम्भीरगर्जेषु नान्दीतूर्येषु, दीयमानासु महामिथ्यात्वप्रतिपन्थिमर्मव्यथनकर्तरीषु चच्चरीषु, गीयमानेष्वविधवसुधवाभिर्नारीभिः सकलामाङ्गलिक्यमालाज्वालासलिलेषु धवलमङ्गलेषु, पापठ्यमानेषु मङ्गलपाठककदम्बकेन श्रीपूज्यराजदन्तिदन्तावदातावदातवातवर्णनागर्भेषु नव्यकाव्येषु, गीयमानेषु गाथकवृन्देन समग्रसकर्णकर्णमृगतर्णककान्तेषु गीतेषु, पूर्वमनोवनागोचरसिताम्बरदर्शनदर्शनोत्कण्ठितनारीभिः खमन्दिरद्वारोर्श्वभूमिवलभीविरचितस्थितिभिर्मुक्तनिजनिजकृत्याभिः श्रीपूज्यावलोकन....कालिकोत्पद्यमानपुण्यवितानस्वाधीनविबुधभाराभिरिव नि........................पलावणारसा(?) अहो! अमीषां श्वेताम्बरसार्वभौमानामुपशमरससम्पूर्णता, अहो ! अमीषां दुर्दमकरणतुरङ्गमवशीकारकर्मठता, अहो ! अमीषां समस्तजनतानन्दिशान्तवेपता, नास्त्यमीषां समोऽन्यस्तपस्वीति वचनमालासहस्रेण स्तूयमानगुणग्रामा, अङ्गुलिमालासहस्रेण दश्यमानाभीमानकू Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148