________________
युगप्रधानाचार्यगुर्वावली। ११०. तदनन्तरम् , सं०१३८६ वर्षे निरुपमाकृत्रिमान्तरदृढतरभक्तिप्राग्भारशृङ्गारसुभगं श्रीदेवगुर्वाज्ञाचिन्तामणिविभूषणप्रियं भावुकमस्तकश्रीजिनशासनप्रभावनावनीतलसमुल्लासनघनाघनालीसमवायश्रीबहिरामपुरीयखरतरसमुदायधनतरोपरोधवशतः सततविहितसुविहाराः खकीयसप्रसरज्योतिर्विसरापसारितान्तरघोरान्धकारा जागरूकीकृतविचित्रचित्रमाङ्गलिक्यप्राग्भाराः स्वीकृतचरणकरणालङ्करणसुश्रावकगणपरिवाराः श्रीजिनकुशलसूरियुगप्रवरा दिवाकरा इव सकलभविककमलकाननप्रबोधनप्रबद्धादरा मोहान्धकारतिरस्कारकरणार्थ श्रीबहिरामपुरे सा० भीम-सान्देदा-सा० धीर-सा०रूपाप्रमुखसमग्रश्रीवहिरामपुरवास्तव्यश्रीविधिसमुदायविधीयमानसमग्रवपक्षपरपक्षचेतश्चमत्कारकारिसविस्तरतरप्रवेशकमहोत्सवाः संमुखागतास्तोकलोकसमुत्कीर्त्यमानकुन्देन्दुसमानानेकप्रविवेकशमदमसंयमप्रकाराः कमनीयरूपलावण्यादिप्रगुणगुणश्रेणयः स्वमहिमातिशयनिशितपरशूधारालूनविनवल्लीविततयः श्रीपाश्चदेवविधिमन्दिरे समस्तसमीहितसम्पादनसमर्थसेवं श्रीपार्श्वनाथदेवं नमस्कृतवन्तः। ___ तत्र च प्रतिष्ठितं श्रीबहिरामपुरवास्तव्यविधिसमुदायेन श्रीपूज्यपादारविन्दवन्दनार्थमागतनानाग्रामवास्तव्यश्रावकसमुदायेन कोमलकश्रावकैरप्यहमहमिकापूर्व........श्रीसाधर्मिकवात्सल्य-श्रीसंघपूजावारितसत्रनिर्मापणादिप्रभावनासु विधीयमानासु, कार्यमाणेषु नागरिकजननिनिमेषेक्षणप्रेक्षणीयेषु, संजायमानेषु स्थाने स्थानेऽन्वहं....धकमलवर्जत्यङ्ग(१)नर्तनपूर्वकं नागरिकलोकेन श्रीपूज्यगुणग्रामवर्णनेषु, कियन्त्यपि दिनानि स्थित्वा, नोभिगिध्यान्धकारतिरस्कारसमुल्लासश्रीकस्यक्रुक्षपमहाप्रकाशनिवेश्य(?), श्रीबहिरामपुरात् श्रीक्यासपुरीयखरतरसमुदायगाढतरोपरोधेन प्रस्थाय प्राच्ययुगप्रवरागमरत्नपादप्रधाराभावमूरिनोभूयमागथानतमस्काण्डक्रीडापुरे(?) श्रीक्यासपुरोपरि विजहुः श्रीपूज्याः। अत्र च...सा०धीणिग-साजेठू-सा वेला-सा०महाधरप्रमुखश्री........लारवाहणीयसमुदायेन श्रीलारवाहणे स्वकीयम्लेच्छनायकसंमुखानयनपूर्वकम् , वाद्यमानढोल्लनान्दीतूर्यवर्यनिनादेन मुखरीक्रियमाणेषु दिङ्मुखेषु, मिलितज.... पादाश्च तेमूली(?)वातसंमूछेदतुच्छाम्बुदभ्रमेणाकाण्डताण्डवाडम्बरं कुर्वत्सु मयूरेषु, मन्दिरद्वारेषु वध्यमानासु वन्दनामालिका सु श्री...पूज्यानां प्रवेशकमहोत्सवो कारयांचवे । तत्र च, श्रावकलोकेन...संजायमानेषु श्रीसाधर्मिकवात्सल्यावारितसत्रेषु, जायमानासु सविस्तरतरासु श्रीसंघपूजासु, दिनषट्कं......प्रबोधा.......ततः स्थानात् प्रस्थायान्तरालखोजावाहनादिव.............मानप्रवेशकोत्सवा............ प्राग्भारानुगमैकश्रावकलोकवाहनोखातरजःपुञ्जजञ्जन्यमा... ................................. (अत्र कियान् विशेषपाठस्त्रुटितः प्रतिभाति) [1]
१११. तदनन्तरम् , नैसर्गिकगुरुतरगुरुभक्तिरसरङ्गतरङ्गितमानसनिरवधिविधिमार्गसरःकलहंसश्रीक्यासपुरनिवासिश्रे०मोहण-सा०कुमरसिंह-व्यव० खीमसिंह-सा० नाथू-सा जट्टडप्रमुखश्रावकसमुदायेन युगप्रवरागमश्रीजिनकुशल- - सूरिपादावधारणसमुच्छलदनगलतराह्लादपयःपटलप्रेक्ष्यमाणक्षेत्रप्रोद्भूतप्रभूतरोमाङ्कुरपूरोदयेन स्वकीयम्लेच्छनायकपार्थात करकलितदण्डकं तुरष्काष्टकं दुष्टलोकनिवारकं सहादाय, राजलोक-नगरलोक-सा०चाचिगप्रमुखकोमलश्रावकलोकमेलापके वाद्यमानेष्वधरीकृतभद्रभाद्रपदीयसजलजलधरगम्भीरगर्जेषु नान्दीतूर्येषु, दीयमानासु महामिथ्यात्वप्रतिपन्थिमर्मव्यथनकर्तरीषु चच्चरीषु, गीयमानेष्वविधवसुधवाभिर्नारीभिः सकलामाङ्गलिक्यमालाज्वालासलिलेषु धवलमङ्गलेषु, पापठ्यमानेषु मङ्गलपाठककदम्बकेन श्रीपूज्यराजदन्तिदन्तावदातावदातवातवर्णनागर्भेषु नव्यकाव्येषु, गीयमानेषु गाथकवृन्देन समग्रसकर्णकर्णमृगतर्णककान्तेषु गीतेषु, पूर्वमनोवनागोचरसिताम्बरदर्शनदर्शनोत्कण्ठितनारीभिः खमन्दिरद्वारोर्श्वभूमिवलभीविरचितस्थितिभिर्मुक्तनिजनिजकृत्याभिः श्रीपूज्यावलोकन....कालिकोत्पद्यमानपुण्यवितानस्वाधीनविबुधभाराभिरिव नि........................पलावणारसा(?) अहो! अमीषां श्वेताम्बरसार्वभौमानामुपशमरससम्पूर्णता, अहो ! अमीषां दुर्दमकरणतुरङ्गमवशीकारकर्मठता, अहो ! अमीषां समस्तजनतानन्दिशान्तवेपता, नास्त्यमीषां समोऽन्यस्तपस्वीति वचनमालासहस्रेण स्तूयमानगुणग्रामा, अङ्गुलिमालासहस्रेण दश्यमानाभीमानकू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org