Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
८२
खरतरगच्छालंकार
स्थाप्य च पुनश्चतुर्मास्युपरि सकलानार्यसिन्धुदेशजनतानुगम्यमानचरणाः श्रीदेवराजपुरवरे श्रीयुगादिदेवं नमश्चक्रुः ।
१०८. पश्चात्तदनन्तरम् ,सं०१३८४ वर्षे माघशुक्लपञ्चम्यांप्रवर्धमानशिष्यसंप्राप्याद्यनेकलब्धि-आर्यानार्यदेशजिनधर्मप्रवृत्तिभूपालादिप्रतिबोधनशक्ति-निर्लोभताप्रवचनप्रभावनाविधानश्रीसूरिमत्राराधन-नानासमयार्थव्याख्यानसंवेगतासुरासुरवशीकरणता-परवादिनिर्धाटन-सर्वनगरग्रामजिनभुवनबिम्बस्थापनादिनानानिजलन्धिशक्त्यादिसंस्मारितश्रीगौतमखामि-श्रीसुधर्मस्वामि-श्रीआर्यसुहस्ति-श्रीवयरस्वामि-श्रीआचार्यमन्त्रप्रकटीकरणप्रवीणश्रीवर्धमानसूरिश्रीनवाङ्गवृत्तिकारश्रीस्तम्भनकपार्श्वनाथप्रकटीकरणोपार्जितभूरियशःश्रीअभयदेवसूरि-अनेकदेवाराध्य-मरुस्थलीकल्पद्रुमावतारश्रीजिनदत्तमरि-वादीन्द्रद्विपघटाविद्रावणपञ्चाननश्रीजिनपतिसरि-नानास्थानसंस्थापितश्रीतीर्थङ्करदेवोत्तुङ्गतोरणप्रासादश्रीजिनेश्वरसूरिप्रमुखानेकस्खवंशोद्भवगणधरयुगप्रधानमालावदातैः तपःक्रियाविद्याव्याख्यानध्यानातिशयावर्जितकिङ्करीभूतामरमहाम्लेच्छहिन्दुकनरेश्वरमधुकरनिकरसमाश्रितचरणाम्भोजयुगप्रवरागमश्रीजिनचन्द्रसूरिशिष्यराजैयुगप्रधानपदवीप्राप्त्यनन्तरप्रत्यब्दप्रवर्धमानप्रतिष्ठा व्रतग्रहण-मालारोपण-श्रीमहातीर्थयात्राविधान-समुपार्जितगोक्षीरधाराधवलहीराट्टहासतुषारकरनिकरोज्ज्वलयशःकाचकर्पूरवासितविश्ववलयैः सुगुरुचक्रवर्तिश्रीजिनकुशलसूरिभिः स्थैर्योदार्यगाम्भीर्यादिनानागुणगणमुक्ताफललतालङ्कृतगात्रश्रीदेवगुर्वाज्ञास्खलितप्रतिपालनजात्यजाम्बूनदमुकुटालङ्कृतोत्तमागश्रीजिनशासनप्रभावनावलीविविधक्रीडाविनोदविधानसमुद्यतश्रे गोपालपुत्ररत्नश्रे नरपाल-सा०वयरसिंह-सानन्दण-सामोखदेव-सा०लाखण-सा आम्बा-सा०कडया-सा०हरिपाल-साध्वीकिल-सा० चाहडप्रमुखानेकोच्चकीयमहामहर्द्धिकसुश्रावक-श्रीदेवराजपुर-श्रीकियासपुर-श्रीबहिरामपुर-श्रीमलिकपुरप्रमुखनानानगरग्रामवास्तव्यासंख्यसुश्रावक-राणक-राजलोक-नगरलोकगाढतराभ्यर्थनया प्रचुरदिनादारभ्य स्थाने स्थाने संजायमानेषु नानाविधेषु नाटकेषु, दीयमानेषु नराविधवसुधवाभिर्नारीभिस्तालारासकेषु, हाहाहूहूसमानानेकगायनावलीभिर्गीयमानेषु गीतेषु, पापठ्यमानेषु भट्टघट्टवृन्देषु, दीयमानेषु महामहद्धिकसुश्रावकै राजलोकै नाप्रकारस्वर्णरजतकटकतुरङ्गमपट्टांशुकादिवस्त्रान्नदानेषु, संजायमानेषु भविष्यक्षुल्लकक्षुल्लिकामालायाः सविस्तरतरेषु पुष्पाङ्कदानेषु, क्रियमाणेषु श्रीसाधर्मिकवात्सल्यश्रीसंघपूजाद्यनेकप्रकारेषु धर्मकृत्येषु, विषमदुःषमकाले प्रवर्तमानेऽपि सुषमावन्ट्रीचक्रवर्तिपट्टाभिषेकमहोत्सवानुकारी महामिथ्यात्वदैत्यविनाशनमधुसूदनानुकारी सकलस्वपक्षमहाजनलोकचेतश्चमत्कारकारी प्रद्विष्टाखिललोकहृदयकीलानुकारी सौवश्रीविधिधर्मसाम्राज्यसम्प्राप्तिमिथ्यात्वभूपालोन्मूलनश्रीसिन्धुदेशविजययात्राकरणसमुपार्जितपुण्यराज्यलक्ष्मीपाणिग्रहणसंस्तवकः श्रीप्रतिष्ठाव्रतग्रहणमालारोपणादिनन्दिमहोत्सवः सविस्तरतरश्चक्रिरे । तस्मिन् महोत्सवे श्रीराणकोट्टविधिचैत्य-श्रीकियासपुरविधिचैत्यमूलनायकयोग्यश्रीयुगादिदेवबिम्बद्वयप्रमुखानेकशिलमयपित्तलामयविम्बानां श्रीमत्पूज्यप्रवरतरकीर्तिस्तम्भानुकारिणां प्रतिष्ठा संजाता । नवनिधानानुकारिक्षुल्लकनवकं स्वायत्तं जातम्, क्षुल्लिकात्रयं च-तन्नामानि भावमूर्ति-मोदमूर्ति-उदयमूर्ति-विजयमूर्ति-हेममूर्ति-भद्रमूर्ति-मेघमूर्ति-पद्ममूर्ति-हर्षमूर्ति क्षुल्लका इति, कुलधर्मा-विनयधर्मा-शीलधर्मा साध्य इति । सप्तसप्ततिश्राविकाभिर्माला गृहीता। अनेकश्रावकश्राविकालोकैः परिग्रहपरिमाणग्रहण-सामायिकारोप-सम्यक्त्वारोपाः प्रचक्रिरे ।
१०९. ततश्च सं०१३८५ वर्षे लक्षणच्छन्दोलङ्कारसारनाटकाप्रमाणप्रमाणप्रसिद्धसिद्धान्ताद्यनवद्यत्रैविध्यमहापुरवीथीविज्ञेयजनप्रचाररथीभूतकुशाग्रनिशातसौवमतिवाततिरस्कृतसुरसूरिभिः श्रीजिनकुशलसूरिभिः श्रीउच्चकीय-श्रीबहिरामपुरीय-श्रीक्यासपुरीयादिश्रीखरंतरसमुदायमेलापके फाल्गुनशुक्लचतुर्थीदिने पदस्थापनाक्षुल्लकक्षुल्लिकोत्थापनामालाग्रहणादिनन्दिमहोत्सवः सविस्तरतरश्चक्रे । तस्मिन् महोत्सवे पं०कमलाकरगणेर्वाचनाचार्यपदं प्रदत्तम् , नूतनदीक्षितक्षुल्लिकानामुत्थापना कृता । विंशतिश्राविकाभिर्मालाग्रहणं विहितम् । बहुभिः श्रावक-श्राविकाभिः परिग्रहपरिमाणसामायिकारोप-सम्यक्त्वारोपा विदधिरे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148