Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
खरतरगच्छालंकार
पत्तनीय- श्रीप्रह्लादनपुरीय - श्रीवीजापुरीय - श्री आशापल्लीयादिनानास्थानसमुदाय महामेलापकेन वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, दीयमानेषु तालारासेषु, नृत्यमानाखविधवसुधवासु नायिकासु, संजायमानासु श्रीसंघपूजासु, क्रियमाणेषु श्रसाधर्मिक वात्सल्येषु, दीयमानेष्वमेयेषु स्वस्वापतेयेषु, सम्पद्यमानेष्ववारितसत्रेषु, दिनत्रयममारिघोषणानि - र्माणपूर्वकं हिन्दुकवारकवत् सकलजनमनश्चेतश्चमत्कारकारी विपक्षहृदय कीलानुकारी सकलातिशयनिधानैः सर्वलब्धिप्रधानैर्निजावदातसंस्मारितपूर्वसूरिभिः श्रीजिनकुशलसूरिभिश्चक्रे । तस्मिन् महोत्सवे क्षुल्लकचतुष्टयं क्षुल्लिकाद्वयं कृतम्, तेषां नामानि विनयप्रभ - मतिप्रभ - हरिप्रभ - सोमप्रभक्षुल्लकाः, कमलश्री - ललित श्रीक्षुल्लिके इति । प्रभूतसाध्वीश्राविकाभिर्माला गृहीता । अनेक श्रावक श्राविकाभिः सम्यक्त्वारोप- सामायिकारोपः कृतः, परिग्रहपरिमाणं च गृहीतमिति ।
८०
तस्मिन्नेव संवत्सरे श्रीपूज्याः श्रीसत्यपुरीय समुदायाभ्यर्थनया श्रीसत्यपुरे श्रीसमुदायका रितसविस्तरतरप्रवेशकमहोत्सवाः श्रीमहावीरदेवतीर्थराजं नमश्चक्रुः । तत्र च मासमेकं श्रीसमुदायस्य समाधानं समुत्पाद्य, श्रीलाटहदसम्मुदायाभ्यर्थना श्री लादे श्रीसमुदाय विहितसविस्तरतरप्रवेशकमहोत्सवाः श्रीमहावीरदेवाधिदेवं नमश्चक्रुः । तत्र च पक्षमेकं श्रीसमुदायस्य समाधानं समुत्पाद्य, श्रीवाग्भटमेरवीयसमुदायाभ्यर्थनया श्रीवाग्भटमेरौ श्रीसमुदाय कारितसकलस्वपक्ष-परपक्षचेतश्चमत्कारकारिप्रवेशकमहोत्सवाः श्रीयुगादिदेवतीर्थनाथं नमस्कृत्य चतुर्मासीं चक्रुः । -
१०४. पश्चात्, तत्र च सं० १३८३ वर्षे पौषशुक्लपूर्णिमायां श्रीजिनशासनप्रभावना श्रीसाधर्मिकवात्सल्यादिनानाधर्मकृत्यकरणोद्यतसाधुराज प्रतापसिंहप्रमुख श्रीवाग्भटमेरवीयसमुदायाभ्यर्थनया श्रीजेसलमेरवीय-श्रीलाटहद-श्रीसत्यपुर- श्री प्रह्लादनपुरीयादिनानास्थानवास्तव्य महर्द्धिकसुश्रावकलोकमहामेलापकेन संजायमानेषु श्रीसाधर्मिकवात्सल्यश्रीसंघपूजादिनानाविधेषु धर्मकृत्येषु, दीयमानेषु तालारासेषु क्रियमाणेष्ववारितसत्रेषु, अमारिघोषणा निर्मापणपूर्वकं श्री उत्थापना - मालारोपण - श्रीसम्यक्त्वारोपण - सामायिकारोप - परिग्रहपरिमाणादिनन्दिमहामहोत्सवं चक्रुः ।
१०५. ततस्तस्मिन्नेव संवत्सरे श्रीजवालिपुरीय समुदाय गाढतराभ्यर्थनया सकलातिशयनिधानाः समग्रसूरिमालाप्रधानाः श्रीजिनकुशलसूरियुग प्रधानाः श्रीवाग्भटमेरुतः प्रस्थाय समग्रराज्यभारधुराधरणधौरेय स्वकीयपूर्वजवाहिनकोद्धरणकारित - श्री शान्तिनाथमहाविम्वसमन्वितोत्तुङ्गतोरणनिरुपम गुरुतरप्रासादशिखरे श्रीलवणखेटकनगरे युगप्रवरागमस्वकीय दीक्षागुरुश्रीजिनचन्द्र सूरिगुरुजन्ममहोत्सवसौव जन्मदीक्षा ग्रहण महामहोत्सवविलोकन पवित्रीभूताखिलस्वपक्ष-परपक्षजनताननाः श्रीशम्यानयने च श्रीशान्तिनाथदेवाधिदेवम्, श्री समुदायकारितसविस्तर तरप्रवेशक महोसवा नमस्कृत्य कियन्ति दिनानि उभयस्थानसमुदाययोः समाधानं च समुत्पाद्य श्रीविधिधर्मकमलकाननप्ररोहसरोवरे श्रीजाबालिपुरे नानोत्सवनिर्मापणसमुद्यत श्रीजाबालिपुरीय महासमुदाय कारितसविस्तरतरप्रदेशकमहामहोत्सवाः स्वहस्तकमलप्रतिष्ठितं श्रीजा वालिपुरीय समुदायमनोवाञ्छितार्थपूरणाङ्गीकृतप्रतिज्ञं श्रीमहावीरदेवमहातीर्थराजचरणकल्पद्रुमं नमश्चक्रुः । तत्र च मत्रीश्वरकुलधर कुलप्रदीप मं० भोजराजपुत्ररत्न मं० सलखणसिंह - सा० चाहडपुत्ररत्नसा • झाञ्झणप्रमुख श्रीजाबालिपुरीयविधिसमुदायाभ्यर्थनया श्रे० हरिपालपुत्र रत्नश्रे० गोपालप्रमुख श्री उच्चकीयदेवराजपुरीय समुदाय - सकलोत्सवधुराधरणधौरेयधवलसा०जाह्नणपुत्ररत्न साधु राजतेजपाल - सा० रुदपालप्रमुख श्रीपतनीय - श्रीजेसलमेरवीय - श्रीशम्यानयनीय - श्रीश्रीमालीय - श्रीसत्यपुरीय - श्रीगुडहाप्रमुखनानानगरग्रामवास्तव्यासंख्य श्रीविधि समुदाय श्रावक लोकमहामेलापकेन दिनदशपञ्चकादारभ्य संजायमानेषु भविष्यत्क्षुल्लकानां सविस्तरतरेषु पुष्पाङ्कदानमहामहोत्सवेषु, दीयमानेषु तालारासेषु, अनेक महामहर्द्धिकसुश्रावकलोकैः स्वर्णरजतवस्त्रान्नदानैः सफलीक्रियमाणेष्वमेयेषु स्वस्वापतेयेषु गीयमानेष्वविधव सुधवाभिर्नारीभिः स्थाने स्थाने गीतेषु, श्रीसंघपूजा - साधर्मिकवात्सल्यावारितसत्रामारिघोषणादिनानाप्रभावनासु प्रवर्तमानासु, सं० १३८३ वर्षे फाल्गुनवदिनवम्यामतिशयेन विषमदुःषमाकाले प्रवर्तमाने, सकलस्वपक्षपरपक्षोत्तममध्यमजघन्य लोकानां मस्तके हस्ताध्यारोहं... कुर्वाणामपि, निरुपम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148