Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
युगप्रधानाचार्यगुर्वावली ।
नकृतनवनवालङ्कारस्तुतिस्तोत्र भणनपूर्वकं श्रीपूज्यैः सर्वचतुर्विधसंघपरिवृतैः सकलभवोपार्जितपापकश्मलप्रक्षालनप"वित्रा यात्रा कृता ।
तदनन्तरम्, दिनाष्टकं यावत् साधुराजवीरदेवप्रमुखदेशान्तरीयमहर्द्धिकसुश्रावकैः श्रीस्तम्भतीर्थवास्तव्यश्रीविधिसमुदायेन च श्रीमहाध्वजारोप श्रीमहापूजा - वारितसत्र - श्रीसंघवात्सल्य - श्रीसंघ पूजा - श्रीइन्द्रमहोत्सवामेयस्वापतेयोत्सर्पणा निर्माणपूर्वकं सकलस्वपक्षलोकानन्ददायकाः सर्वविपक्षलोकहृदयकीलानुकारका महामहोत्सवाश्च चक्रिरे । इन्द्रपदं च सा०कडुयासुश्रावक पुत्ररत्नेन दो० खांभराजसु श्रावकानुजेन दो० सामलसुश्रावकेण द्विव० द्र० शत १२ गृहीतम् । श्रीमत्रिपदादिपदानि चान्यैः सुश्रावकैर्गृहीतानि ।
७९
१०२. तदनन्तरम्, श्रीस्तम्भतीर्थात् प्रस्थाय सर्वोऽपि संघः संजायमानेषु राजविधुरेष्वपि सर्वशून्यभूतेषु देशेषु, समग्रोत्साहपूर्वकं श्रीशत्रुञ्जयोपरि प्रचलितः सन् अन्तरागत श्रीधान्धूका महानगरे संप्राप्तः । तत्र सकलनगरनायकेन मलिकुलोत्तंसेन ठ० उदय कर्णसुश्रावकेण श्रीसंघवात्सल्यश्रीसंघपूजानिर्माणपूर्वकं महती प्रभावना कृता । ततः पुनः प्रस्थाय, क्रमक्रमेण श्रीशत्रुञ्जयतलहट्टिकायां सम्प्राप्तः। तदनन्तरं श्रीपूज्यपादैः सर्वसंघपरिवृतैः श्रीशत्रुञ्जयशैलोपर्यध्यारोहं विधाय भवभयवल्लीप्रोन्मूलनासिलतासमानां द्वितीयवारं श्रीशत्रुञ्जयालङ्कार श्रीयुगादिदेवमहातीर्थयात्रां नानाभङ्गिबन्धुरसर्वालङ्कारसुन्दर नूतनकृत स्तुतिस्तोत्रप्रदानपूर्वकं कृला, तदनन्तरं दिनदशकं यावत् सकलसंघमुख्यभूतसाधुराजवीरदेवश्रीसंघ पाश्चात्य पदप्राग्भारनिर्वाहक - सा० साहुतेजपाल - सा० नेमिचन्द्र - योगिनी पुरवास्तव्य श्री श्रीमालसा० रुदपाल - साहुनींबदेव - मत्रिदलकुलोत्तंसठ ० जवनपाल - सा०लखमा-श्रीजावालिपुरवास्तव्य सा० पूर्णचन्द्र-सा० सहजागुडहावास्तव्यसा०वाधूप्रमुखनानास्थानकवास्तव्यमहामहर्द्धिकसुश्रावकैः श्रीमहाध्वजारोपमहापूजावारितसत्र - श्रीसाध मिंकवात्सल्य - श्रीसंघपूजा - श्रीइन्द्रपदमहामहोत्सव निर्माणामेयस्वस्वापतेयैश्च पट्टांशुकादिनानावस्त्रस्वर्णकटकादिवितरणपूर्वकं श्रीशत्रुञ्जयोपरि श्रीजिनशासनप्रोत्सर्पिका प्रभावना कृता । इन्द्रपदं च श्रीजिनशासनप्रभावनाकरणप्रगुणेन साहुलोहटपुत्ररत्नेन साधुलखमासुश्रावकेण द्विवल्लि (ल्ल) कद्रम्मशतसप्तत्रिंशद्भिर्गृहीतम् । अमात्यपदं च श्रीयोगिनीपुवास्तव्यश्रीश्रीमालसा॰ सुरराजपुत्ररत्नेन सा०रुदपालानुजेन साहुनींवदेव श्रावण द्विवल्लकद्रम्म द्वादशशतैर्गृहीतम् । शेषपदान्यन्यमहर्द्धिकसुश्रावक सुश्राविकाभिगृहीतानि । सर्वसंख्यया श्रीयुगादिदेवभाण्डागारे श्रीविधिसंघेन सहस्रपश्चदशप्रमाणं स्वस्वापतेयं सफलीकृतम् । स्वकीयश्रीयुगादिदेवविधिचैत्ये नूतननिष्पन्नश्री चतुर्विंशतिजिनालय देवगृहिकासु श्रीपूज्यराजैः सविस्तरतरः कलशध्वजारोपः कृतः ।
तदनन्तरम्, सर्वसंघपरिवृताः श्रीपूज्याः श्रीयुगादिदेवमुत्कलनं विधाय तलहट्टिकायां समायाताः । ततः सर्वोsपि संघ आगमनरीत्यैव गुर्वाडम्बरेण व्याघुट्य पुनः शेरीष के श्रीपार्श्वयात्रां विधाय क्रमक्रमेण श्रीशङ्खश्वरे समायातः । तत्र च दिनचतुष्टयमवारितसत्र - श्रीसाधर्मिक वात्सल्य - श्रीमहापूजा - महाध्वजारोपनिर्माणपूर्वकं श्रीपार्श्वनाथप्रत्यासन्नपाडलालङ्कारश्रीनेमीश्वरयोर्नूतन कृत स्तुतिस्तोत्रप्रदानपूर्वकं सकलसंघपरिवृतैः श्रीपूज्यैर्यात्रा कृता । तदनन्तरं सकलसंघपरिवृताः श्रीपूज्याः श्रावणशुक्लैकादश्यां प्रभावकसाधुराजवीरदेवकारितसविस्तरतर प्रवेशकनिर्माणपूर्वकं श्री भीमपल्ल्यां श्रीमहावीरदेवं नमश्चक्रुः । देशान्तरीयः सर्वः संघः साहुवीरसुश्रावकेण सन्मानदानपूर्वकं स्वस्थाने प्रविष्टः ।
१०३. तदनन्तरम्, सं०१३८२ वर्षे वैशाखसुदि ५ साधुराजसामलकुल प्रदीपायमानस्यैयौदार्यगाम्भीर्याधः कृतमेरुमन्दरपयोनिधिवितानसमग्रनगरलोकमुकुटायमानश्रीजिनशासनप्रोत्सर्पणाकरणप्रधान श्री शत्रुञ्जयादि महातीर्थयात्राकरसमुपार्जित पुण्यनिधान साधुराजवीर देवसुश्रावककारितो दीक्षामालारोपणादिनन्दिमहामहोत्सवः श्री भीमपल्लीय -श्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148