Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 108
________________ युगप्रधानाचार्यगुर्वावली । सौवज्ञानध्यानवलातिशयादागामिकुशलं परिभावयद्भिः श्रीजिनकुशलसूरिभिः सुपमसुषमावत्सकलस्वपक्ष-परपक्षासंख्यम्लेच्छलोकचेतश्चमत्कारकारी विधिधर्मप्रभावनाप्रद्विष्टलोकहृदयकीलानुकारी निर्विघ्नः श्रीप्रतिष्ठा-व्रतग्रहणोस्थापना-मालारोपण-श्रीसम्यक्त्वारोपादिनन्दिमहामहोत्सवः सविस्तरतरः कृतः । तस्मिन् महोत्सवे श्रीराजगृहनिवासिसमग्रलोकक्रीडास्थानकश्रीवर्धमानस्वामिचरणकमलन्यास-श्रीगौतमस्वामिप्रमुखश्रीमहावीरैकादशगणधरादिमहामुनिनिर्वाणपवित्रीकृतश्रीवैभारगिरिशैलोपरि ठ० प्रतापसिंहकुलप्रदीपमत्रिदलकुलोत्तंससंघपुरुष ठ० अचलकारितश्रीचतुर्विंशतिजिनालयोत्तुङ्गतोरणप्रासादमूलनायकयोग्यश्रीमहावीरदेवप्रमुखानेकशिलमय-पित्तलामयाद्यनेकबिम्बानां गुरुमूर्तीनामधिष्ठायिकानां च प्रतिष्ठा संजाता । क्षुल्लकपदकं च कृतम् , तन्नामानि न्यायकीर्ति-ललितकीर्ति-सोमकीर्ति-अमरकीर्ति-नमिकीर्ति-देवकीर्तिमुनय इति । अनेकाभिः श्राविकाभिर्माला गृहीता नानाश्रावकश्राविकाभिः श्रीसम्यक्त्वारोप-सामायिकारोप-द्वादशवताङ्गीकारश्च कृतः। १०६. तदनन्तरम् ,सिन्धुदेशालङ्कारश्रीउच्चानगर-श्रीदेवराज पुरवास्तव्यमहद्धिकसुश्रावकसमुदायगाढतरोपरोधवशाद् युगप्रवरागमश्रीआर्यसुहस्तिसरिलोकोत्तरावदातप्रकटनपरा दुष्करतरनिरतिचारचारित्रशीलप्रतिपालनलोकोत्तरतपोविधानाकृष्टकिङ्करीतभूव्यन्तरामरनिकरसततविहितसान्निध्योद्धराः समाश्रितसौवध्यानातिशयनिरुपमगम्भीरदेविकुजराःसांयात्रिताष्टादशसहस्रशीलाङ्गमहारथनिकरा नवषटत्रिंशिकारिगुणजात्याश्वघडव्याप्तवसुन्धराः पराजय्यानेकमनिमण्डलीपदातिवर्गसारपरिवारा युगाग्यश्रीजिनकशलमूरिसुगुरुचक्रीश्वरा महाम्लेच्छकुलाकुलगुरुतरश्रीसिन्धमण्डलो. परि महामिथ्यात्वदुर्दान्तभूपालोन्मूलनाथ स्वाश्रितश्रीविधिधर्मधरणीधवसंस्थापनार्थ चैत्राद्यपक्षे दिग्विजयमुहूतं विधाय, स्थाने स्थाने शुभशकुनैः प्रेयमाणाः, पुनद्वितीयवारं मार्गागतश्रीशम्यानयन-श्रीखंडनगरादिसर्वस्थानेषु खाज्ञाभूपालसंस्थापनां कुर्वाणाः, क्रमक्रमेण मरुस्थलीजनपदमुखकल्पश्रीजेसलमेरुमहादुर्गमध्यनिवासिसामान्यनराजय्यमहाज्ञानदैत्योत्पाटनाय श्रीराजलोक-नगरलोकमहामेलापकेन वाद्यमानेषु द्वादशविधनान्दीतूर्येषु,दीयमानेषु महद्धिकसुश्रावकैरमेयेषु स्वस्खापतेयेषु, श्रीविधिसमुदायकारितसकललोकचेतश्चमत्कारकारिप्रवेशकमहोत्सवपूर्वकं स्वहस्तकमलप्रतिष्ठितं निःशेषविघ्नमालाविनाशनसमुद्यतं श्रीपार्श्वनाथदेवाधिदेवचरणारविन्दद्वैतं नमस्कुर्वन्ति स्म । ___ पश्चात्तत्र दिनदशपञ्चकैः स्वकीयवाक्चातुरीखगलतयाऽज्ञानदैत्योच्छेदनं विधाय, सर्वजनसुखावहं ज्ञानावनोधभूपालं संस्थाप्य, श्रीउच्चकीय-श्रीदेवराजपुरीयसुश्रावकेश्वराः श्रीपूज्ययुगवराः, ग्रीष्मतो प्रवर्तमानायामपि सान्निध्यकार्यम्बुदामरनिकराः, किङ्करीभूतमरुस्थलीमध्यस्थानेकभूतप्रेतपिशाचनिकराः, शनैः शनैः स्वच्छन्दलीलया ईर्यासमित्यादिनानासमित्यलङ्काराः, मरुस्थलीमहासमुद्रं श्रीपत्तनराजमार्गवत् समुल्लवय, वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, समग्रलोकनगरलोकमहामेलापकेन नानाविधस्वर्णपट्टांशुकादिदानपूर्वकं श्रीदेवराजपुरीयसमुदायकारितगुरुतरप्रवेशकमहोत्सवाः, स्वहस्तकमलप्रतिष्ठितं श्रीयुगादिदेवतीर्थराजं नमश्चक्रुः । १०७. तदनन्तरम् , तत्र चाहनिशं धर्ममर्मदण्डरत्नविराजमानव्याख्यानसेनाधिपतिना मिथ्याखभूपालपक्षपाति. कुवासनादिसीमालभूपालान् प्राणिहृदयदुर्गमध्यस्थितान् मासकेन निर्धाट्य, श्रीमत्पूज्यमहाराजाधिराजाः श्रीउच्चकीयसमुदायगाढतराभ्यर्थनया नानाविधाङ्गोत्थशक्तिशालिनो दुर्जेयमिथ्याखावनिपालोन्मूलनाथं तद्राजधानीसभायां हिन्दुकवारके वादीन्द्रद्विपघटापश्चाननश्रीजिनपतिमरिगुरुचक्रवर्तिचरणाम्भोरुहपवित्रितायां श्रीउच्चायां नगरमध्यनिवासिचातुर्वर्णम्लेच्छराजलोकासंख्यमेलापकेन वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, महर्द्धिकसुश्रावकैर्दीयमानेषु या. चकमनोवाञ्छितार्थनिचयेषु, श्रीउच्चकीयमहासमुदायकारितसविस्तरतरप्रवेशकमहोत्सवाः श्रीचतुर्विंशतिपट्टकालङ्कारश्रीयुगादिदेवं नमस्कृत्य निःशङ्कचित्ता अवस्थिताः । पश्चात् सकललोकासुखावहं प्रचण्डप्रबलिमिथ्यात्वभूमीश्वरं सर्वोत्तमसौवधर्मगुणाध्यारोपमात्रेण निर्धाट्य, मासमेकं यावत् स्थिखा, स्वपक्षाश्रितं श्रीविधिधर्ममहाराजं बद्धमूलं सं. यु० गु० ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148