Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 104
________________ IANP युगप्रधानाचार्यगुर्वावली। कायां यात्रां च कृत्वा, वस्त्रादिदानसन्मानपूर्वकं देशान्तरीयसंघान् स्वे स्वे स्थाने प्रविष्टान् कृत्वा, यथागमनमार्गेण श्रीयोगीनीपुरे प्रभूतम्लेच्छसंकुले सुपुत्ररत्नसाधुराजधर्मसिंहकारितनिर्गमनमहोत्सववत्समधिकतरप्रवेशकमहामहोत्सवेन श्रीदेवालयसमन्वितः साधुश्रीरयपतिसुश्रावकः प्रविष्टः कार्तिकवदिचतुर्थ्याम् । ९९. तदनन्तरम् , पुनः सं० १३८१ वैशाखवदिपश्चम्यां श्रीपत्तने श्रीशान्तिनाथविधिचैत्ये श्रीयोगिनीपुरसमागतश्रीश्रीमालकुलोत्तंस-सा०रुदपाल-सा नींबा-श्रीजावालिपुरागतमत्रिभोजराजपुत्र मं०सलखणसिंह-रङ्गाचार्यलख(क्षण-श्रीसत्यपुरागत मं०मलयसिंह-श्रीभीमपल्लीसमागतसाधुराजवीरदेवप्रमुखसमग्रसमुदाय-श्रीस्तम्भतीर्थागतव्य. छाडा-श्रीघोघावेलाकुलागतसा०देपाल-मं०कुमर-सा०खीमडप्रमुखानेकसुश्रावकसमुदायमहामेलापकेन दिनपञ्चदशकादारभ्य संजायमानेषु महाप्रेक्षणीयेषु, वितीर्यमाणेष्वमेयेषु स्वस्वापतेयेषु, दीयमानेषु तालारासेषु, सम्पद्यमानासु सविस्तरतरासु श्रीसंघपूजासु, क्रियमाणेषु श्रीसाधर्मिकवात्सल्यावारितसत्रेषु, भविष्यत्क्षुल्लक क्षुल्लिकानांसकललोकाश्वर्योत्पादनपूर्व दीयमानेषु सविस्तरतरेषु पुष्पाङ्कदानेषु,साधुजाह्नणपुत्ररत्नाभ्यां समस्तोत्सवसम्पादनोपार्जितातुल्यपुण्यकदम्बकाभ्यां साधुराजतेजपाल-सा०रुदपालसुश्रावकाम्यां श्रीश्रीमालकुलोत्तंस-सा० आना-सा० राजसिंह-भण०लूगासा० क्षेमसिंह-सा० देवराज-भण० पद्म-मन्नाप्रमुखसमस्तश्रीपत्तनीयसमुदायपरिवृताभ्यां चतुर्था सविस्तरतमजलया त्राधिवासनानिर्माणपूर्वकं सकलजनमनश्चतश्चमत्कारकारी भवभवोपार्जितपापहारी समस्तमहाजनलोकप्रत्यासन्नानेकग्रामवास्तव्यलोकमस्तकावधूननकारी प्रतिष्ठामहामहोत्सवः कारितः । तस्मिन् महोत्सवे समग्रलब्ध्यनुकृतश्रीवत्रस्वामिप्रमुखानेकयुगप्रधानैः स्वगुरुचक्रवर्तिश्रीजिनचन्द्रसूरिकृताहर्निशसाहाय्यैः श्रीजिनकुशलसूरिभिः श्रीजावालिपुरयोग्यश्रीमहावीरदेवबिम्ब-श्रीदेवराजपुरयोग्यश्रीयुगादिदेवविम्ब-श्रीशत्रुञ्जयस्थितबूल्हावसहीप्रासादजीर्णोद्वारार्थसा० छज्जलपुत्ररत्नसाधुराजराजसिंह-साधुमोखदेवकारितश्रीश्रेयांसमुखानेकविम्ब-श्रीशत्रुञ्जयस्थितस्वग्रासादमध्यस्थभण०लूणाकारिताष्टापदयोग्यचतुर्विंशतिबिम्बप्रमुखशिलमयबिम्बानां सार्धशतद्वयं प्रतिष्ठितम्, पित्तलामयानां संख्यैव नास्ति । श्रीउच्चापुरीयोग्यश्रीजिनदत्तमूरि-जावालिपुर-श्रीपत्तनयोग्यश्रीजिनप्रबोधसूरि-श्रीदेवराजपुरयोग्य श्रीजिनचन्द्रसूरिमूर्तीनां श्रीअम्बिकाद्यधिष्ठायिकानां प्रतिष्ठा कृता । स्वभाण्डागारयोग्यं प्रधानं समवसरणं च प्रतिष्ठितम् । पष्ठयां च व्रतग्रहणोत्थापना-मालारोपणादिनन्दिमहामहोत्सवोऽतिशयेन सविस्तरतरः कृतः। तस्मिन् महोत्सवे देवभद्र-यशोभद्रक्षुल्लकयोरुत्थापना कृता । सुमतिसार-उदयसार-जयसारक्षुल्लकानां धर्मसुन्दरी-चारित्रसुन्दरीक्षुल्लिकयोश्च दीक्षा दत्ता । जयधर्मगणेः श्रीउपाध्यायपदं दत्तम्-तन्नामधेयं च श्रीजयधर्मोपाध्याय इति कृतम् । अनेकसाध्वीश्राविकाभिर्माला गृहीता । प्रभूतश्रावकश्राविकाभिः श्रीसम्यक्त्वारोप-सामायिकारोपश्रीश्रावकद्वादशवतारोपश्च कृतः । तदनन्तरम् , श्रीतीर्थयात्राकर्तुकामसाधुराजश्रीवीरदेवप्रमुखश्रीभीमपल्लीसमुदायाभ्यर्थनया श्रीपूज्याः श्रीभीमपल्ल्यां साधुवीरदेवकारितसविस्तरतरप्रवेशकपूर्वकं श्रीमहावीरदेवं वैशाखबदित्रयोदश्यां नमश्चक्रुः । १००. तदनन्तरम् , तस्मिन्नेव संवत्सरे श्रीजिनशासनप्रभावकेण सकलस्वपक्ष-परपक्षासंख्यलोकपर्वार्थसाधनोद्यतमनस्केन सकलभीमपल्लीसमुदायमुकुटकल्प्रेन निजावदातसंस्मारितस्वपूर्वजसाधुराजखींवड-सा० यशोधवल-साधुराजअभयचन्द्र-सा०साढल-साधु धणपाल-सा० सामलसुश्रावकप्रमुखस्वपूर्वजकदम्बकेनोदारचरित्रेण दुष्करतराभिग्रहावलीप्रतिपालनप्रवीणेन साधुराजवीरदेवसुश्रावकेण सा०मालदेव-सा०हुलमसिंहस्वभ्रातृपरिवृतेन प्रतापाक्रान्तभूतलपातसाहिश्रीग्यासदीनसुरत्राणसत्कफुरमाणं निष्कास्य, सर्वदेशेषु कुङ्कुमपत्रिकाप्रदानपूर्वकं नानास्थानसमुदायान् मेलयित्वा,सकलातिशयनिधाना निजावदातसंस्मारितश्रीगौतमस्वामि-श्रीसुधर्मस्वामि-श्रीजम्यूस्वामि-श्रीस्थूलभद्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148