________________
IANP
युगप्रधानाचार्यगुर्वावली। कायां यात्रां च कृत्वा, वस्त्रादिदानसन्मानपूर्वकं देशान्तरीयसंघान् स्वे स्वे स्थाने प्रविष्टान् कृत्वा, यथागमनमार्गेण श्रीयोगीनीपुरे प्रभूतम्लेच्छसंकुले सुपुत्ररत्नसाधुराजधर्मसिंहकारितनिर्गमनमहोत्सववत्समधिकतरप्रवेशकमहामहोत्सवेन श्रीदेवालयसमन्वितः साधुश्रीरयपतिसुश्रावकः प्रविष्टः कार्तिकवदिचतुर्थ्याम् ।
९९. तदनन्तरम् , पुनः सं० १३८१ वैशाखवदिपश्चम्यां श्रीपत्तने श्रीशान्तिनाथविधिचैत्ये श्रीयोगिनीपुरसमागतश्रीश्रीमालकुलोत्तंस-सा०रुदपाल-सा नींबा-श्रीजावालिपुरागतमत्रिभोजराजपुत्र मं०सलखणसिंह-रङ्गाचार्यलख(क्षण-श्रीसत्यपुरागत मं०मलयसिंह-श्रीभीमपल्लीसमागतसाधुराजवीरदेवप्रमुखसमग्रसमुदाय-श्रीस्तम्भतीर्थागतव्य. छाडा-श्रीघोघावेलाकुलागतसा०देपाल-मं०कुमर-सा०खीमडप्रमुखानेकसुश्रावकसमुदायमहामेलापकेन दिनपञ्चदशकादारभ्य संजायमानेषु महाप्रेक्षणीयेषु, वितीर्यमाणेष्वमेयेषु स्वस्वापतेयेषु, दीयमानेषु तालारासेषु, सम्पद्यमानासु सविस्तरतरासु श्रीसंघपूजासु, क्रियमाणेषु श्रीसाधर्मिकवात्सल्यावारितसत्रेषु, भविष्यत्क्षुल्लक क्षुल्लिकानांसकललोकाश्वर्योत्पादनपूर्व दीयमानेषु सविस्तरतरेषु पुष्पाङ्कदानेषु,साधुजाह्नणपुत्ररत्नाभ्यां समस्तोत्सवसम्पादनोपार्जितातुल्यपुण्यकदम्बकाभ्यां साधुराजतेजपाल-सा०रुदपालसुश्रावकाम्यां श्रीश्रीमालकुलोत्तंस-सा० आना-सा० राजसिंह-भण०लूगासा० क्षेमसिंह-सा० देवराज-भण० पद्म-मन्नाप्रमुखसमस्तश्रीपत्तनीयसमुदायपरिवृताभ्यां चतुर्था सविस्तरतमजलया त्राधिवासनानिर्माणपूर्वकं सकलजनमनश्चतश्चमत्कारकारी भवभवोपार्जितपापहारी समस्तमहाजनलोकप्रत्यासन्नानेकग्रामवास्तव्यलोकमस्तकावधूननकारी प्रतिष्ठामहामहोत्सवः कारितः । तस्मिन् महोत्सवे समग्रलब्ध्यनुकृतश्रीवत्रस्वामिप्रमुखानेकयुगप्रधानैः स्वगुरुचक्रवर्तिश्रीजिनचन्द्रसूरिकृताहर्निशसाहाय्यैः श्रीजिनकुशलसूरिभिः श्रीजावालिपुरयोग्यश्रीमहावीरदेवबिम्ब-श्रीदेवराजपुरयोग्यश्रीयुगादिदेवविम्ब-श्रीशत्रुञ्जयस्थितबूल्हावसहीप्रासादजीर्णोद्वारार्थसा० छज्जलपुत्ररत्नसाधुराजराजसिंह-साधुमोखदेवकारितश्रीश्रेयांसमुखानेकविम्ब-श्रीशत्रुञ्जयस्थितस्वग्रासादमध्यस्थभण०लूणाकारिताष्टापदयोग्यचतुर्विंशतिबिम्बप्रमुखशिलमयबिम्बानां सार्धशतद्वयं प्रतिष्ठितम्, पित्तलामयानां संख्यैव नास्ति । श्रीउच्चापुरीयोग्यश्रीजिनदत्तमूरि-जावालिपुर-श्रीपत्तनयोग्यश्रीजिनप्रबोधसूरि-श्रीदेवराजपुरयोग्य श्रीजिनचन्द्रसूरिमूर्तीनां श्रीअम्बिकाद्यधिष्ठायिकानां प्रतिष्ठा कृता । स्वभाण्डागारयोग्यं प्रधानं समवसरणं च प्रतिष्ठितम् । पष्ठयां च व्रतग्रहणोत्थापना-मालारोपणादिनन्दिमहामहोत्सवोऽतिशयेन सविस्तरतरः कृतः। तस्मिन् महोत्सवे देवभद्र-यशोभद्रक्षुल्लकयोरुत्थापना कृता । सुमतिसार-उदयसार-जयसारक्षुल्लकानां धर्मसुन्दरी-चारित्रसुन्दरीक्षुल्लिकयोश्च दीक्षा दत्ता । जयधर्मगणेः श्रीउपाध्यायपदं दत्तम्-तन्नामधेयं च श्रीजयधर्मोपाध्याय इति कृतम् । अनेकसाध्वीश्राविकाभिर्माला गृहीता । प्रभूतश्रावकश्राविकाभिः श्रीसम्यक्त्वारोप-सामायिकारोपश्रीश्रावकद्वादशवतारोपश्च कृतः ।
तदनन्तरम् , श्रीतीर्थयात्राकर्तुकामसाधुराजश्रीवीरदेवप्रमुखश्रीभीमपल्लीसमुदायाभ्यर्थनया श्रीपूज्याः श्रीभीमपल्ल्यां साधुवीरदेवकारितसविस्तरतरप्रवेशकपूर्वकं श्रीमहावीरदेवं वैशाखबदित्रयोदश्यां नमश्चक्रुः ।
१००. तदनन्तरम् , तस्मिन्नेव संवत्सरे श्रीजिनशासनप्रभावकेण सकलस्वपक्ष-परपक्षासंख्यलोकपर्वार्थसाधनोद्यतमनस्केन सकलभीमपल्लीसमुदायमुकुटकल्प्रेन निजावदातसंस्मारितस्वपूर्वजसाधुराजखींवड-सा० यशोधवल-साधुराजअभयचन्द्र-सा०साढल-साधु धणपाल-सा० सामलसुश्रावकप्रमुखस्वपूर्वजकदम्बकेनोदारचरित्रेण दुष्करतराभिग्रहावलीप्रतिपालनप्रवीणेन साधुराजवीरदेवसुश्रावकेण सा०मालदेव-सा०हुलमसिंहस्वभ्रातृपरिवृतेन प्रतापाक्रान्तभूतलपातसाहिश्रीग्यासदीनसुरत्राणसत्कफुरमाणं निष्कास्य, सर्वदेशेषु कुङ्कुमपत्रिकाप्रदानपूर्वकं नानास्थानसमुदायान् मेलयित्वा,सकलातिशयनिधाना निजावदातसंस्मारितश्रीगौतमस्वामि-श्रीसुधर्मस्वामि-श्रीजम्यूस्वामि-श्रीस्थूलभद्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org