________________
खरतरगच्छालंकार
वास्तव्योदारचरित्रप्रभावकनानाभिग्रहग्रहणपूर्वक वन्दनार्थ समागत सा० जगत्सिंहपुत्ररत्नसाधुजयतासुश्रावक-खङ्गारगढवास्तव्यमहद्धिंकरीहडझांझण-री० रत्नपुत्ररत्नसा० मोखादिसुश्रावकश्राविकाणां श्रीसम्यक्त्वारोप-सामायिकारोपपरिग्रहपरिमाणादिनन्दिमहामहोत्सवः कृतः । साधुश्रीरयपतिप्रमुखसर्वसंघसुश्रावकैः शत्रुञ्जयमहातीर्थवदिनचतुष्टय सर्वादरेण महापूजा महाध्वजारोपादिमहोत्सवा निर्मिताः । परमिन्द्रपदं च श्रीहम्मीरपत्तनवास्तव्येन श्रीजिनशासनप्रभावकेण सा० धीणापुत्ररत्नेन सा० गोसलसुश्रावकेण द्विवल्लकद्रम्मशत २४७४ गृहीतम् । मत्रिपदं च प्रभावकसाधुकालासुश्रावकपुत्ररत्नेन सा० वीजासुश्रावकेण द्रम्मशताष्टकेन गृहीतम् । शेषसुश्रावकैरन्यानि पदानि गृहीतानि । सर्वसंख्यया श्रीनेमिनाथदेवभाण्डागारे द्विवल्लकद्रम्मसहस्र ४० उत्पन्नाः।।
तदनन्तरम् , श्रीनेमीश्वरमुत्कलनं विधाय सर्वसंघसमन्विताः श्रीपूज्यराजाधिराजास्तलहट्टिकायां संघमध्ये सम्प्राप्ताः । तत्र च नानाविधोत्सवप्रसरनिर्मापणेन प्रबलप्रचण्डकलिकालभूपालोन्मूलनलब्धप्रकर्षान् स्वस्वामिनो वीक्ष्य निजदानतिरस्कृतचिन्तामणि-कामधेनु-कल्पद्रुमचयेन समुपार्जितयशःपुञ्जन साधुश्रीरयपतिसुश्रावकशेखरेण सा०महणसिंहादिपुत्रपरिवृतेन दिनत्रयं यावदहर्निशं स्वर्णशृङ्कलिकाकटकानपट्टांशुकश्रीकरीचीनांशुकादिवस्तुकौशल-दक्षिणादानेन स्वस्वामिजयसंस्तवनार्थ समग्रसुराष्ट्रादेशमध्यवर्त्य मेययाचकवर्गो यथेच्छ पोषितः । अन्यैरपि साधुराजराजसिंह-साधुराजतेजपाल-सा० हरिपालादिश्रावकैरवारितसत्रनिर्मापणादिना हर्षप्रकर्षाकुलः कृतः ।
९७. तदनन्तरम् , ततः स्थानात् प्रस्थाय सम्पादितस्वार्थसम्पत्तयः साहाय्यीभूतयुगप्रवरागमश्रीजिनचन्द्रसरि-श्रीअम्बिकाप्रमुखनानादेवदेवतावलयो लक्षण-तर्क-साहित्यालङ्कार-नाटक-ज्योतिष्क-मत्र-तत्र-छन्दोविद्यासंस्फुरता तुरगपद-कोष्ठकपूरण-नानालङ्कार-काव्यकरण-चिन्तितादिनानासमस्यापूरणादिना रञ्जिताशेषकोविदचक्रचूडामणयः अस्खलिताज्ञैश्वर्यारोपणोपार्जितचन्द्रचन्द्रज्योत्स्नासमानकीर्तयः खावदातोद्योतितस्वचन्द्रकुलोद्भवानेकपूर्वसूरयो युगप्रधानश्रीजिनकुशलसूरिसुगुरुचक्रवर्तयः श्रीतीर्थयात्राकरमसफलीकृतात्मजन्मानेकायाससमुपार्जितामेयस्वस्वापतेयेनाहनिशं श्रीजिनशासनापरशासनोद्भवमहापुरुषसमूहैन्दिवर्गवत्संस्तूयमानेन नानाविधाभिग्रहप्रतिपालनपवित्रीकताजन्मदेहेन मनोवाञ्छितार्थसम्प्राप्तिसमुद्भूतमहाहर्षविकसिताननेन साधुश्रीरयपतिप्रमुखसकलविधिमार्गसंघेन सह निराबाधवृत्त्या वर्षहूद्भाविविराधनानिवृत्त्या शून्यमपि सुराष्ट्रादेशं राजमार्गवदतिलङ्घय श्रीसंघनिर्मितासु स्थाने स्थाने संजायमानासु प्रभावनासु, सुखं सुखेन श्रीपत्तनोपवने श्रावणशुक्लत्रयोदश्यां समवसृत्य, दिनपश्चदशकं च यावच्चतुर्दिग्भ्यः समागतश्रीचतुर्विधसंघस्य महत्समाधानसमुत्पादनार्थ श्रीसंघमध्येऽवस्थिताः ।
तदनन्तरम् , भाद्रपदवद्येकादश्यां चिन्तितार्थसम्पादनसमर्थन साधुश्रीरयपतिसुश्रावकेण सा०महणसिंहादिपुत्रपरिवृतेन साधुतेजपाल-साधुराजसिंहाभ्यां चाहमहमिकया देशान्तरीयसंघसमुदाय-श्रीपत्तनीयसमग्रस्वपक्षपरपक्षमहाजनलोकमहामेलापकेन दीयमानेषु दानेषु, गीयमानेषु गीतेषु, नृत्यमानेषु खेलकवृन्देषु, वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, अश्वाधिरूढनानाढोल्लवादनविस्मापिताखिललोकेषु,सकलराजलोकनगरलोकचेतश्चमत्कारकारी समस्तदुर्जनजनहृदयोद्वेगकारी स्वजनजनमनोऽम्भोजवनविकासनसूर्यानुकारी वचनातिगः श्रीपूज्यराजानां श्रीरामचन्द्र[वत्]प्रवेशकमहामहोत्सवः श्रीपत्तने संजातः। ___९८. तदनन्तरम् , साधुश्रीरयपतिः सुश्रावको द्वितीयवारं श्रीपत्तनीययाचकवग संपोष्य समग्रसंघपरिवृतः श्रीपूज्यराजपादान मुत्कलाप्य श्रीपत्तनात् प्रस्थाय, आगमनरीत्यैव स्थाने स्थाने प्रभावनां कुर्वाणो युगप्रवरागमश्रीजिनचन्द्रसूरिनिर्वाणपवित्रिते श्रीकोशवाणके समग्रसंघपरिवृतः प्राप्तः। तत्र च श्रीजिनचन्द्रसूरिस्तूपे महाध्वजारोप-महापूजास्नानविलेपननिर्मापणावारितसत्रकरणतुरगकनकादिदानादिना प्रोत्सर्पणां विधाय, पुनर्द्वितीयवारं श्रीफलवर्द्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org