SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ७८ श्री आर्यमहागिरि - श्रीवज्रस्वामि - श्रीजिनदत्तसूरिप्रमुखानेकयुगप्रधाना युगप्रवरागम श्रीजिनकुशलसूरयः श्रीमहातीर्थयात्रोपरि गाढतरनिबन्धेन सर्वस्थानसंघपरिवृतेन सा०वीरदेव श्रावण विज्ञप्ताः । खरतरगच्छालंकार तदनन्तरम्, सूरिचक्रवर्त्तियुगप्रवरागमश्रीजिनचन्द्रसूरिशिष्य चूडामणिभिः श्रीपूज्यपादैर्ज्ञान ध्यानबलेन सम्यक् परिभाव्य ज्येष्ठाद्यपञ्चम्यां साधुराजवीरदेव श्रावकं सकल श्रीविधिसंघसैन्यमुख्यत्वेन श्रीजिनशासनप्रभावकं सकलकार्यनिर्वाहण समर्थ साहुराजदेवपुत्ररत्नं साहुझाञ्झासु श्रावकं साहुपूर्णपाल - साहुसूण्टापरिवृतं श्रीसंघपाश्चात्यप्राग्भारनिर्वाणपदे संन्यस्य, पुण्यकीर्तिगणि- वा० सुखकीर्तिगणिप्रमुखसाधुद्वादशक - प्र० पुण्यसुन्दरीप्रमुखसाध्वीवृन्दपरिवृताः साधुराजवीरदेवकारित कृतयुगावतारमहारथतुल्य श्रीदेवालये चतुर्विंशतिपट्टकं महदुत्सर्पणा पूर्वकं संस्थाप्य, शकट [शत ] त्रयाने काश्ववृन्दोष्ट्रवृन्दनानाज्ञातिसम्मिलितामेयपदातिवर्गसम्मिलितसर्वस्थानवास्तव्य श्रीविधिसंघेन सार्धं सविस्तरतर श्रीदेवालय निष्क्रमणमहामहोत्सव पूर्वकं श्री भीमपल्लीतः श्रीपूज्यपादाः श्रीतीर्थनमस्करणार्थं प्रत्यासनायामपि चातुर्मास्यां गाढतमसर्वसंघोपरोधेन प्रस्थिताः । तदनन्तरम्, स्थाने स्थाने संजायमानेष्ववारितसत्रेषु, वाद्यमानेष्वश्वाधिरूढेषु ढोल्लेषु, निजशब्दबधिरीकृताम्ब राशासु भेरीशब्देषु, दीयमानेषु तालारासकेषु, श्रीकरीऊ ( 2 ) मालेन विराजमानः सर्वोऽपि संघः, अन्तरागतश्रीवायडनगरालङ्कारश्रीमहावीरदेव-श्रीशेरीषकालङ्कारश्री पार्श्वनाथादिना नास्थानतीर्थेषु दिनद्वयं श्रीमहाध्वजारोपपूजाविशेषावारितसत्रनिर्माणपूर्वकं यात्रां विधाय श्रीशिरखिजे महानगरे समग्रलोकाश्चर्यकारकजङ्गमप्रासादकल्प श्रीदेवालयप्रवेशक महामहोत्सव पूर्व प्राप्ताः । तत्प्रत्यासन्नश्री आशापल्ली नगरीवास्तव्य व्यवहारिकमहणपाल - व्यव० मण्डलिक-सा० वयजलप्रमुखश्रीविधिसमुदायाभ्यर्थनया सर्वसंघ सुश्रावक परिवृतः श्री पूज्यपादैः सकलजनाश्चर्यकारक श्री आशापल्लीसमुदायकारितप्रवेशक महामहोत्सवपूर्वकं श्री आशापल्ल्यां श्रीयुगादिदेवतीर्थं नमस्कृत्य, सविस्तरतो मालारोपणमहामहो त्सवः कृतः । तदनन्तरम्, पुनः सर्वसुश्रावक लोकपरिवृताः श्री पूज्याः श्रीसंघमध्ये समायाताः । तत्पश्चात्, ततः स्थानात् सर्वोऽपि संघो विशेषतो गुरुतराडम्बरेण श्रीस्तम्भनक श्री पार्श्वनाथ यात्राकरणार्थं सकलगूर्जरत्रालङ्कारभूत श्रीस्तम्भतीर्थोपरि प्रचलितः सन् मार्गागतसर्वनगरग्रामेषु प्रधानप्रासादसमान श्रीदेवालयस्य प्रवेशकमहोत्सवं कुर्वाणः श्रीस्तम्भतीर्थे प्राप्तः । १०१. तत्र च निरुपमातिशयशालिश्री आर्यसुहस्तिसूरि - युगप्रवरागमानुकारिश्री जिनकुशलसूरि सुगुरूपदेशेन सर्वप्रकारेण श्रीसम्प्रतिमहाराजाधिराजसमानेन सकलबुद्धिनिधानेन साधुराजवीरदेवसुश्राव केण सकलश्रीस्तम्भतीर्थवास्तव्योत्तममध्यम जघन्य लोकाबालगोपालमहामेलापकेन महाम्लेच्छानां पश्यतामपि ढाल्यमानेषु चामरेपु, धियमाणासु श्रीकरीषु, वाद्यमानासु भेरीपरम्परासु, अश्वाधिरूढढोल्लादिवादित्र निनादबधिरीकृताम्बराशाचक्रेषु, नृत्यमाg पदे पदे खेलकवृन्देषु, दीयमानेष्वविधवसुधवाभिर्नारी भी रासकेषु गीयमानेषु श्रीतीर्थङ्करदेव श्रीयुगप्रधान श्रीसंघपुरुषकृतावदातसंस्तव केषु गीतेषु पापठ्यमानेषु बन्दिवृन्देषु, दीयमानेष्वमेयेषु खखापतेयेषु किं बहुना वचनातिगेषु नानाविधेषु नाटकाद्युत्सवेषु संजायमानेषु समग्रनगरहट्टशोभातलिकातोरण निर्माणपूर्वकं हिन्दुगराज्यालङ्कारमन्त्रीवरवस्तुपालकारितयुगप्रवरागमश्रीजिनेश्वरसूरिप्रवेशकमहोत्सववत् महाम्लेच्छराज्यप्रधानालङ्कारभृतसाधुराजजेस लकारितसमग्रातिशयनिधान श्रीजिनचन्द्रसूरियुगप्रधानमहाप्रवेशकाधिकजङ्गमयुगप्रधानानेकलब्धिनिधानश्री जिनकुशलसूरीणां प्रवेशक महामहोत्सवो हिन्दुकवारकवत्, श्रीरथयात्रा नुकारिप्रासाद कल्पश्रीदेवालय यात्रानिर्माणपूर्वकं नवाङ्गवृत्तिकार श्री मदभयदेवसूरिप्रकटित श्रीस्तम्भनकालङ्कारश्रीपार्श्वनाथविधिच त्यालय संस्थित श्री अजितस्वामितीर्थीयनूत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy