Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 102
________________ युगप्रधानाचार्यगुर्वावली । ७५ हाराजाधिराजराज्यभारनिर्वाहणप्रवीणश्रीअभयकुमारेण श्रीसुराष्ट्रमहीमण्डलभूपालश्रीमहीपालदेवप्रतिशरीरकल्पसमग्रसंघकार्यनिर्वाहणप्रवीणप्रभावकसाधुराजमोखदेवानुजपरिवृतेन श्रीश्रीमालकुलोत्तंससाधुछज्जलकुलप्रदीपेन साधुराजसिंहसुश्रावकेण, वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, दीयमानेषु स्वर्णकटकवस्त्राश्वदानेषु, ध्रियमाणेषु मेघाडम्बरछत्रेषु, ढाल्यमानेषु चामरेषु, गीयमानेषु गीतेषु, संजायमानेषु श्रीसाधर्मिकवात्सल्येषु, निष्पाद्यमानेष्ववारितसत्रेषु, संपद्यमानासु सविस्तरतरासु श्रीसंघपूजासु, साधुश्रीरयपतिप्रमुखमहासंघमेलापकेन आषाढाद्यसप्तम्यां जलयात्रानिर्माणपूर्वकमष्टम्यां श्रीयुगादिदेवमूलचैत्ये स्वकारितश्रीनेमिनाथबिम्बप्रमुखानेकविम्बानां स्वभाण्डागारयोग्यश्रीसमवसरणस्य श्रीजिनपतिसूरि-श्रीजिनेश्वरसूरिप्रमुखगुरुमूर्तीनां च अनेकभवोपार्जितपापविध्वंसकः खशिष्यलब्ध्यनुरञ्जितयुगप्रवरागमश्रीजिनचन्द्रसूरिभिः स्वर्गात् समागतैः कैश्चिच्छ्राद्धोत्तमैरवलोक्यमानैर्गवेष्यमाणः प्रतिष्ठामहामहोत्सवः समग्रलब्धिनिधानजङ्गमयुगप्रधानश्रीजिनकुशलसूरिहस्तकमलेन कारितः । तस्मिन्नेव च दिने साधुराजजाहणकुलप्रदीपायमानेन सर्वधर्मकृत्याराधनानुकृतश्रीवर्धमानपरमसुश्रावकाऽऽनन्द-कामदेवादिश्रावकवर्गेण संप्रीणिताशेषयाचकगणेन साधुराजतेजपालसुश्रावकेण स्वानुजसा०रुदपालसहितेन श्रीपत्तनप्रतिष्ठापितश्रीयुगादिदेवमूलनायकविम्बस्य श्रीसमुदायसहितेन कारिते नूतननिष्पन्ने प्रासादे समग्रवैज्ञानिकवर्गकनकहस्तशृङ्कलिका-कम्बिका-पट्टांशुकादिवस्त्रसन्मानदानपूर्वकं श्रीसम्प्रतिमहाराजाधिराजसमानसाधुश्रीरयपतिप्रमुखनानास्थानवास्तव्यसर्वश्रावकवितानमेलापकेन स्थापना प्रासादप्रतिष्ठा च श्रीवज्रस्वाम्यनुकारिश्रीपूज्यहस्तकमलेन कारिता । नवम्यां सविस्तरतरः श्रीमालारोपण-श्रीसम्यस्वारोपण-श्रीपरिग्रहपरिमाण-सामायिकारोपनन्दिमहोत्सवः श्रीयुगादिदेवमूलचैत्य एव श्रीपूज्यैर्विहितः। तस्मिन् दिने सुखकीर्तिगणेर्वाचनाचार्यपदं दत्तम् , सहस्रसंख्यश्रावकश्राविकाभिनन्द्यारोहणं च कृतम् । तस्मिन्नेव च दिने नूतननिष्पन्ने प्रासादे सविस्तरतरो ध्वजारोपमहोत्सवः संजातः । एवं दिनदशकं यावच्छ्रीशत्रुञ्जयशैलोपरि सदावारितसत्र. निर्माणपूर्वकं मूलचैत्य-स्वचैत्ययोः श्रीमहापूजाकरणपट्टांशुकादिनानावस्त्रसत्कमहाध्वजादानस्वर्णान्नवस्त्रदानसम्पूरिताशेषयाचकसन्तानेन्द्रपदादिविधानादयो महामहोत्सवाः श्रीश्रीमालकुलोत्तंससाधुराजहरुकुलप्रासादकुम्भायमानश्रीयोगिनीपुरारब्धाहर्निशनानाविधवस्तुदानाधःकृतकल्पवृक्षसन्तानसाधुश्रीरयपति-साधुमहणसिंह-साधुराजतेजपाल-साधुराजराजसिंहप्रमुखसकलसंघेनाहमहमिकया चक्रिरे। तस्मिन् महोत्सवे श्रीउच्चानगरीवास्तव्यरोहंडहेमलपुत्ररत्नेन सा० कडयासुश्रावकेण भ्रातृपुत्रश्रीजिनशासनप्रभावकसा० हरिपालसहितेन द्विवल्लकद्रम्मशत २६७४ श्रीइन्द्रपदं गृहीतम् , मत्रिपदं च साधीणापुत्ररत्नेन साधुगोसलेन द्रम्मशतपदकेन गृहीतम् । अन्यान्यपि पदानीन्द्रपरिवारयोग्यानि प्रभूतश्रावकश्राविकाभिर्गृहीतानि । सर्वसंख्यया श्रीयुगादिदेवभाण्डागरे प्रतिष्ठामालोद्धटन-श्रीइन्द्रपदमहोत्सवकलशमण्डनादिना द्रम्मसहस्र ५० समुत्पन्नाः । ___९६. तदनन्तरम् , श्रीपूज्याः सर्वसंघपरिवृताः श्रीयुगादिदेवमुत्कलनं विधाय तलहट्टिकायां संघमध्ये समायाताः। ततः स्थानात् म्लेच्छसैन्योपद्रवात् सर्वशून्यायामज्ञातमार्गायामपि सुराष्ट्रायाम् , संत्राप्तायामपि वर्षायाम्, श्रीमेघकुमा. रदेवकृतसाहाय्याः श्रीसंघसैन्यमुकुटकल्पप्रचण्डशासनसाधुश्रीरयपतिवशीकृतासंख्यम्लेच्छानुगम्यमानमार्गाः श्रीपूज्यधर्मचक्रवर्तयश्चतुर्विधसंघसैन्यपरिवृताः पूर्वोक्तरीत्येव श्रीपत्तनादिमहानगरराजमार्गवत् सुखेन, अश्वानेकशतादिमहामेलापकेन सुराष्ट्रालङ्कार-खङ्गारगढनायकादिसमग्रराजलोकेन नगरलोकेन च संमुखागमनदत्तबहुमाना रञ्जितराजलोकप्रधानाः श्रीउज्जयन्तमहातीर्थतलहट्टिकायामावासिताः । तत्र च खङ्गारगढमध्ये सकलस्वपक्षपरपक्ष-जनचेतश्चमत्कारकारिणी चैत्यप्रपाटी संघेन सह विधाय अपाढचतुर्मासकदिने आबालब्रह्मचारिणं राज्य-राजीमतीपरिहारकारिणं श्रीउजयन्ताचलमहातीर्थालङ्कारं श्रीनेमिकुमारं नूतनकृतस्तुति-स्तोत्रदानपूर्वकं नमश्चक्रुः । संघाधिपसाधुश्रीरयपतिप्रमुखसुश्रावकैश्च श्रीशत्रुञ्जयवच्च सुवर्णटङ्कादिना पूजा कृता । श्रीशत्रुञ्जयवत् (१) तमिन्नेव दिने श्रीमाङ्गलउरनगर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148