Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 100
________________ युगप्रधानाचार्यगुर्वावली। ७३ कुडमपत्रिकाप्रदानपूर्वं पूर्वमाकारित श्रे हरिपालपुत्ररत्न श्रे०गोपाल-सा०पासवीरपुत्र सानन्दन-सा०हेमलपुत्र सा० कडुया-सा०पूर्णचन्द्रपुत्रप्रभावक साव्हरिपाल-सा०पेथड-सा०चाहड-सा०लाखण-सा०सीवा-सा०सामल-सा कीकटप्रमुखश्रीउच्चकीय-सा०वस्तुपालप्रमुखश्रीदेवराजपुरीय-श्रीक्यासपुरवास्तव्य सा०मोहणप्रमुखसमुदाय -सा०ताहणप्रमुखश्रीमरुकोट्टसमुदायादिसकलसिन्धुनगरग्रामसमुदायाः,सा०लखमसिंहप्रमुखश्रीनागपुरादिसपादलक्षसमुदायाः,-सा० आंबाप्रमुखश्रीमेडतासमुदाय-म०केल्हाप्रमुखश्रीकोसवाणासमुदाया नदीनां प्रवाहा इव अहमहमिकया प्रविष्टाः । ततः स्थानात् संघः सर्वोऽपि सा०मेलूप्रमुखश्रीगुडहासमुदायमात्मना सह गृहीत्वा श्रीजावालिपुरे सकलराजलोकनगरलोकस्त्रीसमुदायकृतमहाप्रवेशकोत्सवः समायातः। तत्र च गुडम्बरेण सकलविपक्षहृदयकीलकानुकारिणी श्रीचैत्यप्रपाव्यादिप्रभावना श्रीसंघेन कृता । ततः स्थानाच्च सा०महिराज-कोरण्टकवास्तव्यसा गाङ्गाप्रमुखानेकस्वपक्षपरपक्षीयाः श्रावका यात्रार्थ संघेन सह प्रचलिताः । पश्चात् सर्वोऽपि संघः श्रीश्रीमाले श्रीशान्तिनाथदेवयात्राम् , श्रीभीमपल्लयां श्रीवायडे च श्रीमहावीरदेवयात्रां च गुरुतरप्रभावनापूर्व निर्माय, ज्येष्ठवदिचतुर्दश्यां श्रीगूर्जरत्रामुकुटकल्पे प्रभूतम्लेछव्यवहारिकसमूहसंकुले श्रीपत्तने महाराजाधिराजसैन्यलीलां दधान आवासितः । पश्चात् सकलखपक्ष-परपक्षाऽश्चर्योत्पादनपूर्वकं श्रीदशार्णभद्रमहाराजाधिराजवन्महा महाभक्क्या च श्रीशान्तिनाथस्थावरतीर्थ युगप्रवरागमसुगुरुचक्रवर्तिश्रीजिनकुशलसूरिचरणारविन्दं जगमतीर्थ च सुवर्णवस्त्रवृष्टिनिर्माणपूर्वकं साधुराजश्रीरयपति-सा०महणसिंहप्रमुखनानास्थानवास्तव्यसर्वसमुदायैर्नमश्चक्रे । तदनन्तरं श्रीशान्तिनाथपुरतो महामहद्धर्थाऽष्टाह्निकामहोत्सवं कुर्वाणेन श्रीसंघेन श्रीपत्तनीयदेवालयेषु, अश्वाधिरूढेषु वाद्यमानेषु ढोल्लेषु, दीयमानेष्वमेयेषु स्वस्खापतेयेषु, घमघमायमानेषु द्वादशविधनान्दीतूर्येषु, असंख्यलोकमहामेलापकेन सकलजनचेतश्चमत्कारकारिणी मिथ्यादृशामप्युपहाद्वारेण श्रीसम्यत्योपार्जनदायिनी असहिष्णुलोकहृदयशल्यानुकारिणी सविस्तरतरा चैत्यप्रपाटी कृता । __ ९५. तदनन्तरम् , सकलसंघमुकुटकल्पसंघपुरुषसाधुश्रीरयपति-सकलसंघभारनिर्वाहणप्रवीणसा०महणसिंह-श्रे० गोपाल-सा० जवणपाल-सा० काला-सा० हरिपालप्रमुखश्रीदेशान्तरीयसमुदायमुख्यसुश्रावकैः, साधुराजजाहणकुलप्रदीपसकलोत्सवनिर्मापणोपार्जितपुण्यकदम्बकसाधुराजतेजपाल-श्रीश्रीमालकुलोत्तंससाधुराजछजल[ .......] कुलावतंसकसाधुश्रीरयपतिसंघाङ्गीकृतपाश्चात्यपदप्राग्भारनिरुपमनिर्वाहणोद्यतसाधुराजराजसिंह-साधुश्रीपतिपुत्ररत्नसाधुकुलचन्द्र-साधीणापुत्ररत्नसा० गोसलप्रमुखश्रीपत्तनीय-श्रीहम्मीरपत्तनीयसमुदायमुख्यसुश्रावकैश्च त्यक्तासन्मार्गासत्याशौचाद्यन्यायालङ्कृतगात्रप्रचण्डकलिकालभूपालभयाकम्पमानैः श्रीपूज्यश्रीजिनकुशलसूरिधर्मचक्रीन्द्रपादा विज्ञप्ताः यत्-‘स्वामिन् ! प्रत्यासन्नायामपि वर्षायां समागतायाम् , सकलसंघोपरि महत्प्रसादं विधाय अनेकोपद्रवादिमहाभटबलिष्ठदुष्टकलिकालमहीपाल कृतापद्रक्षणाय प्रसद्य तीर्थविजययात्रायां पादावधारणं क्रियतां येनास्माकं मनश्चिन्तितार्थसम्पत्तयस्तत्क्षणादेव सम्पनीपद्यन्ते'। पश्चाद् दाक्षिण्यैकमहोदधयः परोपकृतिकरणोद्यताहनिशबुद्धयः श्रीआयसुहस्तिसूरि-श्रीवयरस्वामि-श्रीमदभयदेवरि-श्रीजिनदत्तसूरिप्रमुखानेकयुगप्रवरागमावदातानुकार्यवदातनिर्मापणो. पार्जितसत्कीर्तयः श्रीजिनकुशलसूरयः ... जो अवमन्नइ संघं पावो थोवं पिमाणमयलित्तो। सो अप्पाणं बोलइ दुक्खमहासागरे भीमे ॥१॥ सिरिसमणसंघासायणाओ पाविति जं दुहं जीवा । तं साहिउं समत्थो जइ परि भयवं जणो होइ ॥२॥ तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं जोयणनीहारिणा भयवं ॥३॥ यु• गु० १० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148