Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
७४
खरतरगच्छालंकार
पुव्विया अरया पूइयपूया य विणयकम्मं च । harasa जह कह कहेइ नमए तहा तित्थं ॥४॥ इत्यादि श्री आवश्यकादिसिद्धान्तानुसारेण;
"यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते,
ये तीर्थ कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिनमस्यति सतां यस्माच्छुभं जायते,
स्फूतिर्यस्य परा वसन्ति च गुणा यस्मिन् स संघोऽयताम् ॥१॥ [१] लक्ष्मीस्तं स्वयमभ्युपैति रभसात् कीर्तिस्तमालिङ्गति,
प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । स्वः श्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते,
यः संघ गुणसंघ केलिसदनं श्रेयोरुचिः सेवते ||२||"
[30]
[९२] इत्यादिपूर्वाचार्य वाक्यैश्च श्रीसंघः श्रीतीर्थकराणामपि मान्यः किमस्मादृशामिति स्वचेतसि परिभाव्य, प्रत्यासमभाविनीं चतुर्मासीमप्यवगणय्य, श्रीसंघगाढतराग्रहं च ज्ञात्वा, श्री पूज्याश्चक्रीन्द्रसमानाः प्रधानसाधुसप्तदशसंसेव्यमानचरणारविन्दाः, श्रीजयर्द्धिमहत्तराप्रमुख - पुण्यसुन्दरीगणिनीप्रमुख साध्येकोनविंशतिपरिवृताः, साधुश्रीरयपति सुश्रावकं श्रीचतुर्विधसंघसैन्ये समग्रसैन्याधिपसेनानीसमानं विधाय, साधुराजसिंहं च संघसैन्यपाश्चात्य पदप्रारभार निर्वाणपदे निधाय, सा० महणसिंह - सा०जवणपाल - सा० भोजा - सा० काला-ठ० फेरु-ठ० देपाल-श्रे० गोपाल - साधुराजतेजपाल - साधुराज हरिपाल - सा० मोहण - सा० गोसलप्रमुखानेकमहर्द्धिक सुश्रावकमहारथान् सज्जयित्वा शकटपञ्चशती अश्व [...] शतीसंख्य सुभटपदातिवर्गप्रमाणेन श्रीसंघसैन्येन सह वाद्यमानेषु निःखानप्राग्रेषु अश्वाधिरूढेषु ढोल्लेषु, गुर्बाडम्बरेण कलिकाल भूधवनिर्जगार्थं स्वकार्यसिद्ध्यर्थं च ज्येष्ठशुक्लषष्ठीदिने शुभमुहूर्त स्वगुरुश्रीजिनचन्द्रसूरिराजं ध्यायन्तः प्रचलिताः ।
Jain Education International
तदनन्तरम्, प्रतिदिनं संजायमानेष्ववारितसत्रेषु प्रतिपदं दीयमानेषु रासकेषु, श्रीसंघ सैन्योत्थितरजः परम्परासमाच्छादिताम्बरीशाङ्गणेषु, भविष्यत्क्षुल्लकानां दीयमानेषु प्रतिदिनं महद्धर्ज्या पुष्पांकदानेषु सकलनगर ग्रामाधिपमलिक- हिन्दुकादिसमग्रलोकसंसेव्यमानश्रीसंघसैन्याधिपे च श्रीशङ्खेवरे श्रीपार्श्वनाथतीर्थराज नमस्कृत्य, श्रीमहापूजामहाध्वजारोपादिना प्रभावनां विधाय, क्रमक्रमेण दण्डकारण्यप्राय वालाकदेशमतिक्रम्य, समग्रम्लेच्छाधिपकृतसाहाय्याः श्रीपूज्या निराबाधवृत्त्या सर्वसंघसमन्विताः समग्राधिष्ठायककृतसान्निध्य: श्रीशत्रुञ्जयतलहट्टिकायां प्राप्ताः ।
तत्र च श्रीपार्श्वनाथदेवयात्रां विधाय अपाढवदिषष्ठीदिने सकलतीर्थावलीप्रधानं सर्वातिशयनिधानं शत्रुञ्जयशैलालङ्कारायमाणं श्रीयुगादिदेवतीर्थराजं सकलसंघपरिवृताः श्रीमत्पूज्या नव्यालङ्कारसारनूतन कृत स्तुतिस्तोत्रनमस्कारनिर्माणपूर्वकं नमस्कृतवन्तः । साधुश्रीरयपतिसुश्रावकेण पुत्रकलत्रपरिवृतेन प्रत्येकं प्रत्येकं नवाङ्गेषु हेमटकैः प्रथमा पूजा कृता कारिता च; अन्यैर्महर्द्धिक सुश्रावकैश्च रूप्यटङ्कादिना पूजा कृता । तस्मिन्नेव च दिने श्रीयुगादिदेवपुरतो देवभद्र - यशोभद्रक्षुल्लकयोः सविस्तरतरो दीक्षामहामहोत्सवः कृतः ।
तदनन्तरम्, श्रीजिनशासन प्रभावनाकरणप्रगुणेन श्रीदेवगुर्वाज्ञाप्रतिपालनसमुद्यतेन साधुश्रीरयपतिमहासंघ - पाश्चात्य पदप्राग्भारनिर्वाहणेनावारिताहर्निशान्नदानोपार्जित पुण्ययशः प्राग्भारेण चतुर्विधबुद्ध्यतिशयानुकृत श्रीश्रेणिकम
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148