SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७४ खरतरगच्छालंकार पुव्विया अरया पूइयपूया य विणयकम्मं च । harasa जह कह कहेइ नमए तहा तित्थं ॥४॥ इत्यादि श्री आवश्यकादिसिद्धान्तानुसारेण; "यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते, ये तीर्थ कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिनमस्यति सतां यस्माच्छुभं जायते, स्फूतिर्यस्य परा वसन्ति च गुणा यस्मिन् स संघोऽयताम् ॥१॥ [१] लक्ष्मीस्तं स्वयमभ्युपैति रभसात् कीर्तिस्तमालिङ्गति, प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । स्वः श्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते, यः संघ गुणसंघ केलिसदनं श्रेयोरुचिः सेवते ||२||" [30] [९२] इत्यादिपूर्वाचार्य वाक्यैश्च श्रीसंघः श्रीतीर्थकराणामपि मान्यः किमस्मादृशामिति स्वचेतसि परिभाव्य, प्रत्यासमभाविनीं चतुर्मासीमप्यवगणय्य, श्रीसंघगाढतराग्रहं च ज्ञात्वा, श्री पूज्याश्चक्रीन्द्रसमानाः प्रधानसाधुसप्तदशसंसेव्यमानचरणारविन्दाः, श्रीजयर्द्धिमहत्तराप्रमुख - पुण्यसुन्दरीगणिनीप्रमुख साध्येकोनविंशतिपरिवृताः, साधुश्रीरयपति सुश्रावकं श्रीचतुर्विधसंघसैन्ये समग्रसैन्याधिपसेनानीसमानं विधाय, साधुराजसिंहं च संघसैन्यपाश्चात्य पदप्रारभार निर्वाणपदे निधाय, सा० महणसिंह - सा०जवणपाल - सा० भोजा - सा० काला-ठ० फेरु-ठ० देपाल-श्रे० गोपाल - साधुराजतेजपाल - साधुराज हरिपाल - सा० मोहण - सा० गोसलप्रमुखानेकमहर्द्धिक सुश्रावकमहारथान् सज्जयित्वा शकटपञ्चशती अश्व [...] शतीसंख्य सुभटपदातिवर्गप्रमाणेन श्रीसंघसैन्येन सह वाद्यमानेषु निःखानप्राग्रेषु अश्वाधिरूढेषु ढोल्लेषु, गुर्बाडम्बरेण कलिकाल भूधवनिर्जगार्थं स्वकार्यसिद्ध्यर्थं च ज्येष्ठशुक्लषष्ठीदिने शुभमुहूर्त स्वगुरुश्रीजिनचन्द्रसूरिराजं ध्यायन्तः प्रचलिताः । Jain Education International तदनन्तरम्, प्रतिदिनं संजायमानेष्ववारितसत्रेषु प्रतिपदं दीयमानेषु रासकेषु, श्रीसंघ सैन्योत्थितरजः परम्परासमाच्छादिताम्बरीशाङ्गणेषु, भविष्यत्क्षुल्लकानां दीयमानेषु प्रतिदिनं महद्धर्ज्या पुष्पांकदानेषु सकलनगर ग्रामाधिपमलिक- हिन्दुकादिसमग्रलोकसंसेव्यमानश्रीसंघसैन्याधिपे च श्रीशङ्खेवरे श्रीपार्श्वनाथतीर्थराज नमस्कृत्य, श्रीमहापूजामहाध्वजारोपादिना प्रभावनां विधाय, क्रमक्रमेण दण्डकारण्यप्राय वालाकदेशमतिक्रम्य, समग्रम्लेच्छाधिपकृतसाहाय्याः श्रीपूज्या निराबाधवृत्त्या सर्वसंघसमन्विताः समग्राधिष्ठायककृतसान्निध्य: श्रीशत्रुञ्जयतलहट्टिकायां प्राप्ताः । तत्र च श्रीपार्श्वनाथदेवयात्रां विधाय अपाढवदिषष्ठीदिने सकलतीर्थावलीप्रधानं सर्वातिशयनिधानं शत्रुञ्जयशैलालङ्कारायमाणं श्रीयुगादिदेवतीर्थराजं सकलसंघपरिवृताः श्रीमत्पूज्या नव्यालङ्कारसारनूतन कृत स्तुतिस्तोत्रनमस्कारनिर्माणपूर्वकं नमस्कृतवन्तः । साधुश्रीरयपतिसुश्रावकेण पुत्रकलत्रपरिवृतेन प्रत्येकं प्रत्येकं नवाङ्गेषु हेमटकैः प्रथमा पूजा कृता कारिता च; अन्यैर्महर्द्धिक सुश्रावकैश्च रूप्यटङ्कादिना पूजा कृता । तस्मिन्नेव च दिने श्रीयुगादिदेवपुरतो देवभद्र - यशोभद्रक्षुल्लकयोः सविस्तरतरो दीक्षामहामहोत्सवः कृतः । तदनन्तरम्, श्रीजिनशासन प्रभावनाकरणप्रगुणेन श्रीदेवगुर्वाज्ञाप्रतिपालनसमुद्यतेन साधुश्रीरयपतिमहासंघ - पाश्चात्य पदप्राग्भारनिर्वाहणेनावारिताहर्निशान्नदानोपार्जित पुण्ययशः प्राग्भारेण चतुर्विधबुद्ध्यतिशयानुकृत श्रीश्रेणिकम For Private & Personal Use Only www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy