________________
युगप्रधानाचार्यगुर्वावली।
७३
कुडमपत्रिकाप्रदानपूर्वं पूर्वमाकारित श्रे हरिपालपुत्ररत्न श्रे०गोपाल-सा०पासवीरपुत्र सानन्दन-सा०हेमलपुत्र सा० कडुया-सा०पूर्णचन्द्रपुत्रप्रभावक साव्हरिपाल-सा०पेथड-सा०चाहड-सा०लाखण-सा०सीवा-सा०सामल-सा कीकटप्रमुखश्रीउच्चकीय-सा०वस्तुपालप्रमुखश्रीदेवराजपुरीय-श्रीक्यासपुरवास्तव्य सा०मोहणप्रमुखसमुदाय -सा०ताहणप्रमुखश्रीमरुकोट्टसमुदायादिसकलसिन्धुनगरग्रामसमुदायाः,सा०लखमसिंहप्रमुखश्रीनागपुरादिसपादलक्षसमुदायाः,-सा० आंबाप्रमुखश्रीमेडतासमुदाय-म०केल्हाप्रमुखश्रीकोसवाणासमुदाया नदीनां प्रवाहा इव अहमहमिकया प्रविष्टाः । ततः स्थानात् संघः सर्वोऽपि सा०मेलूप्रमुखश्रीगुडहासमुदायमात्मना सह गृहीत्वा श्रीजावालिपुरे सकलराजलोकनगरलोकस्त्रीसमुदायकृतमहाप्रवेशकोत्सवः समायातः। तत्र च गुडम्बरेण सकलविपक्षहृदयकीलकानुकारिणी श्रीचैत्यप्रपाव्यादिप्रभावना श्रीसंघेन कृता । ततः स्थानाच्च सा०महिराज-कोरण्टकवास्तव्यसा गाङ्गाप्रमुखानेकस्वपक्षपरपक्षीयाः श्रावका यात्रार्थ संघेन सह प्रचलिताः । पश्चात् सर्वोऽपि संघः श्रीश्रीमाले श्रीशान्तिनाथदेवयात्राम् , श्रीभीमपल्लयां श्रीवायडे च श्रीमहावीरदेवयात्रां च गुरुतरप्रभावनापूर्व निर्माय, ज्येष्ठवदिचतुर्दश्यां श्रीगूर्जरत्रामुकुटकल्पे प्रभूतम्लेछव्यवहारिकसमूहसंकुले श्रीपत्तने महाराजाधिराजसैन्यलीलां दधान आवासितः । पश्चात् सकलखपक्ष-परपक्षाऽश्चर्योत्पादनपूर्वकं श्रीदशार्णभद्रमहाराजाधिराजवन्महा महाभक्क्या च श्रीशान्तिनाथस्थावरतीर्थ युगप्रवरागमसुगुरुचक्रवर्तिश्रीजिनकुशलसूरिचरणारविन्दं जगमतीर्थ च सुवर्णवस्त्रवृष्टिनिर्माणपूर्वकं साधुराजश्रीरयपति-सा०महणसिंहप्रमुखनानास्थानवास्तव्यसर्वसमुदायैर्नमश्चक्रे । तदनन्तरं श्रीशान्तिनाथपुरतो महामहद्धर्थाऽष्टाह्निकामहोत्सवं कुर्वाणेन श्रीसंघेन श्रीपत्तनीयदेवालयेषु, अश्वाधिरूढेषु वाद्यमानेषु ढोल्लेषु, दीयमानेष्वमेयेषु स्वस्खापतेयेषु, घमघमायमानेषु द्वादशविधनान्दीतूर्येषु, असंख्यलोकमहामेलापकेन सकलजनचेतश्चमत्कारकारिणी मिथ्यादृशामप्युपहाद्वारेण श्रीसम्यत्योपार्जनदायिनी असहिष्णुलोकहृदयशल्यानुकारिणी सविस्तरतरा चैत्यप्रपाटी कृता । __ ९५. तदनन्तरम् , सकलसंघमुकुटकल्पसंघपुरुषसाधुश्रीरयपति-सकलसंघभारनिर्वाहणप्रवीणसा०महणसिंह-श्रे० गोपाल-सा० जवणपाल-सा० काला-सा० हरिपालप्रमुखश्रीदेशान्तरीयसमुदायमुख्यसुश्रावकैः, साधुराजजाहणकुलप्रदीपसकलोत्सवनिर्मापणोपार्जितपुण्यकदम्बकसाधुराजतेजपाल-श्रीश्रीमालकुलोत्तंससाधुराजछजल[ .......] कुलावतंसकसाधुश्रीरयपतिसंघाङ्गीकृतपाश्चात्यपदप्राग्भारनिरुपमनिर्वाहणोद्यतसाधुराजराजसिंह-साधुश्रीपतिपुत्ररत्नसाधुकुलचन्द्र-साधीणापुत्ररत्नसा० गोसलप्रमुखश्रीपत्तनीय-श्रीहम्मीरपत्तनीयसमुदायमुख्यसुश्रावकैश्च त्यक्तासन्मार्गासत्याशौचाद्यन्यायालङ्कृतगात्रप्रचण्डकलिकालभूपालभयाकम्पमानैः श्रीपूज्यश्रीजिनकुशलसूरिधर्मचक्रीन्द्रपादा विज्ञप्ताः यत्-‘स्वामिन् ! प्रत्यासन्नायामपि वर्षायां समागतायाम् , सकलसंघोपरि महत्प्रसादं विधाय अनेकोपद्रवादिमहाभटबलिष्ठदुष्टकलिकालमहीपाल कृतापद्रक्षणाय प्रसद्य तीर्थविजययात्रायां पादावधारणं क्रियतां येनास्माकं मनश्चिन्तितार्थसम्पत्तयस्तत्क्षणादेव सम्पनीपद्यन्ते'। पश्चाद् दाक्षिण्यैकमहोदधयः परोपकृतिकरणोद्यताहनिशबुद्धयः श्रीआयसुहस्तिसूरि-श्रीवयरस्वामि-श्रीमदभयदेवरि-श्रीजिनदत्तसूरिप्रमुखानेकयुगप्रवरागमावदातानुकार्यवदातनिर्मापणो. पार्जितसत्कीर्तयः श्रीजिनकुशलसूरयः
... जो अवमन्नइ संघं पावो थोवं पिमाणमयलित्तो।
सो अप्पाणं बोलइ दुक्खमहासागरे भीमे ॥१॥ सिरिसमणसंघासायणाओ पाविति जं दुहं जीवा । तं साहिउं समत्थो जइ परि भयवं जणो होइ ॥२॥ तित्थपणामं काउं कहेइ साहारणेण सद्देणं ।
सव्वेसिं सन्नीणं जोयणनीहारिणा भयवं ॥३॥ यु• गु० १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org