________________
खरतरगच्छालंकार
गीयमानेष्वहनिंशमविधवसुधवाभिर्नारीभी रासकवृन्देषु, नृत्यमानेषु खेलकसमूहेषु, सम्पद्यमानेषु श्री साधर्मिकवात्सयेषु, समग्र श्रीपत्तनीयमहामहर्द्धिकव्यवहारिकलोक - राजलोकमहामेलापकेन गुरुतरजलयात्रानिर्माणपूर्वकं सकलजनमनचमत्कारकारी नानाभवोपार्जितपापसंभारापहारी प्रतिष्ठामहामहोत्सवः सविस्तरतरः कारितः । तस्मिन् महोत्सवे साधुतेजपालका रित श्रीयुगादिदेवप्रमुखानेकशैलमय- पित्तलामयविम्बानां श्रीजिनप्रबोधसूरि - श्रीजिनचन्द्रसूरिमूर्त्तीनां श्रीकपर्दयक्ष - श्रीक्षेत्रपालाम्बिकाद्यधिष्ठायिकानां नानासु श्रावककारितानां प्रतिष्ठा संजाता । श्रीशत्रुञ्जयप्रासादयोग्यदण्डध्वजप्रतिष्ठा च । तस्मिन् महोत्सवे सा०धीणा पुत्ररत्नसा० खेतसिंहादिसु श्रावकैरिन्द्रपद श्रीयुगादिदेवमुखोद्घाटनादिमाला ग्रहणपूर्वकममेयं स्वस्वापतेयं सफलीकृतम् | मार्गशीर्षवदिषष्ट्यां च सविस्तरतरः श्रीमालारोपण - श्रीसम्यज्वारोप- सामायिकारोप - परिग्रहपरिमाणादिनन्दिमहामहोत्सवश्च कृतः ।
७२
९४. तदनन्तरं सं० १३८० श्रीयोगिनी पुरवास्तव्येन श्रीश्रीमालकुलोत्तंसेन गङ्गाम्बु प्रवाहवत् स्वच्छाशयेन श्रीजिनशासनप्रभावनाकरणप्रवणेन पूर्व कृतसविस्तरतर श्रीफलवर्धिका महातीर्थयात्रोत्सवेनोद्भटभाग्यप्रतापलङ्केश्वरेण दानाध:कृतसंकलविश्वम्भरादातृवर्गेण साधुहरुपुत्ररत्नेन साधु श्रीरयपति सुश्रावकेण राजमान्यप्रभावक विदेश विख्यातोद्भटचरित्रस्वपुत्ररत्नसाधुराजधर्मसिंहपार्श्वात् पातसा हिश्रीग्यास दीनमहाराजाधिराजफुरमाणं सकलमीर मलिक शिरोवधूननकारकं श्रीराजप्रधानश्रीने बसाहाय्येन निष्कासयित्वा, श्रीपूज्यानां श्रीपत्तनस्थितानां समीपे श्रीशत्रुञ्जयोज्जयन्तादिमहातीर्थयात्राकरणार्थं स्वविज्ञप्तिकादानपूर्वकं मानुषाणि प्रेषितानि ।
तदनन्तरं सकलातिशयनिधानैर्ज्ञानध्यानादिगुणगणानुकृतसकलपूर्व युगप्रधानैः श्रीपूज्यैः श्रीजिनकुशलसूरिभिः सम्यक् परिभाव्य श्रीतीर्थयात्राकरणादेशः प्रदत्तः । तदाकर्णनादेव हर्षाकुलचेतसा साधुश्रीरयपतिसुश्रावकेण प्रभावकोदारचरित्र पुत्ररत्नसाधुमहणसिंह - साधुधर्म सिंह - साधुशिवराज- साधुअभयचन्द्र-पौत्र भीष्म भ्रातृसाधुजवणपालादिसारपरिवार परिवृतेन श्रीपूज्योपदिष्टविधिना श्री योगिनी पुरसमुदाय मुकुटकल्पमत्रिदल कुलोत्तंससाधुजवणपाल - श्रीदेवगुर्वाज्ञाप्रतिपालनोद्यत श्रीश्रीमालीय साधुभोजा - सा०छीतम-ठ० फेरू - धामइना वास्तव्य सा० रूपा - सा०वीजाप्रमुख-प
उलीसा क्षेमन्धरप्रमुख - श्रीलूणीवडी वास्तव्य समुदायान् श्री योगिनीपुरप्रत्यासन्नानेकग्राम समुदायांश्च मेलयित्वा, स्वपुत्ररत्नसाधुराजधर्मसिंहराजबलेन अत्थसंअण (?) श्रीयोगिनीपुरराजमार्गेण वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, दीयमानेषु रासकेषु गीयमानेषु गीतेषु, पठत्सु श्रीसुरत्राणादिमहाराजबन्दिवृन्देषु दीयमानेषु कनकाश्वपट्टांशुकादिनानाविधेषु दानेषु, अश्वाधिरूढवाद्यमानढोल परम्पराबधिरीकृताशाचक्रेषु, प्रथमवैशाखवदिसप्तम्यां नूतनकारितप्रासादसदृशः श्रीदेवालयस्य चतुर्विधसंघसमन्वितस्य निष्क्रमणमहामहोत्सवः कृतः । तदनन्तरं प्रथमदिनादारभ्य प्रतिदिनमवारितसत्रं कुर्वाणो गुर्वाडम्बरेण साधुश्रीरयपति सुश्रावकः समग्रसंघान्वितः श्रीकन्यानयने समायातः । तत्र च श्रीयुगप्रधान श्रीजिनदत्तसूरिप्रतिष्ठित श्रीमहावीरदेवतीर्थराजस्य यात्रानिर्माणपूर्वकं समग्रम्लेच्छानामपि सम्यक्त्वदायिनी प्रभावना कृता । ततः स्थानाच्च श्रीजिनशासनप्रभावक सकलोत्सवधु राधुरीणश्रे० पूना - श्रे० पद्मा-श्रे० राजा - श्रे०रातू - ठ० देपाल - साधुराजकाला - खारद्र (?) पूनाप्रमुख श्री समुदायो गुर्वाडम्बरेण सा देदाप्रमुखश्री मिकासमुदायः श्रीसंघेन सह प्रचलितः । तदनन्तरं ग्रामनगरादिषु प्रोत्सर्पणां कुर्वाणः सर्वोऽपि संघः श्रीनरभटे समायातः । तत्र च श्रीजिनदत्तसूरिप्रतिष्ठितं नवस्फटाविभूषितं सर्वातिशयप्रधानं श्रीपार्श्वनाथदेवाधिदेवं नानाविध...... पूर्वकं सकलसंघेन नमश्चक्रे । ततः स्थानाच्च सा० भीमा-सा० देवराजादिसमुदायः श्रीसंघेन सह प्रचलितः । तदनन्तरं खाटू वास्तव्यसा० गोपालप्रमुखनानानगरग्रामवास्तव्याने कश्रावकाः श्रीनवहा- झुञ्झणू वास्तव्यसा० काण्हाप्र मुखविधिसमुदायादिश्रावकाच संघेन सह प्रस्थिताः । ततः पश्चात् श्रीजिनशासनप्रभावनां कुर्वाणः सर्वसंघसमन्वितः साधुश्रीरयपतिसुश्रावकः श्रीफलवर्धिकायां श्रीपार्श्वनाथ देवयात्रार्थं समायातः । तत्राऽऽगते साधुश्रीरयपतिसंघसमुद्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org