________________
युगप्रधानाचार्यगुर्वावली। दारविन्दं ध्यायन्तः श्रीपञ्चपरमेष्ठिनमस्कारमहामत्रं स्मरन्तो नानाविधाराधनामृतपानं कुर्वन्तः श्रीसमुदायकृतप्रोत्सर्पणाः स्वकर्णाभ्यां श्रीउपाध्याया आकर्णयन्तो ज्येष्ठसुदिद्वितीयायां सकलामरगुरुजयनार्थ स्वर्गे प्राप्ताः । पश्चाच्छ्रीपत्तनीयसमुदायेन गुरुतरविमाननिर्माणपूर्वकसकलजनमनश्चमत्कारकारी निर्वाणमहामहोत्सवः कृतः। ___ तदनन्तरं च श्रीपूज्यैः स्वकीयसुगुरुश्रीजिनचन्द्रसूरिस्वसहाध्यायिश्रीराजेन्द्राचार्य-श्रीदिवाकराचार्य-श्रीराजशेखराचार्य-वा० राजदर्शनगणि-वा० सर्वराजाद्यनेकमुनिमण्डलीपाठकानां वारत्रयं भणितश्रीहैमव्याकरणबृहद्वंत्तिपत्रिंशत्सहस्रप्रमाणश्रीन्यायमहातर्कादिसर्वशास्त्राणां सकलगच्छगौरवाणां श्रीविवेकसमुद्रोपाध्यायानां स्तूपं श्रीसमुदायपार्थात् कारापयित्वा अपाढशुक्लत्रयोदश्यां महता विस्तरेण वासक्षेपः कृतः । ततः श्रीपत्तनीयसमुदायाभ्यर्थनया श्रीपत्तने द्वितीया चतुर्मासी कृता। ___ ९३. ततः सं०१३७९ वर्षे मार्गशीर्षवदिपञ्चम्यां नानानगरग्रामवास्तव्यासंख्यमहद्धिकसुश्रावकलोकमहामेलापकेन श्रीसाधर्मिकवत्सलेन श्रीजिनशासनप्रोत्सर्पणाप्रवीणेनोदारचरित्रेण दक्षदाक्षिण्यौदार्यधैर्यगाम्भीर्यादिगुणगणमालालङ्कतसारेण युगप्रवरागमश्रीजिनप्रबोधसूरिसुगुर्वनुजसाधुराजजाह्नणपुत्ररत्नेन स्वभ्रातृ-सा०रुदपालकलितेन साधुराजतेजपालसुश्रावकेण दिनदशकादारभ्य संजायमानेषु महाप्रेक्षणीयेषु, दीयमानेषु तालारासेषु, नृत्यमानेष्ववलावृन्देपु,दीयमानेष्वमेयस्वस्वापतेयेपु, क्रियमाणेपु श्रीसंघपूजाश्रीसाधर्मिकवात्सल्यावारितसत्रेषु, सकलगूर्जरत्रामुकुटभूतश्रीपत्तनीयमहामहद्धिकमहाजनलोक-राजलोकमहामेलापकेन महिष्ठजलयात्रार्वकं गुरुतराश्चर्यकारी स्वपक्ष-परपक्षचेतोहारी प्रतिष्ठामहामहोत्सवः श्रीशान्तिनाथविधिचैत्ये कारितः । तस्मिन्नेव दिने श्रीशत्रुञ्जयतीर्थोपरि साधुराजतेजपालादिसमुदायकारितश्रीयुगादिदेवविधिचैत्यप्रारम्भः सा० नरसिंहपुत्ररत्नश्रीदेवगुर्वाज्ञाप्रतिपालनोद्यतखींवडसुश्रावकोद्यमेन संजातः । तस्मिन् महोत्सवे श्रीशान्तिनाथप्रमुखश्रीशैलमय-रत्नमय-पित्तलामयबिम्बानां सार्धशतं स्वकीयं मूलसमवमरणद्वयं श्रीजिनचन्द्रसूरि-श्रीजिनरत्नसूरिप्रमुखनानाधिष्ठायिकानां मूर्तयश्च श्रीपूज्यैः प्रतिष्ठिताः । तस्मिन् महोत्सवे श्रीभीमपल्लीसमुदायमुकुटकल्पेन सा. श्यामलपुत्ररत्नेनोदारचरित्रेण साधुवीरदेवेन श्रीपत्तनीय-श्रीभीमपल्लीय-श्रीआशापल्लीयसमुदायेन श्रीसंघपूजा श्रीसाधर्मिकवात्सल्यैः साधुसहजपालपुत्रसा० थिरचन्द्र-साधीणापुत्रसा० खेतसिंहप्रमुखश्रावकैः श्रीइन्द्रपदादिमहामहोत्सवनिर्मापणादिना महती प्रभावना चक्रे । ततः श्रीवीजापुरीयसमुदायाभ्यर्थनया श्रीपूज्याः श्रीवीजापुरीयसमुदायेन सह श्रीवीजापुरे सकललोकाचर्यकारकगुरुतरप्रवेशकमहामहोत्सवपूर्वकं श्रीवासुपूज्यदेवमहातीर्थ नमश्चक्रुः । ततः श्रीवीजापुरीयसमुदायेन सह श्रीत्रिशृङ्गमके विहृताः। तत्र च साधुराजजेसलपुत्ररत्नाभ्यां श्रीजिनशासनप्रभावकाभ्यां-साधुराजजगधर-साधुसलक्षणसुश्रावकाभ्यां सकलजनमनश्चमत्कारकार्यनेकसहस्रसंख्यलोकमहामेलापकेन प्रवेशकमहामहोत्सवः कारितः । ततः स्थानाच्छ्रीआरासणमहातीर्थे श्रीतारङ्गकमहातीर्थे श्रीवीजापुरीयश्रीत्रिशृङ्गमकीयसमुदायेन सह मत्रिदलकुलोत्तंसश्रीदेवगुर्वाज्ञाप्रतिपालनोद्यत-ठ० आसपालपुत्ररत्न-ठ०जगत्सिंहसुश्रावकप्रमुखश्रीसाधर्मिकवात्सल्यश्रीसंघपूजां श्रीअवारितसत्रमहाधजारोपादिनानाविधोत्सर्पणापूर्वकं तीर्थयात्रां कृत्वा श्रीपत्तने तृतीयां चतुर्मासी चक्रुः। __ तदनन्तरं सं० १३८[.] वर्षे कार्तिक शुक्लचतुर्दश्यां श्रीजिनशासनप्रभावनाकरणप्रवीणेन स्वपूर्वजमरुस्थलीकल्पवृक्षसाधुराजयशोधवलवत्साधर्मिकवत्सलेन निर्गर्वचूडामणिना साधुश्रीचन्द्रकुलप्रदीपश्रीजिनप्रबोधसूरिसुगुरुचक्रवय॑नुजसाधुजाह्मणपुत्ररत्नेन युगप्रवरागमश्रीजिनकुशलसूरिसुगुरुराजपट्टाभिषेककारापणोपार्जितहीराट्टहासहारतुपारहिमकरकरनिकरगोक्षीरधाराधवलवत्पुण्ययशःप्राग्भारेण साधुराजतेजपालसुश्रावकेण खानुजसाधुरुदपालपरिवृतेन श्रीशत्रुजयनिष्पद्यमानविधिचैत्ययोग्यमूलनायकश्रीयुगादिदेवविम्ब सप्तविंशत्यङ्गुलप्रमाणं कर्पूरसदृशं कारयिखा, सकलस्थानवास्तव्यसर्वसमुदायान् कुङ्कुमपत्रिकादानपूर्वकं समामन्न्य, क्रियमाणेष्ववारितसत्रेषु, दीयमानेष्वमेयेषु स्वस्खापतेयेषु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org