________________
७०
खरतरगच्छालंकार तुर्विधविधिसंघपरिवृतैः साधुराजतेजपालप्रमुखनानास्थानसमुदायैरहमहमिकया स्थाने स्थाने कार्यमाणेषु प्रेक्षणीयेषु, दीयमानेषु स्वर्णरजतकटकतुरगवस्त्रान्नदानेषु, नानाविधकाव्यं परम्पराभिः पठत्सु बन्दिवृन्देपु, क्रियमाणेषु महद्धिकसुश्रावकलोकैः श्रीसाधर्मिकवात्सल्येषु, वाद्यमानेष्वहर्निशं द्वादशविधनान्दीतूर्येषु, संजायमानासु संघपूजासु, सशिक्षासमन्वितश्रीपूज्यप्रदत्तगोलकचिष्ठिकालेखानुसारेण सर्वलब्धिवितानसंस्मारितपूर्वगणधराणामुद्भटभाग्यप्रतापलकेश्वराणां स्थैर्यौदार्यगाम्भीर्यादिगुणावलीसमुपार्जितहीराट्टहासराकाशशाङ्ककरनिकरसोदरगोक्षीरधाराहारिहारप्रालेयोज्ज्वलदन्तिदन्तक्षोदसमानयशःकाचकर्पूरपूरवासितविश्ववलयानां स्वसहाध्यायिनां नवनाट्यरसावतारतात्कालिकसम्पादितनवनवविच्छित्तिकाव्यपरम्पराविस्मापिताशेपकोविदचक्राणां ज्ञानध्यानातिशयसंस्मारिसकलपूर्वसूरीणां निखिलविद्यापारीणानां वाक्चातुरी विनिर्जितसुराचार्याणां मत्रीश्वरराजकुलप्रदीपमत्री ठ० जेसलरत्नकुक्षिधारिणीमत्रिणीजयतश्रीपुत्राणां चत्वारिंशद्वर्षप्रमाणानां समग्रयुगप्रवरागमकमलाकेलिनिलयानां वाचनाचार्य.........श्रीशान्तिनाथदेवाग्रे सकल............श्रीगूर्जरत्रामुकुटकल्पनरसमुद्रश्रीपत्तनवास्तव्यनानामहद्धिकस्वपक्ष-परपक्षमहाव्यावहारिकासंख्यलोकगुरुतरानेकराजलोकचेतश्चमत्कारकारी म्लेच्छबहुलेऽपि समग्रजनपदे श्रीश्रेणिक-श्रीसम्प्रति-श्रीकुमारपालमहाराजाधिराजवारकवत् श्रीयुगप्रधानपदवीसंस्थापनमहामहोत्सवश्वके । श्रीपूज्योपदिष्टश्रीजिनकुशलसरय इति नामनिर्माणश्रीपूज्यदापितश्रीपूज्यसमवसरणप्रदानपूर्वकं श्रीयुगप्रवरागमश्रीजिनचन्द्रसूर्यादेशप्रासादोपरि महाकलशाधिरोपश्च चक्रे । तस्मिन् महोत्सवे सम्पूर्णाचिन्त्यमनोरथमालेनोदारचरित्रेण साधुराजतेजपालेन सर्वस्थानकवास्तव्यः श्रीचतुर्विधसंघः समग्रोऽपि वस्त्र प्रदानपूर्व बहुमानितः । अनेकगच्छाश्रिताः शतसंख्या आचार्याः सहस्रसंख्याः साधवश्व वस्त्रादिप्रदानेन रलिकचित्ताः कृताः। समस्तवाचकाचार्योऽपि सम्पूरितमनोरथः कृतः। साधुराजसामलपुत्ररत्नेन सर्वसाधर्मिकवत्सलेन श्रीभीमपल्लीसमुदायमुकुटकल्पेन पुरुपसिंहेन साधुराजवीरदेवसुश्रावकेण, श्रीश्रीमालकुलोतं. स-सा० बज्जलपुत्ररत्नसाधुराजसिंहेन, मत्रिदलकुलोत्तंसेन राजमान्येन श्रीदेवगुर्वाज्ञाचिन्तामणिविभूपितमस्तकेन ठ. विजयसिंह-ठ० जैत्रसिंह-ठ० कुमरसिंह-ठ० जवनपाल-ठ० पाहाप्रमुखश्रीमत्रिदलीयसमुदायेन, साधुराजसुभटपुत्ररत्न-सा० मोहण-म०धनू-झांकाप्रमुखश्रीजावालिपुरीय-सा० गुणधरप्रमुखश्रीपत्तनीय-साहु तिहुणाप्रमुखश्रीवीजापुरीय-ठ० पउमसिंहप्रमुखश्रीआशापल्लीय-गो. जैत्रसिंहप्रमुखश्रीस्तम्भतीर्थीयसमुदायैश्च श्रीसंघपूजा-श्रीसाधर्मिकवात्सल्याधारितसत्रनिर्माणपूर्वकममेयं स्वस्वापतेयं सफलीचक्रे । तस्मिन्नेव दिने श्रीमालारोपणादिनन्दिमहामहोत्सवः श्रीपूज्यैश्चक्रे । ततः श्रीसमुदायेन श्रीशान्तिनाथदेवाग्रे युगप्रधानश्रीजिनकुशलमरिपट्टनिवेशनसंस्तवनाथ गुरुतरोत्साहपूर्वकमष्टावष्टाह्निकाः कृताः।
९२. तदनन्तरं श्रीपूज्याः श्रीजिनकुशलसूरयः प्राप्तयुगप्रधानराज्या महामिथ्यात्वशत्रूच्चाटनाय दिग्विजयं कर्तुकामाः साधुवीरदेवसुश्रावककारितगुरुतरप्रवेशकमहोत्सवाः श्रीभीमपल्लयां प्रथमां चतुर्मासी चक्रुः । ततश्च सं०१३७८ माघशुक्लतृतीयायां साधुवीरदेवप्रमुखसकलश्रीभीमपल्लीसमुदायेन श्रीपत्तनीयसमुदायमहामेलापकेन सकलजनमनश्चमत्कारकारी दीक्षोत्थापना-मालारोपणादिनन्दिमहामहोत्सवः श्रीसाधर्मिकवात्सल्यश्रीसंघपूजादिनानाप्रभावनापूर्वकं कारितः। तस्मिन् महोत्सवे श्रीराजेन्द्रचन्द्राचार्यवर्येण माला गृहीता, देवप्रभमुनेर्दीक्षा दत्ता, वाचनाचार्यहेमभूषणगणेः श्रीअभिषेकपदम् , पं० मुनिचन्द्रगणेाचनाचार्यपदं प्रदत्तम् । तस्मिन्नेव च वर्षे स्वप्रतिज्ञातार्थप्रतिपालनप्रवीणैः श्रीपूज्यैः स्वज्ञानध्यानबलेन सकलगच्छातुच्छवात्सल्यसमुद्यतानां श्रीविवेकसमुद्रोपाध्यायराजानामायुःशेषं विज्ञाय श्रीभीमपल्लीतः श्रीपत्तने समागत्य ज्येष्ठाद्यपक्षचतुर्दशीदिन आरोग्यशरीराणामपि श्रीविवेकसमुद्रमहोपाध्यायानां चतुर्विधसंघेन सह मिथ्यादुष्कृतदानं दापयित्वा, गुरुतरश्रद्धानपूर्वकमनशनं प्रत्याख्यानं च दत्तम् । तदनन्तरं च श्रीपूज्यपा
१ 'रलीयायत' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org