Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 97
________________ ७० खरतरगच्छालंकार तुर्विधविधिसंघपरिवृतैः साधुराजतेजपालप्रमुखनानास्थानसमुदायैरहमहमिकया स्थाने स्थाने कार्यमाणेषु प्रेक्षणीयेषु, दीयमानेषु स्वर्णरजतकटकतुरगवस्त्रान्नदानेषु, नानाविधकाव्यं परम्पराभिः पठत्सु बन्दिवृन्देपु, क्रियमाणेषु महद्धिकसुश्रावकलोकैः श्रीसाधर्मिकवात्सल्येषु, वाद्यमानेष्वहर्निशं द्वादशविधनान्दीतूर्येषु, संजायमानासु संघपूजासु, सशिक्षासमन्वितश्रीपूज्यप्रदत्तगोलकचिष्ठिकालेखानुसारेण सर्वलब्धिवितानसंस्मारितपूर्वगणधराणामुद्भटभाग्यप्रतापलकेश्वराणां स्थैर्यौदार्यगाम्भीर्यादिगुणावलीसमुपार्जितहीराट्टहासराकाशशाङ्ककरनिकरसोदरगोक्षीरधाराहारिहारप्रालेयोज्ज्वलदन्तिदन्तक्षोदसमानयशःकाचकर्पूरपूरवासितविश्ववलयानां स्वसहाध्यायिनां नवनाट्यरसावतारतात्कालिकसम्पादितनवनवविच्छित्तिकाव्यपरम्पराविस्मापिताशेपकोविदचक्राणां ज्ञानध्यानातिशयसंस्मारिसकलपूर्वसूरीणां निखिलविद्यापारीणानां वाक्चातुरी विनिर्जितसुराचार्याणां मत्रीश्वरराजकुलप्रदीपमत्री ठ० जेसलरत्नकुक्षिधारिणीमत्रिणीजयतश्रीपुत्राणां चत्वारिंशद्वर्षप्रमाणानां समग्रयुगप्रवरागमकमलाकेलिनिलयानां वाचनाचार्य.........श्रीशान्तिनाथदेवाग्रे सकल............श्रीगूर्जरत्रामुकुटकल्पनरसमुद्रश्रीपत्तनवास्तव्यनानामहद्धिकस्वपक्ष-परपक्षमहाव्यावहारिकासंख्यलोकगुरुतरानेकराजलोकचेतश्चमत्कारकारी म्लेच्छबहुलेऽपि समग्रजनपदे श्रीश्रेणिक-श्रीसम्प्रति-श्रीकुमारपालमहाराजाधिराजवारकवत् श्रीयुगप्रधानपदवीसंस्थापनमहामहोत्सवश्वके । श्रीपूज्योपदिष्टश्रीजिनकुशलसरय इति नामनिर्माणश्रीपूज्यदापितश्रीपूज्यसमवसरणप्रदानपूर्वकं श्रीयुगप्रवरागमश्रीजिनचन्द्रसूर्यादेशप्रासादोपरि महाकलशाधिरोपश्च चक्रे । तस्मिन् महोत्सवे सम्पूर्णाचिन्त्यमनोरथमालेनोदारचरित्रेण साधुराजतेजपालेन सर्वस्थानकवास्तव्यः श्रीचतुर्विधसंघः समग्रोऽपि वस्त्र प्रदानपूर्व बहुमानितः । अनेकगच्छाश्रिताः शतसंख्या आचार्याः सहस्रसंख्याः साधवश्व वस्त्रादिप्रदानेन रलिकचित्ताः कृताः। समस्तवाचकाचार्योऽपि सम्पूरितमनोरथः कृतः। साधुराजसामलपुत्ररत्नेन सर्वसाधर्मिकवत्सलेन श्रीभीमपल्लीसमुदायमुकुटकल्पेन पुरुपसिंहेन साधुराजवीरदेवसुश्रावकेण, श्रीश्रीमालकुलोतं. स-सा० बज्जलपुत्ररत्नसाधुराजसिंहेन, मत्रिदलकुलोत्तंसेन राजमान्येन श्रीदेवगुर्वाज्ञाचिन्तामणिविभूपितमस्तकेन ठ. विजयसिंह-ठ० जैत्रसिंह-ठ० कुमरसिंह-ठ० जवनपाल-ठ० पाहाप्रमुखश्रीमत्रिदलीयसमुदायेन, साधुराजसुभटपुत्ररत्न-सा० मोहण-म०धनू-झांकाप्रमुखश्रीजावालिपुरीय-सा० गुणधरप्रमुखश्रीपत्तनीय-साहु तिहुणाप्रमुखश्रीवीजापुरीय-ठ० पउमसिंहप्रमुखश्रीआशापल्लीय-गो. जैत्रसिंहप्रमुखश्रीस्तम्भतीर्थीयसमुदायैश्च श्रीसंघपूजा-श्रीसाधर्मिकवात्सल्याधारितसत्रनिर्माणपूर्वकममेयं स्वस्वापतेयं सफलीचक्रे । तस्मिन्नेव दिने श्रीमालारोपणादिनन्दिमहामहोत्सवः श्रीपूज्यैश्चक्रे । ततः श्रीसमुदायेन श्रीशान्तिनाथदेवाग्रे युगप्रधानश्रीजिनकुशलमरिपट्टनिवेशनसंस्तवनाथ गुरुतरोत्साहपूर्वकमष्टावष्टाह्निकाः कृताः। ९२. तदनन्तरं श्रीपूज्याः श्रीजिनकुशलसूरयः प्राप्तयुगप्रधानराज्या महामिथ्यात्वशत्रूच्चाटनाय दिग्विजयं कर्तुकामाः साधुवीरदेवसुश्रावककारितगुरुतरप्रवेशकमहोत्सवाः श्रीभीमपल्लयां प्रथमां चतुर्मासी चक्रुः । ततश्च सं०१३७८ माघशुक्लतृतीयायां साधुवीरदेवप्रमुखसकलश्रीभीमपल्लीसमुदायेन श्रीपत्तनीयसमुदायमहामेलापकेन सकलजनमनश्चमत्कारकारी दीक्षोत्थापना-मालारोपणादिनन्दिमहामहोत्सवः श्रीसाधर्मिकवात्सल्यश्रीसंघपूजादिनानाप्रभावनापूर्वकं कारितः। तस्मिन् महोत्सवे श्रीराजेन्द्रचन्द्राचार्यवर्येण माला गृहीता, देवप्रभमुनेर्दीक्षा दत्ता, वाचनाचार्यहेमभूषणगणेः श्रीअभिषेकपदम् , पं० मुनिचन्द्रगणेाचनाचार्यपदं प्रदत्तम् । तस्मिन्नेव च वर्षे स्वप्रतिज्ञातार्थप्रतिपालनप्रवीणैः श्रीपूज्यैः स्वज्ञानध्यानबलेन सकलगच्छातुच्छवात्सल्यसमुद्यतानां श्रीविवेकसमुद्रोपाध्यायराजानामायुःशेषं विज्ञाय श्रीभीमपल्लीतः श्रीपत्तने समागत्य ज्येष्ठाद्यपक्षचतुर्दशीदिन आरोग्यशरीराणामपि श्रीविवेकसमुद्रमहोपाध्यायानां चतुर्विधसंघेन सह मिथ्यादुष्कृतदानं दापयित्वा, गुरुतरश्रद्धानपूर्वकमनशनं प्रत्याख्यानं च दत्तम् । तदनन्तरं च श्रीपूज्यपा १ 'रलीयायत' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148