Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 95
________________ ६८ खरतरगच्छालंकार पश्चाच्छ्रीपूज्या अश्वपतिबहुमानिता महाम्लेच्छराजलोकनगर लोक-सा०तेजपाल - सा० खेतसिंह- सा० ईश्वर - ठ०अचलप्रमुखासंख्यसुश्रावकलोकानुगम्यमाना गुरुतरप्रभावनापूर्वकं पा (खां) डासरायस्थाने समायाताः । अस्मिन् प्रस्तावे श्रीपूज्यानां समग्रसंघस्य च श्रीजिनशासनप्रभावकैः सकलराजमान्यैः सर्वकार्यनिर्वाहणसमर्थैः सकलसंघाधारैः श्रीश्रीमालकुलोसंसैः सा०तेजपाल - सा०खेतसिंह - सा० ईश्वरसुश्रावकैः सकलसंघधुरन्धरेणोदारचरित्रेण चतुर्दिक्षु विख्यातेन मन्त्रिदलकुलोत्तंसेन ठ०अचलसुश्रावकेण ठ० श्रीवत्सपुत्ररत्नसमन्वितेन च भव्यं साहाय्यं कृतम् । अत्रान्तरे चतुर्मासी लग्ना । ततः श्रीपूज्याः संघविसर्जनं विधाय ठ०अचलादिभिः सुश्रावकैर्वरिवस्यमानाः खण्डकसराजौ चतुर्मासीं चक्रुः । अत्रान्तरे पुनः श्रीमत्पूज्यैः श्रीसुरत्राणकथनेन श्रीसंघानुरोधेन च 'रायाभियोगेणं गणाभियोगेण' मित्यादिसिद्धान्तवचनमनुसरद्भिश्चतुर्मासीमध्येऽपि श्रावणमासे संघभारनिर्वाहक - ठ० अचल - पाश्चात्यपदनिर्वाहकसा० रुदपालादिसमग्रबागडदेशसुश्रावकसंघ महामेलापकेन श्रीमथुरायां श्रीसुपार्श्व - श्रीपार्श्व - श्री महावीरतीर्थकराणां महता विस्तरेण यात्रा कृता । श्रीसंघेन च अवारितसत्र श्री साधर्मिक वात्सल्यादिभिर्महती प्रभावना चक्रे । ततः पुनः श्रीयोगिनीपुरे समागत्य पा ( खां ) डासराय स्थाने श्री पूज्यैः शेषा चतुर्मासी चक्रे । श्रीजिनचन्द्रसूरिस्तूपे च वारद्वयं सविस्तरा यात्रा कृता । ९०. ततश्चतुर्मास्यनन्तरं श्रीमत्पूज्यैः शरीरे कम्परोगेण साबाधितैः सौवज्ञानध्यानबलेन स्वायुः शेषं परिभाव्य स्वहस्तदीक्षितस्य द्विधास्वसन्तानप्रभवस्य खपट्टलक्ष्मी पाणिग्रहणयोग्यलक्षणस्य तर्क-साहित्यालङ्कार- ज्योतिष्कसारविचारचतुरस्य स्वसमय-परसमयाम्भोधितारणतरण्डस्य स्वशिष्यरत्नस्य वा० कुशलकीर्तिगणेः खपट्टस्थापनखपरिभावितनामकारापणादिसर्वशिक्षासमन्वितचिष्ठिकागोलकः श्रीराजेन्द्र चन्द्राणां निमित्तं विश्वासपात्र श्रीदेवगुर्वाज्ञानिरत- ट० विजयसिंहहस्ते समर्प्य चाहुमानकुलोत्तंस शरणागतवज्रपञ्जरराणक श्रीमालदेवेन गाढतरोपरोधेन समामन्त्र्यमाणैः श्रीयोगिनीपुराच्छ्रीमेडतास्थानकोपरि विहारश्च । ततो मार्गे धामइना - रोहद प्रमुख नानास्थानसुश्रावक लोकान् वन्दापयन्तः श्रीकन्यानयने श्रीमहावीरदेवं नमश्चक्रुः । तत्रागतैः श्रीमत्पूज्यपादैः तापश्वासादिना घनतरमाबाधितैः श्रीकन्यानयनीय समुदायप्रत्यक्षं चतुर्विधसंघ मिथ्यादुष्कृतदानपूर्वकं पुनः सर्वशिक्षासमन्वितो लेखो विश्वासपात्र प्रवर्तकजयवल्लभ गणिहस्ते श्रीराजेन्द्रचन्द्राचार्याणां निमित्तं प्रदत्तः । ततो मासमेकं श्रीकन्यानयनीय समुदायस्य समाधानमुत्पाद्य श्रीनरभटादिनानास्थान सुश्रावकलोकान् वन्दापयन्तः श्रीमेडतास्थाने समायाताः । तत्रापि राणक श्रीमालदेवाभ्यर्थना श्रीसमुदाय समाधानाय च चतुर्विंशतिदिनानि स्थित्वा स्वनिर्वाणयोग्यं स्थानं परिभाव्य श्रीकोशवाणास्थाने श्रीपूज्याः समायाताः । तत्रागतैः श्रीमत्पूज्यैः सं० १३७६ आषाढशुक्ल नवमीरात्रिप्रथम सार्धप्रहरे... शपश्चपष्टि । . श्रीचतुर्विधसंघमिथ्यादुष्कृतदानमदनकलाङ्कितहस्त कमलैः अखिता (१) नशनह स्तिमलैः स्वर्गलक्ष्मीपाणिग्रहणं चक्रे । ततः श्रीसमुदायेन श्रीवर्धमानस्वामि निर्वाण समय शिबिकासमानगुरुतमासंख्य मण्डपिकाशोभित विमाननिर्मापूर्वकं वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, उच्छाल्यमानेषु नालिकेरादिफलसमूहेषु, अविधवसुधवाभिः श्राविकाभियमानेषु पूर्व महर्षिगीतेषु प्रभातसमये नगरलोक - राजलोकमहामेलापकेन निर्वाणमहामहोत्सवः सविस्तरभरश्चक्रे । अत्रा सद्गुरूणां गुणलेशस्मरणं विद्वद्भिः किञ्चित् क्रियते यस्मिन्नस्तमितेऽखिलं क्षितितलं शोकाकुलव्याकुलं, जज्ञे दुर्मदवादिकौशिक कुलं सर्वत्र येनोल्वणम् । + अत्र मूलादर्शे प्रायः ३५-३६ अक्षरप्रमाणा पङ्क्ती रिक्ता मुक्ताऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148