Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 94
________________ युगप्रधानाचार्यगुर्वावली। हिराजप्रमुखऊकेशवंशीयासंख्यसुश्रावकपरम्परैकवितानः श्रीचक्रवर्तिमहासैन्यसमानः, चारुद्रोणीभिर्यमुनामहानदीमुत्तीर्य क्रमक्रमेण निःशकं मन्दमन्दप्रयाणकैः श्रीशान्तिनाथ-श्रीकुन्थुनाथ-श्रीअरनाथतीर्थङ्करचक्रवर्तिनां गर्भावतार-जन्म-दीक्षा-ज्ञानकल्याणकचतुष्टयपवित्रितवसुन्धरं हस्तिनापुरं चक्रवर्तिसमानश्रीमत्पूज्य-सेनानीसमानठ. अचल-पाश्चात्यपदनिर्वाहक-सा०रुदपालालंकृतः श्रीचतुर्विधोऽपि संघः सम्प्राप्तः। ८९. ततश्च श्रीमत्पूज्यैः श्रीचतुर्विधसंघसमन्वितैनूतनकृतस्तुतिस्तोत्रनमस्कारभणनपूर्व श्रीशान्तिनाथ-कुन्थुनाथारनाथदेवानां भवभवोपार्जितपापपङ्कोत्तारिणी यात्रा चक्रे । श्रीसंघेन च श्रीइन्द्रपदादिग्रहणावारितसत्र-साधर्मिकवात्सल्य-श्रीसंघपूजानिर्मापण-हेमरजतकटकतुरगवस्त्रवितरणपूर्वकं कलिकाले प्रवर्तमानेऽपि श्रीकृतयुगवच्छ्रीवीरशासने स्वपक्ष-परपक्षचेतश्चमत्कारकारिणी महती प्रभावना चक्रे । तत्र च ठ०हरिराजपुत्ररत्नेनोदारचरित्रेण श्रीदेवगुर्वाज्ञाचिन्तामणिविभूपितमस्तकेन ठ० मदनानुजेन ठ० देवसिंहसुश्रावकेण जैथलसहस्रविंशत्येन्द्रपदं गृहीतम् । ठ०हरिराजादि महद्धिकसुश्रावकैरमात्यादिपदानि गृहीतानि । सर्वसंख्यया देवभाण्डागारे जैथललक्ष १ सहस्र ५० समुत्पन्नाः । तत्र च दिनपञ्चकं श्रीजिनशासनप्रोत्सर्पणां विधाय श्रीहस्तिनागपुरात् सर्वोऽपि संघः श्रीमथुरामहातीर्थोपरि प्रचलितः सन् स्थाने स्थाने प्रोत्सर्पणां विदधानः श्रीयोगिनीपुरप्रत्यासन्ने तिलप्थस्थाने समायातः । अत्रान्तरे द्रमकपुरीयाचार्येण युगप्रवरागमश्रीजिनचन्द्रसूरीणामतिशयमसहिष्णुना दुर्जनस्वभावेन वर्णच्छत्रधरणसिंहासनोपवेशनादिकं पै[शुन्यं महाराजाधिराजपातसाहिकुतबदीनाग्रे कृतम् । ततश्च म्लेच्छस्वभावेन पातसाहिना समग्रोऽपि संघस्तत्रावग्रहे कारितः। श्रीपूज्याः सपरिवाराः संघपुरुष-ठ०अचलादिमहद्धिकसुश्रावकसमन्विताः स्वपार्श्वे समाकारिताः । ततश्च श्रीमत्पूज्यमुखकमलावलोकनादेव न्यायिमहोदधिना प्रतापाक्रान्तसमग्रभूतलेन श्रीअलावदीनसुरत्राणपुत्ररत्नेन श्रीकुतबदीनसुरत्राणेन कथितम्-'एतेषां श्वेताम्बराणां मध्ये दुर्जनोक्तं वाक्यं न किमपि जाघटीति' । पश्चाद् दीपानाग्रे आदिष्टम्-‘एतेषां कर्णवारं सम्यगालोच्य येऽन्यायिनो भवन्ति ते शिक्षणीयाः' इत्युक्त्वा श्रीपूज्या दीपाने प्रेषिताः । ततश्च प्रधानाधिकारिपुरुषैः सम्यन्यायान्यायं परिभाव्य द्रमकपुरीयाचार्यो नष्टोऽपि सन् निष्कासयित्वा राजद्वारे ऊर्वीकृतः। पश्चादालापितः सन् किमपि सत्यमब्रुवत् । श्रीपूज्यानामग्र एव राजद्वारे लक्षसंख्यम्लेच्छ-हिन्दुकप्रत्यक्षं यष्टि-मुष्टिलकुटादिप्रहारैः कुट्टयि खा विगोपयिखा च बन्दी कृतः। श्रीपूज्यानामग्रे कथितम्-'युष्माभिः सत्यभाषिभिया॑यैकमहोदधिभिः सत्यश्वेताम्बरैः पातसाहिमेदिन्यां परिभ्रमणं स्वेच्छया करणीयम् , अत्राथै शङ्का काऽपि न कार्या' । पश्चाच्छ्रीपूज्यैः साधुराजतेजपाल-साधुराजखेतसिंह-ठ०अचला-ठ० फेरूणामग्र आदिष्टम्-'वयमितः स्थानात् पातसाहिप्रेषिता अपि तदैव व्रजिष्यामो यदाऽस्य द्रमकपुरीयाचार्यस्य दुर्जनस्वभावस्यापि मोचनं विधास्यथाम् । यतः श्री. वर्धमानशिष्येण श्रीधर्मदासगणिनोपदेशमालायामुक्तमस्ति जो चंदणेण बाहुं आलिप्पइ वासिणाइ तच्छेइ । संथुणइ जोवि निंदइ महरिसिणो तत्थ समभावा ।। अन्यशास्त्रेष्वप्युक्तमस्ति शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि। मोक्षे भवे च सर्वत्र निःस्पृहो मुनिपुङ्गवः ॥ इति श्रीपूज्यानां शत्रुमित्रसमवृत्तीनां समतृणमणिलोष्टुकाञ्चनानां करुणासमुद्राणां गाढतरं मोचनाभिप्राय विज्ञाय सर्वोऽपि राजलोको नगरलोकश्च मस्तकावधूननपूर्वकं श्रीपूज्यानां गुणग्रहणैकपरायणो जज्ञे । ततः श्रीपूज्या ......सा० तेजपालादिभिः कारणिकपुरुषान् सम्बोध्य स द्रमकपुरीयाचार्यो मोचयित्वा स्वपौषधशालायां प्रेषितः । [८१] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148