Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
युगप्रधानाचार्यगुर्वावली ।
श्रीपत्तने श्रीविवेकसमुद्रमहोपाध्यायानां पार्श्वे लक्षण- तर्क- साहित्यालङ्कार - ज्योतिष्क - स्वसमय-परसमयसारनिष्कनिष्कषणनिकषोपमे समग्राचार्यगुणालङ्कृतमात्रस्य स्वशिष्यरत्नस्य पण्डितराजराजचन्द्रस्य समाकारणाय प्रेषितौ । ततः श्रीउपाध्यायैः सद्गुर्वादेशानुसारेण ताभ्यां सह पुण्यकीर्तिगणिं दत्त्वा पं० राजचन्द्रमुनिः प्रेषितः । ततः श्रीमत्पूज्यगुरुतरध्यानबलाकर्षिताधिष्ठायककृतसान्निध्यात् तस्कराद्यने को पद्रवानवगणय्य कार्तिकचतुर्मासकदिने स्वदीक्षागुरुश्री पूज्यपादपद्ममहातीर्थं पं० राजचन्द्रमुनिना नमस्कृतम् । ततश्च श्रीमत्पूज्यैः श्रीउच्चापुरीय - श्रीमरुकोट्ट- श्रीक्यासपुरप्रमुखसिन्धुदेशनानानगरग्रामवास्तव्यासंख्य सुश्रावकसंघमहामेलापकेन स्थाने स्थाने प्रेक्षणीयेषु संजायमानेषु दीयमानैषु तालारासेषु, नृत्यमानेषु युवतीजनेषु, पापठ्यमानेषु वन्दिषु दीयमानेषु श्रे० उदयपाल - श्रे० गोपाल - सा० वयरसिंह-ठ०कुमरसिंहप्रमुखमहर्द्धिक सुश्रावकलोकैः स्वर्णान्नवस्त्रदानेषु क्रियमाणेषु अवारितसत्रेषु संजायमानेषु साधमिंकवात्सल्येषु श्रीआचार्य पदस्थापना व्रतग्रहण-मालारोपणादिनन्दिमहामहोत्सवश्चक्रे । तस्मिन् महोत्सवे स्वशिष्यरत्नस्य समग्रविद्याबुद्धिपानकुम्भषिंसमानस्य वाक्चातुरीविनिर्जितसुराचार्यस्य पण्डितराजचन्द्रमुनिवरस्य आचार्यपदं प्रदत्तम्श्री राजेन्द्र चन्द्राचार्या इति नामधेयं च कृतम् । ललितप्रभ-नरेन्द्रप्रभ धर्मप्रभ- पुण्यप्रभ - अमरप्रभसाधूनां दीक्षा प्रदत्ता | अनेकश्रावकश्राविकालोकैर्माला गृहीता, सम्यक्त्वारोपसामायिकारोपश्च कृतः । तस्मिन् महोत्सवे साधुराजयशोधवलकुलप्रदीपेन सा० नेमिकुमार पुत्ररत्नेन श्रीजिनशासनप्रभावकेण सकलसाधर्मिकवत्सलेन सा०वयरसिंहसुश्राव केण विशेषतः श्रीसाधर्मिक वात्सल्यावारितसत्रामारिघोषणा श्रीसंघ पूजा निर्मापणपूर्वकं स्वस्वापतेयं सफलीचक्रे ।
८६. ततः पुनः सं० १३७४ फाल्गुनवदि षष्ठीदिने श्रीउच्चापुरीयादिनानानगरग्रामवास्तव्य सकल सिन्धुदेशविधिसमुदायकारितः श्री पूज्यैर्वतग्रहणमालारोपणोत्थापनादिनन्दिमहामहोत्सवः सकलस्वपक्ष-परपक्षचेतश्चमत्कारकारी कृतः । तस्मिन् महोत्सवे दर्शनहित-भुवनहित - [त्रिभुवनहितमुनीनां दीक्षा प्रदत्ता, श्राविकाशतेन च माला गृहीता । एवं श्रीदेवराजपुरे महामिध्यात्वतिमिरं चतुर्मासीद्वयेनोन्मूल्य श्रीपूज्याः [सा ?] री० पूर्णचन्द्रसत्पुत्रो दारचरित्र श्रीजिनशासनप्रभावक सारी • हरिपालसार्थवाहसान्निध्येन मरुस्थलवालुका समुद्रमुल्लङ्घय श्रीनागपुरे श्रीसमुदायकृत गुरुतरप्रवेश महोत्सवाः समायाताः । ततः श्रीकन्यानयनवास्तव्य श्री श्रीमाल कुलोत्तंसश्रीजिनशासनप्रभावक सा०कालासुश्रावककारिता श्रीकन्यानयनादिसमग्र वागडदेश - सपादलक्षदेश - नगरग्रामवास्तव्यनानासु श्रावकमहासंघ मेलापकेन श्रीफलवर्धिकायां श्रीपार्श्वनाथदेवस्य श्री पूज्यैर्द्वितीयवारं यात्रा कृता । महर्द्धिकसुश्रावकलोकैरवारितसत्रसाधर्मिकवात्सल्यश्रीसंघपूजानिर्मापणपूर्वकं श्रीजिनशासने महती प्रभावना चक्रे ।
०
६५
ततः सं० १३७५ माघशुक्लद्वादश्यां श्रीनागपुरे मत्रिदलकुलोत्तंस - ठ० विजयसिंह - ठ० सेदू - सा० रूदाप्रमुखश्रीयोगिनी पुरसमुदायसंघ पुरुषमन्त्रिदलीय - ठ० अचलप्रमुखसमग्र डालामऊ समुदाय - श्रीकन्यानयन - श्री आसिका - श्रीनरभटप्रमुखनानानगरग्रामवास्तव्य समस्तवागडदेश समुदाय मं० कुमरा मं० मूधराजप्रमुखकोशवाणासमुदाय- नानानगर ग्रामवास्तव्यसमग्रस पादलक्षसमुदाय - सा० सुभटप्रमुख श्रीजावालिपुर - श्रीशम्यानयनप्रमुख मारुवत्रा समुदायादिनानाजनपदप्रचुरसमुदाय महामेलापके स्थाने स्थाने संजायमानेष्ववारितसत्रेषु, कार्यमाणेषु महाप्रेक्षणीयेषु, नृत्यमानेषु युवती जनेषु, दीयमानेषु तालारासेषु क्रियमाणेषु साधमिंकवात्सल्येपु, दीयमानेषु महामहर्द्धिकसुश्रावकलोकैः कनक़कटकरूप्यकटकवस्त्रान्नदानेषु श्रीवर्धमानखामितीर्थप्रवर्तनपरायणैः श्री पूज्यैः श्रीनागपुरीय समुदायास्यर्थनया स्वपक्ष-परपक्षासंख्यजनमनोहारी सकलमहामिथ्यादृग्लोक मस्तकावधूननकारी श्रीव्रतग्रहणमालारोपणादिनन्दिमहामहोत्सवश्चक्रे । तस्मिन् महोत्सवे सोमचन्द्रसाधोः शीलसमृद्धि - दुर्लभसमृद्धि-भुवनसमृद्धिसाध्वीनां दीक्षा प्रदत्ता । पं० जगच्चन्द्रगणेः सर्वविद्याविलासिनीनाट्य नाट्योपाध्याय कल्पस्य नानाशिष्यरत्ननिष्पादनलब्धिसमुद्रस्य द्विधा खसन्तानजस्य परिभावितस्वपट्टलक्ष्मी योग्यस्य तस्य पण्डितराजकुशलकीर्तिगणेश्च वाचनाचार्यपदम् । धर्ममालागणिनी - पुण्य
यु० गु० ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/153626fc832ad04e25b071933120d3fa1d2e8ce3ab9ee3ea0c0e2d808323aa05.jpg)
Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148