Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 91
________________ खरतरगच्छालंकार देहडानुज ठ० थिरदेवपुत्रिकायाः श्रीजिनचन्द्रसूरिस्वहस्तकमलदीक्षिताया रत्नमञ्जरीगणिन्या महत्तरापदं प्रदत्तम्श्रीजयद्धिमहत्तरेति नाम विहितम् , प्रियदर्शनगणिन्याः प्रवर्तिनीपदं च । ततः श्रीसमुदायाभ्यर्थनया श्रीपूज्याः पत्तनपुरवरे समायाताः। तत्र च सं० १३६९ मार्गशीर्षासितषष्ठयां खपक्ष-परपक्षचेतश्चमत्कारकारकेण श्रीसमुदायविधापितमहोत्सवेन 'जयति जिनशासनम्' इति समुत्साहपूर्वकं श्रीपूज्यैर्जगत्पूज्यश्चन्दनमूर्ति-भुवनमूर्ति-सारमूर्ति-हीरमूर्तिनामकं क्षुल्लकचतुष्टयं विहितम् , केवलप्रभागणिन्याः प्रवर्तिनीपदं च प्रदत्तम् , मालारोपणादिमहानन्दिमहोत्सवश्च कृतः । ___सं० १३७० माघशुक्लैकादश्यां पुनः श्रीसमुदायकारितसकलस्वपक्ष-परपक्षचेतश्चमत्कारकारी दीक्षामालारोपणादिनन्दिमहामहोत्सवः सकलजगत्कल्पद्रुमावतारैः श्रीमत्पूज्यैः कृतः । तस्मिन्महोत्सवे निधानमुनेयशोनिधि-महानिधिसाध्वीद्वयस्य च दीक्षा प्रदत्ता । ततः श्रीभीमपल्लीसमुदायाभ्यर्थनया श्रीपूज्याः श्रीभीमपल्लयां समायाताः। तत्र च सं० १३७१ फाल्गुनशुक्लकादश्यां श्रीमत्पूज्यैः साधुराजश्यामलप्रमुखश्रीभीमपल्लीसमुदायकारितः श्रीअमारिघोषणावारितसत्रसंघपूजासाधर्मिकवात्सल्यादिनानाविधप्रोत्सर्पणापूर्वकं सकलजनमनोहारी व्रतग्रहणमालारोपणादिनन्दिमहामहोत्सवः कृतः । तस्मिन्महोत्सवे त्रिभुवनकीर्तिमुनेः, प्रियधर्मा-आशालक्ष्मी-धर्मलक्ष्मीसाध्वीनां च दीक्षा प्रदत्ता। ८५. ततः श्रीपूज्यपादाः श्रीजावालिपुरीयसमुदायगाढतराभ्यर्थनया श्रीजावालिपुरे विहृताः। तत्र च सं० १३७१ ज्येष्ठवदिदशम्यां मं० भोजराज-देवसिंह प्रमुखसकलश्रीजावालिपुरीयसमुदायकारितः सकलस्वपक्ष-परपक्षचेतश्चमत्कारकारी समस्तजनमनोहारी दीक्षामालारोपणादिनन्दिमहामहोत्सवः श्रीपूज्यैः कृतः। तस्मिन् महोत्सवे देवेन्द्रदत्तमुनि-पुण्यदत्तमुनि-ज्ञानदत्त-चारुदत्तमुनीनां पुण्यलक्ष्मी-ज्ञानलक्ष्मी-कमललक्ष्मी-मतिलक्ष्मीसाध्वीनां च दीक्षा प्रदत्ता । ततो म्लेच्छकृतो भङ्गः श्रीजावालिपुरे जातः । ततः श्रीपूज्याः श्रीशम्यानयन-श्रीरुणापुरी-श्रीवब्बेरकादिनानास्थानवास्तव्यसकलसमुदायिनां समाधानमुत्पाद्य श्रीरुणातः श्रीश्रीमालकुलोत्तंसैः श्रीजिनशासनप्रभावकैः सकल. साधर्मिकवत्सलैः साधुमानलपुत्ररत्नैः सा०माहा-सा०धान्धूप्रमुखभ्रातृभिः सह सकलसपादलक्षनगरग्रामवास्तव्यसमस्तसुश्रावकशकटशतत्रयमेलापकेन श्रीपूज्यपादैः श्रीफलवधिकायां सकलातिशयनिधानस्य म्लेच्छव्याकुलसकलसपादलक्षजनपदवारसमद्रामृतकपतल्यस्य श्रीपार्श्वनाथस्य प्रथमो यात्रामहामहोत्सवश्चके। तस्मिन यात्रामहोत्सवे श्रीविधिसंघसुश्रावकैः श्रीइन्द्रपदादिनानापदग्रहण-अवारितसत्र-श्रीसाधर्मिकवात्सल्य-श्रीसंघपूजादिनानाविधश्रीजिनशासनप्रोत्सर्पणापूर्वकममेयं सौवस्वापतेयं सफली चक्रे । पश्चाच्ट्रीनागपुरसमुदायाभ्यर्थनया श्रीपूज्या नागपुरे विहृताः । ____ ततः श्रीलोहदेव-सालखण-सा० हरिपालप्रमुखश्रीउच्चापुरीयविधिसमुदायानुत्तराभ्यर्थनया नानाम्लेच्छसंकुले महामिथ्यात्वबहुले श्रीसिन्धुमण्डले महाग्रीष्मौ प्रवर्तमाने दुर्गममरुस्थल्यां सौवज्ञानध्यानबलशालिभिः श्रीमेघकुमारदेवकृतसानिध्यैर्युगप्रवरागमश्रीजिनचन्द्रसूरिभिरनेकसुसाधुपरिवृतैः श्रीधर्मकल्पद्रुमारोपणाय विहारश्चक्रे । ततस्तद्देशालङ्कारे श्रीउच्चापुरीप्रत्यासन्ने श्रीदेवराजपुरे श्रीउच्चापुरीयविधिसमुदायकृतप्रवेशकोत्सवाः श्रीपूज्या महामिथ्यात्वराज्योत्पाटनायावस्थिताः। तत्र च सकलसिन्धुमण्डलसुश्रावकगाढतराभ्यर्थनया सं० १३७३ वर्षे मार्गशीर्ष. वदिचतुर्थ्यां श्रीआचार्यपदस्थापनाव्रतग्रहणमालारोपणादिमहामहोत्सवाः सकलाज्ञानिलोकसम्यक्त्वोपार्जनहेतवः श्रीपूज्यपादैः प्रारब्धाः । पश्चान्महोत्सवदिनोपरि आरम्भसिद्धिरात्रौ ज्ञानध्यानातिशयसंस्मारितश्रीजिनदत्तसूरियुगप्रवरागमैः श्रीपूज्यश्चतुर्मासीमध्येऽपि गुरुतरराजविड्वरेण संजायमानशून्यजनपदेषु तस्करादिनानोपद्रवबहुलेष्वपि मार्गेषु सौवज्ञानातिशयबलेन कुशलं परिभाव्य, स....वीसल-महणसिंहसुश्रावको श्रीदेवराजपुराच्छ्रीगूर्जरत्रामुकुटकल्पे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148