________________
खरतरगच्छालंकार देहडानुज ठ० थिरदेवपुत्रिकायाः श्रीजिनचन्द्रसूरिस्वहस्तकमलदीक्षिताया रत्नमञ्जरीगणिन्या महत्तरापदं प्रदत्तम्श्रीजयद्धिमहत्तरेति नाम विहितम् , प्रियदर्शनगणिन्याः प्रवर्तिनीपदं च ।
ततः श्रीसमुदायाभ्यर्थनया श्रीपूज्याः पत्तनपुरवरे समायाताः। तत्र च सं० १३६९ मार्गशीर्षासितषष्ठयां खपक्ष-परपक्षचेतश्चमत्कारकारकेण श्रीसमुदायविधापितमहोत्सवेन 'जयति जिनशासनम्' इति समुत्साहपूर्वकं श्रीपूज्यैर्जगत्पूज्यश्चन्दनमूर्ति-भुवनमूर्ति-सारमूर्ति-हीरमूर्तिनामकं क्षुल्लकचतुष्टयं विहितम् , केवलप्रभागणिन्याः प्रवर्तिनीपदं च प्रदत्तम् , मालारोपणादिमहानन्दिमहोत्सवश्च कृतः । ___सं० १३७० माघशुक्लैकादश्यां पुनः श्रीसमुदायकारितसकलस्वपक्ष-परपक्षचेतश्चमत्कारकारी दीक्षामालारोपणादिनन्दिमहामहोत्सवः सकलजगत्कल्पद्रुमावतारैः श्रीमत्पूज्यैः कृतः । तस्मिन्महोत्सवे निधानमुनेयशोनिधि-महानिधिसाध्वीद्वयस्य च दीक्षा प्रदत्ता ।
ततः श्रीभीमपल्लीसमुदायाभ्यर्थनया श्रीपूज्याः श्रीभीमपल्लयां समायाताः। तत्र च सं० १३७१ फाल्गुनशुक्लकादश्यां श्रीमत्पूज्यैः साधुराजश्यामलप्रमुखश्रीभीमपल्लीसमुदायकारितः श्रीअमारिघोषणावारितसत्रसंघपूजासाधर्मिकवात्सल्यादिनानाविधप्रोत्सर्पणापूर्वकं सकलजनमनोहारी व्रतग्रहणमालारोपणादिनन्दिमहामहोत्सवः कृतः । तस्मिन्महोत्सवे त्रिभुवनकीर्तिमुनेः, प्रियधर्मा-आशालक्ष्मी-धर्मलक्ष्मीसाध्वीनां च दीक्षा प्रदत्ता।
८५. ततः श्रीपूज्यपादाः श्रीजावालिपुरीयसमुदायगाढतराभ्यर्थनया श्रीजावालिपुरे विहृताः। तत्र च सं० १३७१ ज्येष्ठवदिदशम्यां मं० भोजराज-देवसिंह प्रमुखसकलश्रीजावालिपुरीयसमुदायकारितः सकलस्वपक्ष-परपक्षचेतश्चमत्कारकारी समस्तजनमनोहारी दीक्षामालारोपणादिनन्दिमहामहोत्सवः श्रीपूज्यैः कृतः। तस्मिन् महोत्सवे देवेन्द्रदत्तमुनि-पुण्यदत्तमुनि-ज्ञानदत्त-चारुदत्तमुनीनां पुण्यलक्ष्मी-ज्ञानलक्ष्मी-कमललक्ष्मी-मतिलक्ष्मीसाध्वीनां च दीक्षा प्रदत्ता । ततो म्लेच्छकृतो भङ्गः श्रीजावालिपुरे जातः । ततः श्रीपूज्याः श्रीशम्यानयन-श्रीरुणापुरी-श्रीवब्बेरकादिनानास्थानवास्तव्यसकलसमुदायिनां समाधानमुत्पाद्य श्रीरुणातः श्रीश्रीमालकुलोत्तंसैः श्रीजिनशासनप्रभावकैः सकल. साधर्मिकवत्सलैः साधुमानलपुत्ररत्नैः सा०माहा-सा०धान्धूप्रमुखभ्रातृभिः सह सकलसपादलक्षनगरग्रामवास्तव्यसमस्तसुश्रावकशकटशतत्रयमेलापकेन श्रीपूज्यपादैः श्रीफलवधिकायां सकलातिशयनिधानस्य म्लेच्छव्याकुलसकलसपादलक्षजनपदवारसमद्रामृतकपतल्यस्य श्रीपार्श्वनाथस्य प्रथमो यात्रामहामहोत्सवश्चके। तस्मिन यात्रामहोत्सवे श्रीविधिसंघसुश्रावकैः श्रीइन्द्रपदादिनानापदग्रहण-अवारितसत्र-श्रीसाधर्मिकवात्सल्य-श्रीसंघपूजादिनानाविधश्रीजिनशासनप्रोत्सर्पणापूर्वकममेयं सौवस्वापतेयं सफली चक्रे । पश्चाच्ट्रीनागपुरसमुदायाभ्यर्थनया श्रीपूज्या नागपुरे विहृताः । ____ ततः श्रीलोहदेव-सालखण-सा० हरिपालप्रमुखश्रीउच्चापुरीयविधिसमुदायानुत्तराभ्यर्थनया नानाम्लेच्छसंकुले महामिथ्यात्वबहुले श्रीसिन्धुमण्डले महाग्रीष्मौ प्रवर्तमाने दुर्गममरुस्थल्यां सौवज्ञानध्यानबलशालिभिः श्रीमेघकुमारदेवकृतसानिध्यैर्युगप्रवरागमश्रीजिनचन्द्रसूरिभिरनेकसुसाधुपरिवृतैः श्रीधर्मकल्पद्रुमारोपणाय विहारश्चक्रे । ततस्तद्देशालङ्कारे श्रीउच्चापुरीप्रत्यासन्ने श्रीदेवराजपुरे श्रीउच्चापुरीयविधिसमुदायकृतप्रवेशकोत्सवाः श्रीपूज्या महामिथ्यात्वराज्योत्पाटनायावस्थिताः। तत्र च सकलसिन्धुमण्डलसुश्रावकगाढतराभ्यर्थनया सं० १३७३ वर्षे मार्गशीर्ष. वदिचतुर्थ्यां श्रीआचार्यपदस्थापनाव्रतग्रहणमालारोपणादिमहामहोत्सवाः सकलाज्ञानिलोकसम्यक्त्वोपार्जनहेतवः श्रीपूज्यपादैः प्रारब्धाः । पश्चान्महोत्सवदिनोपरि आरम्भसिद्धिरात्रौ ज्ञानध्यानातिशयसंस्मारितश्रीजिनदत्तसूरियुगप्रवरागमैः श्रीपूज्यश्चतुर्मासीमध्येऽपि गुरुतरराजविड्वरेण संजायमानशून्यजनपदेषु तस्करादिनानोपद्रवबहुलेष्वपि मार्गेषु सौवज्ञानातिशयबलेन कुशलं परिभाव्य, स....वीसल-महणसिंहसुश्रावको श्रीदेवराजपुराच्छ्रीगूर्जरत्रामुकुटकल्पे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org