Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 96
________________ युगप्रधानाचार्यगुर्वावली। ज्योतिर्लक्षणतर्कमन्त्रसमयालङ्कारविद्यासमा, दुःशीला वनिता इवात्रभुवने वाञ्छन्ति हा तुच्छताम् ॥ पङ्कापहारनिखिले महीतले गामिनिर्जरतरलितैः । विधाय येऽस्तं गताः श्रीस्वर्ग ये*............॥ ये तु रीनेपुत्रनिचतवयं मुक्तं मा हत्याकुलं (१), सद्यस्तत्पथगामिभिः सहचरैः सौराज्यसौभिक्ष्यकैः । स्थास्यामोऽपनयः(१) कथं वयमिति ज्ञात्वेव चिन्तातुरैः, प्रातः श्रीजिनचन्द्रसूरिगुरवः स्वर्गस्थिता मङ्गलम् ॥ भाव्यं भूवलये क्षयं कलिपतेर्दुभिक्षसेनापते त्विा तन्मथनोद्यताः सुरगुरुं प्रष्टुं सखायं निजम् । मन्ये नाशिकमन्नधारणयुताभावात् पत्राद्धृता (१), राजानो जिनचन्द्रसूरय इति स्वर्ग गता देवतः॥ पश्चान्मत्रीश्वरदेवराजपौत्रेण मं० माणचन्द्रपुत्ररत्नेनोदारचरित्रेण मं० मून्धराजसुश्रावकेण तस्मिन् स्थाने श्रीमत्पूज्यपादुकासमन्वितं स्तूपं कारितम् । ९१. ततश्चतुर्मास्यनन्तरं जयवल्लभगणिः श्रीपूज्यप्रदत्तं सर्वशिक्षासमन्वितं लेखं गृहीत्वा श्रीभीमपल्लयां श्रीराजेन्द्रचन्द्राचार्याणामन्तिके समायातः । ततः श्रीमदाचार्या जयवल्लभगणिप्रमुखसाधुसमन्विताः श्रीपत्तने विहताः । तत्र च विषमकाले महादुर्भिक्षे प्रवर्तमानेऽपि स्वज्ञानध्यानवलेन श्रीचतुर्विधस्य संघस्य कुशलं परि...सिद्धिरामावदातैनिंजगुरुश्रीमत्पूज्यादेशप्रतिपालननिमित्तैः श्रीराजेन्द्राचार्यवर्यैः सं० १३७७ ज्येष्ठायैकादश्यां कुम्भलग्ने श्रीमूलपदस्थापनामहोत्सवविनिश्चयश्चाकृत | पश्चाच्छ्रीश्रीचन्द्रकुलावतंसेन श्रीजिनशासनप्रभावनाकरणनिरतेनौदार्यविनिर्जित...सा० जाल्हणपुत्ररत्नेन साधुराजतेजपालसुश्रावकेण स्वभ्रातृसा० रुदपालपरिवृतेन मूलपदस्थापनामहोत्सवकारापणाय भारं श्रीमदाचार्याणां प्रसादादङ्गीकृत्य, चतुर्दिक्षु श्रीयोगिनीपुर-श्रीउच्चापुर-श्रीदेवगिरि-श्रीचित्रकूट-श्रीस्तम्भतीदिक् समग्रजनपदनगरग्रामवास्तव्यसमग्रविधिमार्गसुश्रावकाणां तद्दिनोपरि समाकारणाय कुङ्कुमपत्रिकां दत्त्वा लेखवाहकाः प्रेषिताः। पश्चात् सर्वस्थानकविधिसमुदायाः प्रमुदितवदना अहमहमिकया महाविषमकाले प्रवर्त्तमानेऽपि तदिनोपरि श्रीपत्तने समाजग्मुः। ठ विजयसिंहोऽपि श्रीपूज्यप्रदत्तं मूलपदयोग्यशिष्यस्थापनशिक्षाचिष्ठिका...कं गृहीत्वाश्रीयोगिनीपुरात् तदिनोपरि श्रीपत्तने समायातः। ततः सर्वस्थानकसमुदायसमागमनं ज्ञात्वा स्वप्रतिज्ञातार्थनिर्वाहणाजनैत्तिभिः (१) श्रीराजेन्द्रचन्द्राचार्यैः श्रीजिनचन्द्रसूरिसद्गच्छावासमूलस्तम्भप्रायसकलविद्यापाठनाद् द्वितीयोपाध्यायश्रीविवेकसमुद्रमहोपाध्याय-प्रवर्तकजयवल्लभगणि-हेमसेनगणि-वाचनाचार्यहेमभूषणगणिप्रमुखसुसाधुत्रयस्त्रिंशन्मेलापके श्रीजयद्धिमहत्तरा-प्र०बुद्धिसमृद्धिगणिनी-प्रप्रियदर्शनागणिनीप्रमुखसाध्वीत्रयोविंशति-सर्वस्थानकसर्वसमुदायमहामेलापके च जयवल्लभगणिहस्तक-श्रीमत्पूज्यस्वहस्तप्रदत्तलेखः, ठ० विजयसिंहहस्तका श्रीमत्पूज्यस्वहस्तप्रदत्ता गोलकमध्यस्था चिष्ठिका च वाचिता । तदाकर्णनात् तत्क्षणादेव चतुर्विधसंघोऽपि नवनिधानप्राप्तिवद्धर्षकल्लोलामृतपूरितो नृत्य कर्तुमारेभे । पश्चाच्छ्रीमदाचार्यैरस्खलितनिजगुर्वाज्ञाप्रतिपालनोद्यतैः सर्वातिशयशालिभिः श्रीच * अत्र पुनः मूलादर्शे २४-२५ अक्षरमितः पङ्क्तिभागः शून्यरूपेण मुक्तोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148