________________
युगप्रधानाचार्यगुर्वावली। हिराजप्रमुखऊकेशवंशीयासंख्यसुश्रावकपरम्परैकवितानः श्रीचक्रवर्तिमहासैन्यसमानः, चारुद्रोणीभिर्यमुनामहानदीमुत्तीर्य क्रमक्रमेण निःशकं मन्दमन्दप्रयाणकैः श्रीशान्तिनाथ-श्रीकुन्थुनाथ-श्रीअरनाथतीर्थङ्करचक्रवर्तिनां गर्भावतार-जन्म-दीक्षा-ज्ञानकल्याणकचतुष्टयपवित्रितवसुन्धरं हस्तिनापुरं चक्रवर्तिसमानश्रीमत्पूज्य-सेनानीसमानठ. अचल-पाश्चात्यपदनिर्वाहक-सा०रुदपालालंकृतः श्रीचतुर्विधोऽपि संघः सम्प्राप्तः।
८९. ततश्च श्रीमत्पूज्यैः श्रीचतुर्विधसंघसमन्वितैनूतनकृतस्तुतिस्तोत्रनमस्कारभणनपूर्व श्रीशान्तिनाथ-कुन्थुनाथारनाथदेवानां भवभवोपार्जितपापपङ्कोत्तारिणी यात्रा चक्रे । श्रीसंघेन च श्रीइन्द्रपदादिग्रहणावारितसत्र-साधर्मिकवात्सल्य-श्रीसंघपूजानिर्मापण-हेमरजतकटकतुरगवस्त्रवितरणपूर्वकं कलिकाले प्रवर्तमानेऽपि श्रीकृतयुगवच्छ्रीवीरशासने स्वपक्ष-परपक्षचेतश्चमत्कारकारिणी महती प्रभावना चक्रे । तत्र च ठ०हरिराजपुत्ररत्नेनोदारचरित्रेण श्रीदेवगुर्वाज्ञाचिन्तामणिविभूपितमस्तकेन ठ० मदनानुजेन ठ० देवसिंहसुश्रावकेण जैथलसहस्रविंशत्येन्द्रपदं गृहीतम् । ठ०हरिराजादि महद्धिकसुश्रावकैरमात्यादिपदानि गृहीतानि । सर्वसंख्यया देवभाण्डागारे जैथललक्ष १ सहस्र ५० समुत्पन्नाः । तत्र च दिनपञ्चकं श्रीजिनशासनप्रोत्सर्पणां विधाय श्रीहस्तिनागपुरात् सर्वोऽपि संघः श्रीमथुरामहातीर्थोपरि प्रचलितः सन् स्थाने स्थाने प्रोत्सर्पणां विदधानः श्रीयोगिनीपुरप्रत्यासन्ने तिलप्थस्थाने समायातः । अत्रान्तरे द्रमकपुरीयाचार्येण युगप्रवरागमश्रीजिनचन्द्रसूरीणामतिशयमसहिष्णुना दुर्जनस्वभावेन वर्णच्छत्रधरणसिंहासनोपवेशनादिकं पै[शुन्यं महाराजाधिराजपातसाहिकुतबदीनाग्रे कृतम् । ततश्च म्लेच्छस्वभावेन पातसाहिना समग्रोऽपि संघस्तत्रावग्रहे कारितः। श्रीपूज्याः सपरिवाराः संघपुरुष-ठ०अचलादिमहद्धिकसुश्रावकसमन्विताः स्वपार्श्वे समाकारिताः । ततश्च श्रीमत्पूज्यमुखकमलावलोकनादेव न्यायिमहोदधिना प्रतापाक्रान्तसमग्रभूतलेन श्रीअलावदीनसुरत्राणपुत्ररत्नेन श्रीकुतबदीनसुरत्राणेन कथितम्-'एतेषां श्वेताम्बराणां मध्ये दुर्जनोक्तं वाक्यं न किमपि जाघटीति' । पश्चाद् दीपानाग्रे आदिष्टम्-‘एतेषां कर्णवारं सम्यगालोच्य येऽन्यायिनो भवन्ति ते शिक्षणीयाः' इत्युक्त्वा श्रीपूज्या दीपाने प्रेषिताः । ततश्च प्रधानाधिकारिपुरुषैः सम्यन्यायान्यायं परिभाव्य द्रमकपुरीयाचार्यो नष्टोऽपि सन् निष्कासयित्वा राजद्वारे ऊर्वीकृतः। पश्चादालापितः सन् किमपि सत्यमब्रुवत् । श्रीपूज्यानामग्र एव राजद्वारे लक्षसंख्यम्लेच्छ-हिन्दुकप्रत्यक्षं यष्टि-मुष्टिलकुटादिप्रहारैः कुट्टयि खा विगोपयिखा च बन्दी कृतः। श्रीपूज्यानामग्रे कथितम्-'युष्माभिः सत्यभाषिभिया॑यैकमहोदधिभिः सत्यश्वेताम्बरैः पातसाहिमेदिन्यां परिभ्रमणं स्वेच्छया करणीयम् , अत्राथै शङ्का काऽपि न कार्या' । पश्चाच्छ्रीपूज्यैः साधुराजतेजपाल-साधुराजखेतसिंह-ठ०अचला-ठ० फेरूणामग्र आदिष्टम्-'वयमितः स्थानात् पातसाहिप्रेषिता अपि तदैव व्रजिष्यामो यदाऽस्य द्रमकपुरीयाचार्यस्य दुर्जनस्वभावस्यापि मोचनं विधास्यथाम् । यतः श्री. वर्धमानशिष्येण श्रीधर्मदासगणिनोपदेशमालायामुक्तमस्ति
जो चंदणेण बाहुं आलिप्पइ वासिणाइ तच्छेइ ।
संथुणइ जोवि निंदइ महरिसिणो तत्थ समभावा ।। अन्यशास्त्रेष्वप्युक्तमस्ति
शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि।
मोक्षे भवे च सर्वत्र निःस्पृहो मुनिपुङ्गवः ॥ इति श्रीपूज्यानां शत्रुमित्रसमवृत्तीनां समतृणमणिलोष्टुकाञ्चनानां करुणासमुद्राणां गाढतरं मोचनाभिप्राय विज्ञाय सर्वोऽपि राजलोको नगरलोकश्च मस्तकावधूननपूर्वकं श्रीपूज्यानां गुणग्रहणैकपरायणो जज्ञे । ततः श्रीपूज्या ......सा० तेजपालादिभिः कारणिकपुरुषान् सम्बोध्य स द्रमकपुरीयाचार्यो मोचयित्वा स्वपौषधशालायां प्रेषितः ।
[८१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org