SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६६ खरतरगच्छालंकार सुन्दरीगणिन्योः प्रवर्तनीपदं च प्रदत्तम् । ततश्च ठ० विजयसिंह -ठ० सेटू-ठ० अचलप्रमुखसमग्रसंघशकटाश्वमहामेलापकेन श्रीफलवधिंकायां श्रीपार्श्वनाथस्य श्रीपूज्यस्तृतीयवारं यात्रा कृता । तत्र च जिनशासनप्रभावनाकरणप्रवणेन सर्वसाधर्मिकवत्सलेन मत्रिदलकुलोत्सेन ठ० सेटूसुश्रावकेण जैथलसहस्रद्वादशप्रदानपूर्वकमिन्द्रपदग्रहणेन, अन्यैः सुश्रावकलोकैरमात्यादिपदग्रहणेन अवारितसत्रसंघपूजासाधर्मिकवात्सल्यस्वर्णरजतकटकवस्त्रादिदानैश्च श्रीजिनशासने महती प्रभावना चक्रे । श्रीपार्श्वनाथदेवभाण्डागारे च जैथलसहस्र ३० समुत्पन्नाः । ततः पुनः श्रीपूज्याः श्रीसंघेन सह नागपुरे समायाताः। ८७. ततः सं०१३७५ वैशाखवद्यष्टम्यां नानावदातवातसमुद्धृतसर्वपूर्वजकुलेन निजभुजोपार्जितचारुकमलाकेलिनिवासेन मत्रिदलकुलोत्तंस-ठ०प्रतापसिंहपुत्ररत्नेन श्रीजिनशासनप्रभावनाकरणचतुरेण सकलसाधर्मिकवत्सलेन निःप्रतिमपुण्यपण्यशालिना स्थैयौदार्यगाम्भीर्यादिगुणगणमालिना सकलराज्यमानेन ठक्कुरराजअचलसुश्रावकेण प्रतापाक्रान्तभूतलपातसाहिश्रीकुतबदीनसुरत्राणफुरमाणं निष्कास्य कुङ्कुमपत्रिकादानसन्मानादिपूर्व श्रीनागपुर-श्रीरुणा-श्रीकोसवाणा-श्रीमेडता-कडुयारी-श्रीनवहा-झुझणू-नरभट-श्रीकन्यानयन-श्रीआसिका-झरे [१] रोहद-श्रीयोगिनीपुर-धामइना-यमुनापारनानास्थानवास्तव्यप्रभूतसुश्रावकमहामेलापकेन प्रारम्भिते श्रीहस्तिनागपुर-श्रीमथुरामहातीर्थयात्रोत्सवे श्रीवत्रस्वामि-श्रीआर्यसुहस्तिमूरिवत्सर्वातिशयशालिनो जगत्पूज्याः श्रीमत्पूज्या जयवल्लभगणि-पं० पद्मकीर्तिगणि-पं० अमृतचन्द्रगण्यादिसाध्वष्टक-श्रीजयद्धिमहत्तराप्रमुखसाध्वी........श्रीचतुर्विधसंघसहिताः प्रचुरम्लेच्छावलीसंकुलेऽपि जनपदे अविधवसुधवाभिः सुश्राविकाभिर्गीयमानेषु षवलमङ्गलेपु, दीयमानासु चञ्चरीषु, पठत्सु नानाविधवन्दिवृन्देषु, वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, श्रीदेवालयेन सह श्रीनागपुरात् प्रचलिताः । ततश्च पदे पदे शुभशकुनैः प्रेर्यमाणाः सकलसंघकार्यप्राग्भारधुराधौरेयेण निरुपमदानतिरस्कृताशेषकल्पद्रुमेण ठ० अचलसुश्रावकेण, श्रीश्रीमालकुलोत्सेन श्रीदेवगुर्वाज्ञाचिन्तामणिविभूषितमस्तकेन अङ्गीकृताशेपसंघपाश्चात्यपदप्राग्भारेण सा० सुरराजपुत्ररत्नेन साधुराजरुदपालसुश्रावकेण समासंघेन च कलिताः, प्रतिपुरं प्रतिग्रामं निःशङ्कं गीतनृत्यवाद्यादिना श्रीजिनचैत्येषु चैत्यप्र(परिपाटीकरणपूर्व श्रीजिनशासनप्रोत्सर्पणायां विजृम्भमाणायां क्रमक्रमेण श्रीनरभटे श्रीजिनदत्तमरिप्रतिष्ठितं नवफणमण्डितं समग्रातिशयनिधानश्रीपार्श्वनाथमहातीर्थ श्रीसमुदायकारितासमप्रवेशकमहोत्सवाः श्रीपूज्या नमश्चक्रुः। ततश्च श्रीनरभटसमुदायेन श्रीचतुर्विधसंघसमन्वितानां श्रीपूज्यानां श्रीसंघपूजादिनिर्मापणेन महती प्रभावना चके। ततः स्थानात् पुनः श्रीचतुर्विधसंघश्रीदेवालयसमन्विताः श्रीपूज्याः समग्रवागडदेशनगरग्रामवास्तव्यसुश्रावकलोकमनोरथमालां परिपूरयन्तो महतोत्साहेन श्रीकन्यानयने श्रीजिनदत्तमुरिप्रतिष्ठितं सकलतीर्थमुकुटकल्पं सातिशायिनं श्रीवर्धमानस्वामिनं नमश्चक्रुः । मेहर-पद्म-सा० कालाप्रमुखश्रीकन्यानयनसमुदायेन सकलम्लेच्छसंकुलेऽपि नगरे हिन्दुकवारकवत् स्थाने स्थाने संजायमानेषु प्रेक्षणीयेषु, श्रीदेवालयश्रीसंघसमन्वितानां श्रीपूज्यपादानां प्रवेशकमहोत्सवकरणपूर्वकं श्रीसंघपूजासाधर्मिकवात्सल्यनिर्माएणपूर्वकं च श्रीमहावीरतीर्थे भवभवान्तरेणार्जितपापकश्मलापहारिणी महती प्रभावना चक्रे । तत्र च श्रीसंघेन श्रीवर्धमानस्वाम्यग्रे दिनाष्टकं गुरुतरोत्साहपूर्वकमष्टाह्निकामहामहोत्सवश्चके । ८८. ततः स्थानात् समग्रयमुनापार-वागडदेशसुश्रावकसत्कतुरङ्गमशतचतुष्टय-शकटशतपञ्चक-वृपभशतसप्तकासंख्यलोकमहामेलापकेन वाद्यमानासु ढोल्लपरम्परासु, मार्गेषु स्थाने स्थाने दीयमानःसु चच्चरीषु, वाद्यमानेष्वहर्निशं द्वादशविधनान्दीतूर्येषु, असंख्यम्लेच्छाश्वपरम्परानुगम्यमानः, ठ० जवनपाल-ठ० विजयसिंह-ठ० सेटू-ठ० कुमरपाल-ठ० देवसिंहप्रमुखनानामत्रिदलीय-सुश्रावक-ठ भोजा-श्रेष्ठि० पद्म-सा काला-ठ०देपाल-ठ०पूर्ण-श्रे०महणा-ठ०रातू-सा० लूणा-ठ फेरूप्रमुखानेकश्रीश्रीमालीय-सुश्रावकश्रे०पूनड-सा०कुम्मरपाल-मं०मेहा-मं०वील्हा-सा०ताल्हण-सा०म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy