________________
६८
खरतरगच्छालंकार
पश्चाच्छ्रीपूज्या अश्वपतिबहुमानिता महाम्लेच्छराजलोकनगर लोक-सा०तेजपाल - सा० खेतसिंह- सा० ईश्वर - ठ०अचलप्रमुखासंख्यसुश्रावकलोकानुगम्यमाना गुरुतरप्रभावनापूर्वकं पा (खां) डासरायस्थाने समायाताः । अस्मिन् प्रस्तावे श्रीपूज्यानां समग्रसंघस्य च श्रीजिनशासनप्रभावकैः सकलराजमान्यैः सर्वकार्यनिर्वाहणसमर्थैः सकलसंघाधारैः श्रीश्रीमालकुलोसंसैः सा०तेजपाल - सा०खेतसिंह - सा० ईश्वरसुश्रावकैः सकलसंघधुरन्धरेणोदारचरित्रेण चतुर्दिक्षु विख्यातेन मन्त्रिदलकुलोत्तंसेन ठ०अचलसुश्रावकेण ठ० श्रीवत्सपुत्ररत्नसमन्वितेन च भव्यं साहाय्यं कृतम् । अत्रान्तरे चतुर्मासी लग्ना । ततः श्रीपूज्याः संघविसर्जनं विधाय ठ०अचलादिभिः सुश्रावकैर्वरिवस्यमानाः खण्डकसराजौ चतुर्मासीं चक्रुः ।
अत्रान्तरे पुनः श्रीमत्पूज्यैः श्रीसुरत्राणकथनेन श्रीसंघानुरोधेन च 'रायाभियोगेणं गणाभियोगेण' मित्यादिसिद्धान्तवचनमनुसरद्भिश्चतुर्मासीमध्येऽपि श्रावणमासे संघभारनिर्वाहक - ठ० अचल - पाश्चात्यपदनिर्वाहकसा० रुदपालादिसमग्रबागडदेशसुश्रावकसंघ महामेलापकेन श्रीमथुरायां श्रीसुपार्श्व - श्रीपार्श्व - श्री महावीरतीर्थकराणां महता विस्तरेण यात्रा कृता । श्रीसंघेन च अवारितसत्र श्री साधर्मिक वात्सल्यादिभिर्महती प्रभावना चक्रे । ततः पुनः श्रीयोगिनीपुरे समागत्य पा ( खां ) डासराय स्थाने श्री पूज्यैः शेषा चतुर्मासी चक्रे । श्रीजिनचन्द्रसूरिस्तूपे च वारद्वयं सविस्तरा
यात्रा कृता ।
९०. ततश्चतुर्मास्यनन्तरं श्रीमत्पूज्यैः शरीरे कम्परोगेण साबाधितैः सौवज्ञानध्यानबलेन स्वायुः शेषं परिभाव्य स्वहस्तदीक्षितस्य द्विधास्वसन्तानप्रभवस्य खपट्टलक्ष्मी पाणिग्रहणयोग्यलक्षणस्य तर्क-साहित्यालङ्कार- ज्योतिष्कसारविचारचतुरस्य स्वसमय-परसमयाम्भोधितारणतरण्डस्य स्वशिष्यरत्नस्य वा० कुशलकीर्तिगणेः खपट्टस्थापनखपरिभावितनामकारापणादिसर्वशिक्षासमन्वितचिष्ठिकागोलकः श्रीराजेन्द्र चन्द्राणां निमित्तं विश्वासपात्र श्रीदेवगुर्वाज्ञानिरत- ट० विजयसिंहहस्ते समर्प्य चाहुमानकुलोत्तंस शरणागतवज्रपञ्जरराणक श्रीमालदेवेन गाढतरोपरोधेन समामन्त्र्यमाणैः श्रीयोगिनीपुराच्छ्रीमेडतास्थानकोपरि विहारश्च । ततो मार्गे धामइना - रोहद प्रमुख नानास्थानसुश्रावक लोकान् वन्दापयन्तः श्रीकन्यानयने श्रीमहावीरदेवं नमश्चक्रुः । तत्रागतैः श्रीमत्पूज्यपादैः तापश्वासादिना घनतरमाबाधितैः श्रीकन्यानयनीय समुदायप्रत्यक्षं चतुर्विधसंघ मिथ्यादुष्कृतदानपूर्वकं पुनः सर्वशिक्षासमन्वितो लेखो विश्वासपात्र प्रवर्तकजयवल्लभ गणिहस्ते श्रीराजेन्द्रचन्द्राचार्याणां निमित्तं प्रदत्तः । ततो मासमेकं श्रीकन्यानयनीय समुदायस्य समाधानमुत्पाद्य श्रीनरभटादिनानास्थान सुश्रावकलोकान् वन्दापयन्तः श्रीमेडतास्थाने समायाताः । तत्रापि राणक श्रीमालदेवाभ्यर्थना श्रीसमुदाय समाधानाय च चतुर्विंशतिदिनानि स्थित्वा स्वनिर्वाणयोग्यं स्थानं परिभाव्य श्रीकोशवाणास्थाने श्रीपूज्याः समायाताः । तत्रागतैः श्रीमत्पूज्यैः सं० १३७६ आषाढशुक्ल नवमीरात्रिप्रथम सार्धप्रहरे... शपश्चपष्टि । . श्रीचतुर्विधसंघमिथ्यादुष्कृतदानमदनकलाङ्कितहस्त कमलैः अखिता (१) नशनह
स्तिमलैः स्वर्गलक्ष्मीपाणिग्रहणं चक्रे ।
ततः श्रीसमुदायेन श्रीवर्धमानस्वामि निर्वाण समय शिबिकासमानगुरुतमासंख्य मण्डपिकाशोभित विमाननिर्मापूर्वकं वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, उच्छाल्यमानेषु नालिकेरादिफलसमूहेषु, अविधवसुधवाभिः श्राविकाभियमानेषु पूर्व महर्षिगीतेषु प्रभातसमये नगरलोक - राजलोकमहामेलापकेन निर्वाणमहामहोत्सवः सविस्तरभरश्चक्रे । अत्रा सद्गुरूणां गुणलेशस्मरणं विद्वद्भिः किञ्चित् क्रियते
यस्मिन्नस्तमितेऽखिलं क्षितितलं शोकाकुलव्याकुलं, जज्ञे दुर्मदवादिकौशिक कुलं सर्वत्र येनोल्वणम् ।
+ अत्र मूलादर्शे प्रायः ३५-३६ अक्षरप्रमाणा पङ्क्ती रिक्ता मुक्ताऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org