Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
खरतरगच्छालंकार
मयि सति कीहक् चासन्नयमत्र कविरिति नाम वहतीति । रोषादसुराचार्य जेतुं कि जिनपते ! स्वरगाः १ ॥
[६५] भगवंस्त्वयि दिवि गच्छति हर्षात्त्वदभिमुखमक्षताः क्षिप्ताः । सुररमणीभिर्मन्ये सारीभूतास्त एवाभ्रे ।।
[६६] इन्द्रानुरोधवशतोमध्ये स्वर्गे ययौ भवानित्थम् । जिनपतिसूरे ! सन्तो दाक्षिण्यधना भवन्ति यतः॥ वामपदघातलग्नेन्द्राण्यवतारितशरावपुटखण्डाः । स्वाश्रीविवाहकार्य तव नूनं दिव्युडूभूताः ॥ जिनजननदिनस्नानाधानेच्छातः किमाकुलीभूय । त्वं पञ्चत्वं प्राप्तः सुरपतिवजिनपतिर्भगवान् ? ॥ त्वदभिमुखमिव क्षिप्तानाशानारीभिरक्षतान् नूनम् । उपभोक्तुं वियदजिरे विचरति चन्द्रो मराल इव ॥ नास्तिकमतकृदमरगुरुजयनायेवासि जिनपते ! स्वरगाः। परमेतज्जगदधुना विना भवन्तं कथं भावि ? ॥ हा ! हा! श्रीमज्जिनपतिसूरे ! सूरे त्वयीत्थमस्तमिते। अहह कथं भविता नीतिचक्रवाकी वराकीयम् ॥ करतलधृतदीनास्ये श्रीशासनदेवि ! मा कृथाः कष्टम् । यन्मन्ये तव पुण्यैर्जिनपतिसूरिदिवमयासीत् ।। रे दैव ! जगन्मातुः श्रीवाग्देव्या अपि त्वयात्रेपि । ना मन्ये यदमुष्याः सर्वस्वं जिनपतिरहारि ॥
[७४] इत्यादिशोकविलापभरोच्छलितमूर्छावसाने च धैर्यालम्बनपूर्वकं श्रीपूज्यपादौ वन्दित्वा पाश्चात्यकरणार्थ तैः सह शुद्धे स्थंडिले जगाम सपरिवारः श्रीजिनहितोपाध्यायः । तत्र च कृत्यं समस्तमपि कृत्वा स्वोपाश्रयगमनपूर्वकं श्रीगौतमस्वामिगणधरादिमहापुरुषचरितोत्कीर्तनेन सकलमपि लोकमाह्लादयति स्म । ततश्चतुर्मासी कृता जावालिपुरे।
६६. ततः कालान्तरे श्रीसंघेन सह श्रीजावालिपुरे श्रीजिनहितोपाध्याय-श्रीजिनपालोपाध्यायादिप्रधानसाधुसमन्वितः श्रीसर्वदेवसरिः समस्तसंघसम्मत्या श्रीजिनपतिसरिगुरूपदिष्टरीत्याऽऽचार्यपदोपयोगिषट्त्रिंशद्गुणकलितसौभाग्यभाजनमुपादेयवाक्यं दशविधयतिधर्मादिभृतक्षमाकेलिभवनं वीरप्रभगणिं भक्तिभरसमागतसमस्तदेशवास्तव्यभव्यलोकसंधैः स्थाने स्थाने मण्डितेषु सत्रागारेषु, दीयमानेषु रासकेषु, गीयमानेषु युगप्रधानगुरु [...............] अमारिघोपणायां निष्पाद्यमानायाम् , सहस्रसंख्यद्रव्यार्पणेन याचकवाञ्छासु पूर्यमाणासु, प्रधानरूपवेषलक्ष्म्या शक्रेण सह स्पर्धमानेषु लोकेषु, महामिथ्यादृष्टिभिरपि निरन्तरं प्रशस्यमाने जिनशासने, स्वस्वदेवावहेलापरेष्वपरेषु दर्शनेषु, खरतरमार्गसत्कविरुदावली पठत्सु भट्टलोकेषु, नानाविधास्वाशिस्सु दीयमानासु, तलिकातोरणादिशोभाभूषिते श्रीमहावीरदेवभवने तीर्थप्रभावनानिमित्तं श्रीजिनपतिसूरिपट्टे माघसुदि ६ उपवेशयामास । कृतं च तस्य पूर्वगुरूपदिष्टं श्रीजिनेश्वरसूरिरिति नाम । आनन्दभरनिर्भरेण च संघेन कारिता महत्युत्सर्पणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148