Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 73
________________ खरतरगच्छालंकार भाप्रभावेन श्रीमदुपाध्यायेन स्थाने स्थाने ज्वलन्तीषु दीप्रासु दीपिकासु समस्तराजलोकसमक्षमसिद्धविरुद्धानैकान्तिकादिदूषणोद्भावनेन तान्यपि निराकृत्य जितो मनोदानन्दः । प्रधानानुमानभणनपूर्वकमात्मा च स्थापितो दर्शनाभ्यन्तरवर्तित्वेनोपाध्यायेन । उत्तरास्फुरणे वैलक्ष्याच्चिन्तितुं प्रवृत्तः पण्डितः, यथा-'अहो! तथाविधवैदग्ध्याभावादेते राजानो यं कंचिद् यतिब्रुवाणं पश्यन्ति तमुद्दिश्य भाषन्ते यथाऽयं भद्रो वादीति; तस्मादहमपि किमपि त्रुवन्नस्मि यथाऽमी जानन्ति पण्डितमनोदानन्दो गाढो वाग्ग्मी' -इति विचिन्त्य शब्दब्रह्म यदेकं यच्चैतन्यं च सर्वभूतानाम् । यत्परिणामस्त्रिभुवनमखिलमिदं जयति सा वाणी ॥ [५८] इत्यादि पठितुं प्रवृत्तः । ततश्च श्रीमदुपाध्यायेन कोपावेगादुक्तम्-'अरे बठरशेखर ! किमेतदसम्बद्धं भाषसे ? मया त्वां षड्दर्शनवाह्यः कृतः प्रमाणसामर्थ्यन; यदि तव काऽपि शक्तिरस्ति तदा स्वकीयपत्रावलम्बनसमर्थनाय प्रमाणानुयायि किञ्चिद् ब्रूहि । पूर्वपठितगुणनेऽपि वयमेव समर्थाः' । तदनन्तरं श्रीमदुपाध्यायवचनेन श्रीजिनवल्लभमरिकृतचित्रकूटीयप्रशस्ति-संघपट्ट-कर्मशिक्षादिसंस्कृतप्रकरणान्युदात्तस्वरेण गुणयतो धर्मरुचिगणि-वीरप्रभगणि-सुमतिगणीन् दृष्ट्वा तत्रोपविष्टान्यराजभिरुक्तम्-'अहो ! एते सर्वेऽपि पण्डिताः' इति । मनोदानन्दपण्डितमुखे कालिमानमवलोक्य राजाधिराजश्रीपृथ्वीचन्द्रेण चिन्तितम् , यथा-'अहो ! न दृश्यते शोभना मनोदानन्दस्य मुखच्छाया। अतो यथेष हारयिष्यति ततो महल्लाघवं मम भविष्यति । तस्मादिदानीमेवानयोः समश्रीकतां करोमीति'-चिन्तनानन्तरं च श्रीमदुपाध्यायानुद्दिश्योक्तम्-'बृहन्त ऋपयो यूयमिति' । मनोदानन्दमुद्दिश्योक्तम्-'बृहन्तः पण्डिता यूयमिति' । श्रीपृथ्वीचन्द्रराजवचनं श्रुत्वा श्रीमदुपाध्यायेन चिन्तितम् , यथा-'अहो ! अद्यैतावत्प्रमाणेन संरम्भेण रात्रिप्रहरत्रयं जागरित्वाऽपि न किमपि फलं संप्राप्तम् , यदित्थं निर्वचनीकृतेनापि मनोदानन्देन समं मम समश्रीकता कृता राज्ञा स्वपण्डितपक्षपातात् । भवतु, तथापि जयपत्रमगृहीत्वा मयेतः स्थानान्नोत्थातव्यमिति' । प्रकटं च स्वस्कन्धास्फालनपूर्वकमुक्तम्-'महाराज! किमेतदुच्यते ? । मय्यूचे सत्यन्यो भरते सकलेऽपि न कश्चित्पण्डितो भवति । यधेप पण्डितस्तदा मया सह लक्षणमार्गेण तर्कमार्गेण साहित्यमार्गेण वा वदतु, अन्यथा स्वकीयमिदं पत्रावलम्बनं पाटयतु । अरे यज्ञोपवीतमात्रवहनशक्ते मनोदानन्द ! श्रीजिनपतिसूर्युपरि पत्रावलम्बनं करोषि ? न जानासि रे बटो ! यदनेन सर्वविद्यानिर्णयदायकाः श्रीप्रद्युम्नाचार्यसदृशाः पण्डितराजाः सकललोकसमक्षं धूलीं चर्विताः' । अत्रान्तरे श्रीपृथ्वीचन्द्रेण पत्रावलम्बनं गृहीत्वा पाटितम् । श्रीमदुपाध्यायेनोक्तम्-'महाराज ! न तुष्यामो वयं पत्रावलम्बनपाटनमात्रेण' । राज्ञोक्तम्-'कथं तुष्यथ ?' उपाध्यायेनोक्तम्-'जयपत्रलाभेन; यतो महाराज ! अस्माकमीदृशी दर्शनव्यवस्थाऽस्ति, यः कश्चिदस्मदुपाश्रयद्वार एकसिन् दिने पत्रावलम्बनं बध्नाति तस्यैव हस्तेन द्वितीये दिने खोपाश्रयद्वारे जयपत्रमुद्भाव्यते। अतो महाराज ! यथा न्यायश्रीकरणैकसंमत्याऽसद्दर्शनव्यवस्था वृद्धि प्रामोति तव सभायां तथा विधीयताम्' । राज्ञा च लघूकृतस्वपण्डितमनोदानन्दमुखकालिमावलोकनोच्छलितमानसिकदुःखेनापि न्यायविचारप्रवीणपार्श्वस्थितप्रभूतप्रधानलोकोपरोधात् स्वकीयपारिग्रहिकहस्तेन लेखयित्वा दत्तं जयपत्रं श्रीजिनपालोध्यायानां हस्ते। उपाध्यायैश्च धर्मलाभाशीर्वाददानपूर्वकं बहुलमुपश्लोकितो महाराजाधिराजश्रीपृथ्वीचन्द्रः । ततः स्थानादुत्थाय प्रातः क्षणे पंचशब्दवादनादिवपिनपूर्वकं गृहीतजयपत्राः सपरिवाराः श्रीजिनपालोपाध्यायाः समागताः श्रीपूज्यानां समीपे। श्रीपूज्यैश्च स्वशिष्यनिष्पादितजिनशासनप्रभावनोद्भूतप्रभूतप्रमोदान्महासंभ्रमेणालापिताः श्रीमदुपाध्यायाः। सं० १२७३ ज्येष्ठवदि १३ शान्तिनाथजन्मकल्याणके कारितं च वर्धापनकमानन्दभरनिर्भरेण तत्रत्यसमुदायेन । ६४. सं० १२७४ बृहद्वारादागच्छद्भिरन्तरा भावदेवमुनिर्दीक्षितः । सा० थिरदेवप्रार्थनया दारिद्रेरके चतुर्मासी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148