________________
खरतरगच्छालंकार भाप्रभावेन श्रीमदुपाध्यायेन स्थाने स्थाने ज्वलन्तीषु दीप्रासु दीपिकासु समस्तराजलोकसमक्षमसिद्धविरुद्धानैकान्तिकादिदूषणोद्भावनेन तान्यपि निराकृत्य जितो मनोदानन्दः । प्रधानानुमानभणनपूर्वकमात्मा च स्थापितो दर्शनाभ्यन्तरवर्तित्वेनोपाध्यायेन । उत्तरास्फुरणे वैलक्ष्याच्चिन्तितुं प्रवृत्तः पण्डितः, यथा-'अहो! तथाविधवैदग्ध्याभावादेते राजानो यं कंचिद् यतिब्रुवाणं पश्यन्ति तमुद्दिश्य भाषन्ते यथाऽयं भद्रो वादीति; तस्मादहमपि किमपि त्रुवन्नस्मि यथाऽमी जानन्ति पण्डितमनोदानन्दो गाढो वाग्ग्मी' -इति विचिन्त्य
शब्दब्रह्म यदेकं यच्चैतन्यं च सर्वभूतानाम् । यत्परिणामस्त्रिभुवनमखिलमिदं जयति सा वाणी ॥
[५८] इत्यादि पठितुं प्रवृत्तः । ततश्च श्रीमदुपाध्यायेन कोपावेगादुक्तम्-'अरे बठरशेखर ! किमेतदसम्बद्धं भाषसे ? मया त्वां षड्दर्शनवाह्यः कृतः प्रमाणसामर्थ्यन; यदि तव काऽपि शक्तिरस्ति तदा स्वकीयपत्रावलम्बनसमर्थनाय प्रमाणानुयायि किञ्चिद् ब्रूहि । पूर्वपठितगुणनेऽपि वयमेव समर्थाः' । तदनन्तरं श्रीमदुपाध्यायवचनेन श्रीजिनवल्लभमरिकृतचित्रकूटीयप्रशस्ति-संघपट्ट-कर्मशिक्षादिसंस्कृतप्रकरणान्युदात्तस्वरेण गुणयतो धर्मरुचिगणि-वीरप्रभगणि-सुमतिगणीन् दृष्ट्वा तत्रोपविष्टान्यराजभिरुक्तम्-'अहो ! एते सर्वेऽपि पण्डिताः' इति । मनोदानन्दपण्डितमुखे कालिमानमवलोक्य राजाधिराजश्रीपृथ्वीचन्द्रेण चिन्तितम् , यथा-'अहो ! न दृश्यते शोभना मनोदानन्दस्य मुखच्छाया। अतो यथेष हारयिष्यति ततो महल्लाघवं मम भविष्यति । तस्मादिदानीमेवानयोः समश्रीकतां करोमीति'-चिन्तनानन्तरं च श्रीमदुपाध्यायानुद्दिश्योक्तम्-'बृहन्त ऋपयो यूयमिति' । मनोदानन्दमुद्दिश्योक्तम्-'बृहन्तः पण्डिता यूयमिति' । श्रीपृथ्वीचन्द्रराजवचनं श्रुत्वा श्रीमदुपाध्यायेन चिन्तितम् , यथा-'अहो ! अद्यैतावत्प्रमाणेन संरम्भेण रात्रिप्रहरत्रयं जागरित्वाऽपि न किमपि फलं संप्राप्तम् , यदित्थं निर्वचनीकृतेनापि मनोदानन्देन समं मम समश्रीकता कृता राज्ञा स्वपण्डितपक्षपातात् । भवतु, तथापि जयपत्रमगृहीत्वा मयेतः स्थानान्नोत्थातव्यमिति' । प्रकटं च स्वस्कन्धास्फालनपूर्वकमुक्तम्-'महाराज! किमेतदुच्यते ? । मय्यूचे सत्यन्यो भरते सकलेऽपि न कश्चित्पण्डितो भवति । यधेप पण्डितस्तदा मया सह लक्षणमार्गेण तर्कमार्गेण साहित्यमार्गेण वा वदतु, अन्यथा स्वकीयमिदं पत्रावलम्बनं पाटयतु । अरे यज्ञोपवीतमात्रवहनशक्ते मनोदानन्द ! श्रीजिनपतिसूर्युपरि पत्रावलम्बनं करोषि ? न जानासि रे बटो ! यदनेन सर्वविद्यानिर्णयदायकाः श्रीप्रद्युम्नाचार्यसदृशाः पण्डितराजाः सकललोकसमक्षं धूलीं चर्विताः' । अत्रान्तरे श्रीपृथ्वीचन्द्रेण पत्रावलम्बनं गृहीत्वा पाटितम् । श्रीमदुपाध्यायेनोक्तम्-'महाराज ! न तुष्यामो वयं पत्रावलम्बनपाटनमात्रेण' । राज्ञोक्तम्-'कथं तुष्यथ ?' उपाध्यायेनोक्तम्-'जयपत्रलाभेन; यतो महाराज ! अस्माकमीदृशी दर्शनव्यवस्थाऽस्ति, यः कश्चिदस्मदुपाश्रयद्वार एकसिन् दिने पत्रावलम्बनं बध्नाति तस्यैव हस्तेन द्वितीये दिने खोपाश्रयद्वारे जयपत्रमुद्भाव्यते। अतो महाराज ! यथा न्यायश्रीकरणैकसंमत्याऽसद्दर्शनव्यवस्था वृद्धि प्रामोति तव सभायां तथा विधीयताम्' । राज्ञा च लघूकृतस्वपण्डितमनोदानन्दमुखकालिमावलोकनोच्छलितमानसिकदुःखेनापि न्यायविचारप्रवीणपार्श्वस्थितप्रभूतप्रधानलोकोपरोधात् स्वकीयपारिग्रहिकहस्तेन लेखयित्वा दत्तं जयपत्रं श्रीजिनपालोध्यायानां हस्ते। उपाध्यायैश्च धर्मलाभाशीर्वाददानपूर्वकं बहुलमुपश्लोकितो महाराजाधिराजश्रीपृथ्वीचन्द्रः । ततः स्थानादुत्थाय प्रातः क्षणे पंचशब्दवादनादिवपिनपूर्वकं गृहीतजयपत्राः सपरिवाराः श्रीजिनपालोपाध्यायाः समागताः श्रीपूज्यानां समीपे। श्रीपूज्यैश्च स्वशिष्यनिष्पादितजिनशासनप्रभावनोद्भूतप्रभूतप्रमोदान्महासंभ्रमेणालापिताः श्रीमदुपाध्यायाः। सं० १२७३ ज्येष्ठवदि १३ शान्तिनाथजन्मकल्याणके कारितं च वर्धापनकमानन्दभरनिर्भरेण तत्रत्यसमुदायेन ।
६४. सं० १२७४ बृहद्वारादागच्छद्भिरन्तरा भावदेवमुनिर्दीक्षितः । सा० थिरदेवप्रार्थनया दारिद्रेरके चतुर्मासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org