________________
४५
युगप्रधानाचार्यगुर्वाधली। भाणितम्, यथा-पण्डितराज ! मनोदानन्द ! यदि मदीये भणिते लगसि तदद्यपश्चाच्छाखालम्बनं कुर्याः, मा पत्रावलम्बनं कृथाः; अन्यथा दन्ता भजयन्तीति" । मनोदानन्दपण्डितस्वरूपं सर्व पृष्ट्वा मुक्तः सन् गन्तुं प्रवृत्तो बटुः । धर्मरुचिगणिना सर्व पूज्यानामग्रे निवेदितम् । श्रीपूज्यपादसमीपोपविष्टठक्कुरविजयकश्रावकेण पत्रावलम्बनवाता श्रुत्रा खकीयो मानुषः प्रेषितः। कथितं तस्याने यथा-'अहो ! बमस्य बटोः पादे लग्नो व्रजेः। कस्मिन् कस्मिन् कटक एष बटुव्रजतीति परिभावयेः। वयं पृष्ठलग्ना एवागच्छामः स्म'-इत्यादिशिक्षां गृहीला गतो मानुषो बटुपादैः। संभ्रमादासनादुत्थाय-'भो भोः साधवः ! शीघ्रं प्रावृणुत'-इति भणन्तः स्वयं प्रावृताः श्रीपूज्याः। श्रीजिनपालोपाध्यायेन ठ० विजयकश्रावकेण विज्ञप्ताश्च, यथा-'प्रभो ! साम्प्रतं भोजनवेला वर्तते, साधवश्च विहत्य समागताः सन्त्यतो भोजन कुरु; तत्पश्चात् तत्र यास्यत' इति । तदुपरोधाद् भोजनं कृत्रोत्थिताः श्रीपूज्याः। श्रीजिनपालोपाध्यायैर्वन्दनापूर्वक पादयोर्लगित्वा विज्ञप्ताः, यथा-'प्रभो ! मनोदानन्दपण्डितजयनार्थ मां प्रेषयत, यथाऽहं यामि युष्माकं प्रसादाच्च जेप्यामि; सहानीतानामस्माकं क उपयोगो यघूयमेकैकेन मानुषेण सह स्वयमुत्तिष्ठध्वम् । तथा प्रभो! तस्मिन् वराके मनोदानन्दे युष्माकं कः संरम्भः । यतःकोपादेकतलाघातनिपातमत्तदन्तिनः। हरेहरिणयुद्धेषु कियान् व्याक्षेपविस्तरः॥ [५७]
राजनीतावपि प्रथमं पदातयो युध्यन्ते पश्चाच्च नायकाः । श्रीपूज्यैरुक्तम्-‘उपाध्यायमिश्राः! न ज्ञायते पण्डितस्य स्वरूपम् , यथा पण्डितः कीदृशोऽस्ति' । उपाध्यायेनोक्तम्-'प्रभो! भवतु पण्डितो यादृशस्तादृशो वा। सर्वत्र युष्माकं प्रसादो विजयते'। श्रीपूज्यैरुक्तम्-'वयमपि तत्रागमिष्यामः, परं भवद्भिस्तत्र वक्तव्यमिति' । उपाध्यायेनोक्तम्'प्रभो ! युष्मासु संनिहितेषु सत्सु मम जिह्वा लजावशाद् वक्तुं न वहति, अतो यूयमत्रैव तिष्ठत' इत्यादि । श्रीजिनपालोपाध्यायविहितोपरोधात् प्रसन्नमानसैः श्रीपूज्यैर्मत्रध्यानपूर्वकं मस्तके हस्तं दच्चा धर्मरुचिगणि-वीरभद्रगणिसुमतिगणिभिः, ठ० विजयकप्रमुखप्रधानश्रावकैश्च सह मनोदानन्दपण्डितजयनार्थ प्रेषितः श्रीजिनपालोपाध्यायः। सुखवार्ताप्रच्छननिमित्तसमागतानेकराणकावस्थानमण्डिते नगरकोट्टीयराजाधिराजश्रीपृथ्वीचन्द्रसभामण्डपे प्राप्तः श्रीजिनपालोपाध्यायः सपरिवारः।
६३. श्रीपृथ्वीचन्द्रराजानमुपश्लोक्य तत्रस्थः पण्डितमनोदानन्दो भाषितः श्रीमदुपाध्यायेन, यथा-'पण्डितराज ! किमर्थमस्मद्वसतिद्वारे पत्रावलम्बनं दत्तम् ?' तेनोक्तम्-'जयनार्थम्' । उपाध्यायेनोक्तम्-'तर्हि कुरु कस्यापि पक्षस्याङ्गीकारम् । तेनोक्तम्-'युष्मान् दर्शनबाह्यवेन स्थापयिष्यामीति मम पक्षः'। श्रीउपाध्यायेनोक्तम्-'कुरु प्रमेयमिति'। तदनन्तरं तेनोक्तम्-'विवादाध्यासिता दर्शनबाह्याः, प्रयुक्ताचारविकलत्वान्म्लेच्छवदिति' । श्रीमदुपाध्यायेन विहस्योक्तम्-'पण्डितराज मनोदानन्द ! त्वदुक्तेऽस्मिन्ननुमाने कति दूषणानि दर्शये ?' तेनोक्तम्-'यथाशक्ति दर्शयेः, परं तत्समर्थनायां समर्थन भाव्यम्' । श्रीमदुपाध्यायेनोक्तम्-'पण्डितराज ! सावधानीभूय श्रूयताम् , यथा-विवादाध्यासिता दर्शनबाह्याः,प्रयुक्ताचारविकलत्वान्म्लेच्छवदिति-भवतोक्तम् , तत्र प्रयुक्ताचारविकलत्वादिति हेतुरनेकान्तिकः, पड्दर्शनबाह्यत्वे साध्ये पड्दर्शनाभ्यन्तरवर्तित्वेनाभ्युपगतेषु बौद्ध-चार्वाकादिषु विपक्षभूतेष्वस्य हेतोर्गमनात्। तथा साधनविकलो दृष्टान्तः । तथा हि-त्वदुक्ताचारवैकल्यं म्लेच्छेष्वेकदेशापेक्षया सामस्त्यापेक्षया वा भवेत् । न तावदाद्यविकल्पः, म्लेच्छा अपि हि स्वजात्यनुयायिनां लोकाचारं किमपि कुर्वाणा दृश्यन्ते । लोकाचारश्च सर्वोऽपि वैदिक एवेत्यसिद्धो हेतुर्दृष्टान्तैः । अथवा सामस्त्यापेक्षया, तर्हि भवानपि दर्शनबाह्यः, नहि भवानपि सर्वमपि वैदिकमाचार कर्तुं शक्नोति'-इत्यादिना प्रकारेण तर्करीत्या त्रुवाणेन समस्तराजलोकचेतसि चमत्कारकुर्वाणेन श्रीमदुपाध्यायेनानेकदूषणोद्भावनेन कदर्थितेऽपि प्राथमिकेऽनुमाने, धाादन्यान्यनुमानानि भणितुं प्रवृत्तः पं०मनोदानन्दः । प्रभूतप्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org