________________
खरतरगच्छालंकार
६०. ततः संघेन सह लवणखेटे प्रभूताः श्रीपूज्याः । तत्र च पूर्णदेवगणि-मानचन्द्रगणि-गुणभद्रगणीनां क्रमेण दत्तं वाचनाचार्यपदम् । सं० १२४५ फाल्गुने पुष्करिण्यां धर्मदेव-कुलचन्द्र-सहदेव-सोमप्रम-सूरप्रभ-कीर्तिचन्द्रश्रीप्रभ-सिद्धसेन-रामदेव-चन्द्रप्रभाणां संयमश्री-शान्तमति-रत्नमतीनां च दीक्षा दत्ता। सं० १२४६ श्रीपत्तने श्रीमहावीरप्रतिमा स्थापिता । सं० १२४७, (?) सं० १२४८ लवणखेटे जिनहितस्योपाध्यायपदं प्रदत्तं । सं० १२४९ पुष्करिण्यां मलयचन्द्रो दीक्षितः। सं० १२५० विक्रमपुरे पद्मप्रभसाधोराचार्यपदं दत्तं-श्रीसर्वदेवमूरिरिति नाम कलम् । सं० २२-१ माण्डपपुरे च्यवहारकलक्ष्मीधरादिप्रभूतश्रावकाणां मालारोपणादि विस्तरेण कृतम।
६१. ततोऽजयमेरौ विहारः । तत्र च म्लेच्छोपद्रवे मासद्वयं यावन्महाकष्टस्थितौ पत्तने समागत्य भीमपल्ल्यां चतुमौसी कृता । कुहियपग्रामे जिनपालगणेर्वाचनाचार्यपदं दत्तम् । लवणखेटे राणकश्रीकेल्हणकृतसामवादोपरोधाद्दक्षिणावर्तारात्रिकावतारणं मानितम् । सं०१२५२ पत्तने विनयानन्दगणिर्दीक्षितः। सं०१२५३ भाण्डागारिकनेमिचन्द्रश्रावकः प्रतिबोधितः । पत्तनभङ्गानन्तरं धाटीग्रामे चतुर्मासी कृता । सं० १२५४ श्रीधारायां श्रीशान्तिनाथदेवगृहे विधिः प्रवर्तितः। तोपन्यासैश्च महावीरनामा दिगम्बरो रञ्जितः । रत्नश्रीप्रवर्तिनी दीक्षिता । नागदहे चतुर्मासी कृता । सं० १२५६ चैत्र वदि ५ लवणखेटे नेमिचन्द्र-देवचन्द्र-धर्मकीर्ति-देवेन्द्रनामानो व्रतिनः कृताः। सं० १२५७ श्रीशान्तिनाथदेवगृहे प्रतिष्ठारम्भः प्रधानशकुनाभावे विलम्बितः। सं० १२५८ चैत्र वदि ५ शान्तिनाथविधिचैत्ये श्रीशानाथप्रतिमा प्रतिष्ठिता, शिखरश्च । चैत्र वदि २ वीरप्रभ-देवकीर्तिगणी दीक्षितौ । सं० १२६० आपाढ वदि ६ वीरप्रभगणि-देवकीर्तिगण्योरुपस्थापना कृता । सुमतिगणि-पूर्णभद्रगण्योव्रतं दत्तम् । आनन्दश्रियो महत्तरापदं दत्तम् । श्रीजेसलमेरौ देवगृहे फाल्गुन सुदि २ श्रीपार्श्वनाथप्रतिमा स्थापिता । स्थापना च सा० जगद्धरेण महाविस्तरेण कारिता । सं० १२६३ फाल्गुन वदि ४ महं० कुलधरकारितश्रीमहावीरप्रतिमा लवणखेटे प्रतिष्ठिता। नरचन्द्र-रामचन्द्र-पूर्णचन्द्राणां विवेकश्री-मङ्गलमति-कल्याणश्री-जिनश्रीसाध्वीनां दीक्षा दत्ता, धर्मदेव्याः प्रवर्तिनीपदं च । ठ० आभुल-प्रभृतिवाग्गडीयसमुदायः श्रीपूज्यपादवन्दनार्थमागतो लवणखेटे । सं०१२६५ मुनिचन्द्र-मानभद्रगणी दीक्षितौ, सुन्दरमतिरासमतिश्च । सं० १२६६ विक्रमपुरे भावदेव-जिनभद्र-विजयचन्द्रनामानो व्रतिनः कृताः। गुणशीलस्य वाचनाचार्यपदं दत्तम् , ज्ञानश्रियश्च दीक्षा । सं० १२६९ श्रीजावालिपुरे श्रीविधिचैत्यालये महता विस्तरेण महं०कुलधरकारितश्रीमहावीरप्रतिमा स्थापिता । श्रीजिनपालगणेरुपाध्यायपदं दत्तम् । धर्मदेवीप्रवर्तिन्याश्च महत्तरापदं दत्तं प्रभावतीति नाम कृतम् । महेन्द्र-गुणकीर्ति-मानदेवानां चन्द्रश्री-केवलथ्योश्च दीक्षा दत्ता । ततो विक्रमपुरे विहारः।
६२. सं० १२७० वाग्गडीयसमुदायप्रार्थनया श्रीवाग्गडदेशे विहृताः । दारिद्रेरके शतसंख्यश्रावक-श्राविकाणां सम्यक्त्वारोपण-मालारोपण-परिग्रहपरिमाणदानोपधानविधापनादिधर्मकृत्यकृते महाविस्तरेण सप्त नन्दयः कृताः। सं० १२७१ बृहद्वारे संमुखागतश्रीआसराजराणकप्रमुखप्रभूतलोकैः सह महाविस्तरेण ठ० विजयश्रावककारितायां महत्यामुत्सपेणायां प्रविष्टाः श्रीपूज्याः। नन्द्यादिकं च दारिद्रेरकवत्तत्र कृतम् । मिथ्यादृष्टिगोत्रदेवतादिमिथ्यात्वकृत्यपरिहारकारापणेन समुदायस्य महान् प्रमोदो जनितः । सं० १२७३ तत्रैव बृहद्वारे लौकिकदशाहिकापर्वोपरि गङ्गायात्राभिमुखेषु तत्रागतेषु बहुषु राणकेषु सत्सु नगरकोट्टीयराजाधिराजश्रीपृथ्वीचन्द्रसाक्षेत(सहायात ?) काश्मीरीयेन श्रीजिनप्रियोपाध्यायशिष्यजिनदासापरनामश्रीजिनभद्रसूरिप्रोत्साहितेन पण्डितमनोदानन्देन श्रीजिनपतिसूरिपौषधशालाद्वारे पत्रावलम्बनं बद्धं ब्राह्मण एकः प्रेषितः । सोऽपि द्वितीयार्द्ध प्रहरसमये वसतिद्वार आगत्य पत्रावलम्बनं बद्धं प्रवृत्तः । विस्मयवशाद् दूरदेशे गत्वा धर्मरुचिगणिना संभाषितो ब्राह्मणः, यथा-'बटो! किं करोपि ? निर्भयः सन् स प्राह-'पण्डितमनोदानन्दो युष्मद्गुरूनुद्दिश्य पत्रावलम्बनं करोति' । धरुचिगणिना सोपहासमुक्तम्'बटो! मदीयसन्देशमेकं पण्डितस्याग्रे कथयेर्यथा-पण्डितश्रीजिनपतिसूरिशिष्येण धर्मरुचिगणिना मम मुखेनेदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org