Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 79
________________ खरतरगच्छालंकार कोत्सवः । सं० १३१९ माघ वदि ५, विजयसिद्धिसाध्व्या दीक्षा । माघ वदि ६, श्रीचन्द्रप्रभस्वामिप्रतिमा अजितनाथप्रतिमा सुमतिनाथप्रतिमा श्रेष्ठिबुधचन्द्रेण महामहोत्सवेन प्रतिष्ठापिता । श्रीऋषभनाथप्रतिमा सा० भुवनपालेन, धर्मनाथप्रतिमा जिसधरसुतेन जीविगश्रावकेण, सुपार्श्वप्रतिमा रत्न-पेथडश्रावकाभ्याम् , श्रीजिनवल्लभसू रिमूर्तिः सिद्धान्तयक्षमूर्तिश्च श्रेष्ठिहरिपाल तद्भातश्रेष्ठिकुमारपालाभ्याम् । श्रीपत्तने श्रीशान्तिनाथदेवप्रासादे अक्षततृतीयायां दण्डकलशारोपः सा० अभयचन्द्रेण कारापितः। सं० १३२१ फाल्गुन सुदि २, गुरौ चित्तसमाधि-क्षान्तिनिधिसाध्व्योर्दीक्षा । सं० १३२१ फाल्गुन वदि ११, श्रीप्रह्लादनपुरे आलयप्रतिमात्रयस्य दण्डस्य च प्रतिष्ठा कारयित्वा जेसलमेरवास्तव्यसमुदायेन सा० जसोधवलकारिते देवगृहशिखरे जेसलमेरौ ज्येष्ठ सुदि १२ श्रीपार्श्वनाथस्य स्थापना दण्डध्वजारोपश्च कारितः । सं० १३२१ ज्येष्ठ सुदि १५, चारित्रशेखर-लक्ष्मीनिवास-रत्नावतारसाधवो दीक्षिता विक्रमपुरे । ___ सं० १३२२ माघ सुदि १४, त्रिदशानन्द-शान्तमूर्ति-त्रिभुवनानन्द-कीर्तिमण्डल-सुबुद्धिराज-सर्वराज-वीरप्रियजयवल्लभ-लक्ष्मीराज-हेमसेननामानो दश साधवः, मुक्तिवल्लभा-नेमिभक्ति-मङ्गलनिधि-प्रियदर्शनाभिधानाश्चतस्रः साध्व्यश्च कृताः। श्रीविक्रमपुरे वैशाखसुदि ६ वीरसुन्दरी साध्वी च । __ १३२३ मार्ग० वदि ५, नेमिध्वजसाधुः, विनयसिद्धि-आगमवृद्धिसाध्व्यौ च कृताः। जावालिपुरे, सं०१३२३ वैशाख सुदि १३, देवमूर्तिगणेर्वाचनाचार्यपदम् ; द्वितीयज्येष्ठ सुदि १०, जेसलमेरुश्रीपार्श्वविधिचैत्यारोपार्थ स्वर्णदण्ड कलशयोः सा० नेमिकुमार-सा० गणदेवकारितयोः प्रतिष्ठा; विवेकसमुद्रगणेचिनाचार्यपदस्थापना च कृता । आपाढ वदि १, हीराकरसाधुः कृतः। सं० १३२४ वर्षे मार्ग० वदि २ शनौ, कुलभूषणसाधु-हेमभूषणसाधुद्वयम् , अनन्तलक्ष्मी-व्रतलक्ष्मी-एकलक्ष्मीप्रधानलक्ष्मी इति साध्वीपश्चकं (चतुष्टयं ?) च महा श्रीजावालिपुरे कृतम् । ___ सं० १३२५ वैशाख सुदि १०, श्रीजावालिपुरे श्रीमहावीरविधिचैत्ये श्रीप्रह्लादनपुरीय-स्तम्भतीर्थीय-श्रीमेदपाटीय-श्रीउच्चीय-श्रीवाग्गडीयप्रमुखसर्वसमुदायमेलापके व्रतग्रहण-मालारोप-सम्यक्त्वारोप-सामायिकारोपादिनन्दी महाविस्तरेण संजज्ञे । तत्र गजेन्द्रवल इति साधुः, पद्मावतीति साध्वी च कृता । तथा वैशाख सुदि १४, श्रीमहावीरविधिचैत्य एव चतुर्विंशतिजिनबिम्बानां चतुर्विंशतिध्वजदण्डानां सीमन्धरस्वामि-युगमन्धरस्वामि-बाहु-सुबाहुबिम्बानाम् , अन्येषां च प्रभूतबिम्बानां महाविस्तरेण प्रतिष्ठा जज्ञे । तथा ज्येष्ठ वदि ४, सुवर्णगिरौ श्रीशान्तिनाथविधिचैत्ये चतुविंशतिदेवगृहिकामध्ये तेषामेव चतुर्विंशतिजिनविम्बानां सीमन्धरस्वामि-युगमन्धरस्वामि-बाहु-सुबाहुबिम्बानां सर्वसमुदायमेलकेन महामहोत्सदेन विस्तरेण स्थापनामहोत्सवः संजातः । तत्रैव च दिने धर्मतिलकगणेाचनाचार्यपदम् । तथा वैशाख सुदि १४, श्रीजेसलमेरौ श्रीपार्श्वनाथविधिचैत्ये सा० नेमिकुमार-सा० गणदेवकारितयोः सुवर्णदण्डसुवर्णकलशयोः सविशेषमहोत्सवो विस्तरेण संजातः । ६९. सं० १३२६ वर्षे, सा० भुवनपालसुत सा० अभयचन्द्रविरचितेन, मं० अजितसुत मं० देदासुश्रावकाङ्गीकतपच्छेवाणप्राग्भारेण, सा०अभयचन्द्र-महं० अजितसुत महं०देदा-सा राजदेव-श्रेष्ठिकुमारपाल सानीम्बदेवसुतसा. श्रीपति-सा० मूलिग-सा० धनपालप्रमुखेण चतुर्दिग्भवेन विधिसंघेन सह तद्गाढाभ्यर्थनया श्रीशत्रुञ्जयादितीर्थयात्रार्थ श्रीजिनेश्वरमरिगुरुषु श्रीजिनरत्नाचार्य श्रीचन्द्रतिलकोपाध्याय-कुमुदचन्द्रप्रभृतिसाधु २३ पर्युपास्यमानेषु, श्रीलक्ष्मीनिधिमहत्तराप्रमुखसाध्वी१३परिवृतेषु, चैत्र वदि१३,श्रीप्रह्लादनपुरात् प्रचलितेषु,स्थाने स्थाने श्रीविधिसंघे चमत्कारकारिणी विधिमार्गप्रभावनां कुर्वाणे श्रीतारणमहातीर्थे महं० देदाकेन द्रं० १५०० इन्द्रपदम् , पूनाकसुतेन सा० पेथडेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148