Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
६०
खरतरगच्छालंकार
रत्न - विजयरत्नसाधवो मुक्तिचन्द्रिका साध्वी च स्तम्भतीर्थ - आशापल्ली - वागड-बटपद्रकादिसंघ मेलापकेन विस्तरेण दीक्षिता, मालारोप - परिग्रहपरिमाणादिनन्दि महोत्सवश्च संजातः ।
सं० १३४८ वैशाख सुदि ३, श्रीप्रह्लादनपुरे वीरशेखरस्य अमृतश्री साध्व्याश्च दीक्षा, त्रिदशकीर्त्ति गणेर्वाचनाचार्यपदम् । तस्मिन्नेव वर्षे श्रीपूज्यैः सुधाकलश - मुनिवल्लभसाधुपरिवृतैर्गणियोगतपश्चक्रे ।
सं० १३४९ भाद्रपद वदि ८, साधर्मिकसत्राकारस्य संघ पुरुषस्य सा० अभयचन्द्रसुश्रावकस्य संस्तारकदीक्षा, अभयशेखर इति नाम । मार्गशीर्ष वदि २, यशः कीर्त्तिदीक्षा ।
सं० १३५० वैशाख सुदि ९, करटक - अर्बुदादिविहितसविस्तरतीर्थ यात्रा सफली कृतजन्मजीवितस्य वरडियानगरसर्वाधिकारिणो नवलक्षककुलोत्तंसस्य भां० झांझणसुश्रावकस्य सकलवपक्ष-परपक्षचमत्कारकारिणी संस्तारकदीक्षा, तिलकराजर्षिरिति नाम ।
सं० १३५१ माघ वदि १, श्रीप्रह्लादनपुरे श्रीयुगादिदेव विधिंचत्ये मं० तिहुणसत्कश्रीयुगादिदेव-श्रेष्ठि वीजासत्कश्रीमहावीरबिम्बप्रमुखाद्भुतबिम्बानां चत्वारिंशदधिकषट्शतीप्रमाणानां महं० तिहुण श्रे० वीजासुश्रावकाभ्यां समुदायसहिताभ्यां विस्तरेण प्रतिष्ठा महामहोत्सवः कारितः । पञ्चम्यां श्री पूज्यानामनेकसाधु साध्वीश्रावक श्राविका परिवृतानां मालारोपमहामहोत्सवनन्दिः, विश्वकीर्त्तिसाधोर्हेमलक्ष्मी साध्व्याश्च दीक्षा । ८०० (१)
८१. सं०१३५२ जिनचन्द्रसूरिगुरूपदेशेन वा० राजशेखरगणिः सुबुद्धिराजगणि-हेमतिलकगणि- पुण्यकीर्तिगणिरत्नसुन्दरमुनिसहितः श्रीवृहद्रामे विहृतवान् । ततश्च तत्रत्यठ० रत्नपाल - सा० चाहडप्रधान श्रावकप्रेषिताभ्यां सभ्रातृहेमराज - भागिनेयवांचूश्रावकाभ्यां सपरिवाराभ्यां सा० बोहिथपुत्रेण सा० मूलदेव श्रावण श्रीकौशाम्बी-वाणारसीकाक्रिन्दी - राजगृह - पावापुरी - नारिन्दा - क्षत्रियकुण्डग्राम अयोध्या - रत्नपुरादिनगरेषु जिनजन्मादिपवित्रितेषु तीर्थयात्रा कृता । तैः श्रावकैः सार्धं समुदायसहित पूर्वविहितहस्तिनागपुरयात्रेण वा० राजशेखरगणिना सपरिवारेणैतानि तीर्थानि वन्दितानि । राजगृहसमीपे उदंडविहारे चतुर्मासी कृता, मालारोपणादिनन्दिमहोत्सवश्च कृतः । तथा तत्रैव वर्षे नानाद्भुत पुण्यवल्ली श्री श्री भीमपल्लीतः सा० धनपालसुश्रावकसत्पुत्र सा० भडसीह - सा० सामलश्रावककृतसंघेन श्रीप्रह्लादनपुरीय - भीमपल्लीय - श्रीपत्तनीय- सत्यपुरीयाद्यनेकस्वपक्ष- परपक्षमेलापकेन च सार्धं प्रस्थाय वाक्चातुरीपराभूतगीर्वागोपाध्याय -श्रीविवेकसमुद्रोपाध्यायप्रमुखसुसाधुमण्डली परिवृतैर्जगत्पूज्यैः श्रीमत्पूज्यैः श्रीशङ्खवरपुरालङ्कारचूडामणिचिन्तातीत सुसम्पादनापहस्तितचिन्तामणिः संसारदुःखदावाग्निपाथः श्रीपार्श्वनाथः प्रणतः । तत्र च श्रीसंघेन नात्रपूजा उद्यापनक ध्वजारोपादिमहोत्सवा विहिताः । ततः सर्वसंघसमन्विताः श्रीमत्पूज्याः श्रीपत्तने समाजग्मुः । तत्र च श्रीशान्तिनाथविधिचैत्ये सविस्तरध्वजारोपादिमहोत्सवपूर्व कनानाविधवाद्यमाननान्दीतूर्यप्रवर्तमानाङ्गनाचङ्गनृत्येषु सकलपत्तनमध्यस्थसमस्तचैत्येषु विस्तरेण चैत्यपरिपाटी विधाय, श्रीपूज्याः श्रीभीमपल्लयां समायाताः । पश्चाच्छ्री वीजापुरीय समुदायाभ्यर्थनया वीजापुरे चतुर्मासी कृता । तत्र च सं० १३५ [३१] मार्गशीर्ष कृष्णपञ्चम्यां श्रीवासुपूज्यविधित्ये मुनिसिंह - तपः सिंह- जयसिंहसाधवो दीक्षिताः, मालारोपणादिनन्दिमहोत्सवश्च संजातः ।
ततः श्रीजाबालिपुरे तत्समुदायाभ्यर्थनया विहारः । तस्मिन्नेव संवत्सरे सा० सलखण श्रावक पुत्ररत्न सा० सीहा श्रावक - माण्डव्यपुरीय सा० झांझणसत्पुत्रसा० मोहन श्रावकाभ्यां निर्मितसंघेन श्रीजावालिपुरीय - श्रीशम्यानयनीयश्रीजेसलमेरवीय - श्रीनागपुरीय-रुणापुरीय - श्रीमालीय - सत्यपुरीय - प्रह्लादनपुरीय- भीमपल्लीयाद्यनेकमहर्द्धिक - श्रीमालज्ञातिमण्डन श्रीयोगिनी पुरवास्तव्य सा० बाह्रासु श्रावकपुत्र सा० लोहदेवप्रमुखप्रभूतश्रावकमेलापकविभूषितेन मार्गानवरतविरचितावारितसत्रचैत्य परिपाट्यनेकमहामहोत्सवेन श्रीजाबालिपुराद् वैशाख कृष्णपञ्चम्यां प्रस्थाय, प्रभूतमुनिमण्ड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148