Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 82
________________ ५५ युगप्रधानाचार्यगुर्वावली। ___सं० १३३२ ज्येष्ठ वदि १, शुक्रे श्रीजावालिपुरे सर्वदेशसमुदायमेलापके महाविस्तरेण सा० क्षेमसिंहश्रावकोतंसेन नमि-विनमिपरिवृतश्रीयुगादिजिन-श्रीमहावीर-अवलोकनाशिखर-श्रीनेमिनाथविम्बान् शांव-प्रद्युम्नमूर्योः श्रीजिनेश्वरमरिमूर्धनदयक्षमूर्ति-श्रीसुवर्णगिरि-श्रीचन्द्रप्रभस्वामि-वैजयन्त्याश्च प्रतिष्ठा कारिता । श्रीयोगिनीपुरवास्तव्यदलिकहरुश्रावकेण श्रीनेमिनाथस्य, सा० हरिचन्द्रश्रावकेण श्रीशान्तिनाथस्य, अन्येषामपि प्रभूतविम्बानां प्रतिष्ठा जज्ञे । ज्येष्ठ वदि ६, श्रीसुवर्णगिरी श्रीचन्द्रप्रभस्वामिध्वजारोपः । ज्येष्ठ वदि ९, स्तूपे श्रीजिनेश्वरसूरिमूर्तेः स्थापना । तमिन्नेव दिने विमलप्रज्ञस्योपाध्यायपदम् , राजतिलकस्य च वाचनाचार्यपदम् । ज्येष्ठ सुदि ३, गच्छकीर्ति-चारित्रकीर्ति-क्षेमकीर्तिमुनयो लब्धिमाला-पुण्यमालासाव्यौ च दीक्षिताः। ___ ७२. सं० १३३३ माघ वदि १३, श्रीजावालिपुरे कुशलश्रीगणिन्याः प्रवर्तिनीपदम् । अत्रैव संवत्सरे सा० विमलचन्द्रसुत सा० क्षेमसिंह-सा० चाहडविरचितेन मन्त्रिदेदासुतमन्त्रिमहणसिंहनियूढपच्छेवाणप्राग्भारेण सा०क्षेमसिंह -सा० चाहड-सा० हेमचन्द्र-श्रेष्ठिहरिपाल-योगिनीपुरवास्तव्य साजेणूसुत सा० पूर्णपाल-सौवर्णिकधान्धलसुतसा० भीम-मन्त्रिदेदापुत्रमन्त्रिमहणसिंहप्रमुखेन सर्वदिग्भवेन विधिसंघेन सह तद्गाढोपरोधेन श्रीशत्रुञ्जयादिमहातीर्थयात्रायै श्रीजिनप्रबोधसूरिसुगुरुषु श्रीजिनरत्नाचार्येषु श्रीलक्ष्मीतिलकोपाध्याय-श्रीविमलप्रज्ञोपाध्याय-वा० पद्मदेवगणि-वा० राजतिलकगणिप्रमुख साधु २७ सेव्यमानचरणारविन्देषु, प्र. ज्ञानमालागणिनी-प्र०कुशलश्री-प्र०कल्याणऋद्धिप्रभृतिसाध्वी २१ परिवृतेषु, चैत्र वदि ५ श्रीजावाल(लि)पुरात प्रस्थितेषु, स्थाने स्थाने श्रीविधिसंघसर्वजनमनश्चमत्कारकारिणीं विधिमार्गप्रभावनां विदधानेषु, श्रीश्रीमाले श्रीशान्तिनाथविधिचैत्ये द्रं० १४७४ विधिसंघेन सफलीकृताः। ___ तथा श्रीप्रह्लादनपुरादिषु विस्तरेण चैत्यपरिपाटयादिना प्रभावनां विधाय, श्रीतारणतीर्थे सा० नीम्बदेवसुत सा० हेमाकेन द्रं० ११७४ इन्द्रपदम् , इन्द्रपरिवारेण द्रं० २१०० मन्त्र्यादिपदं गृहीतम् । कलशाद्यायपदे सर्वसंख्ययोद्देशतो द्रं० ५२७४ विधिसंघेन सफलिताः । तथा वीजापुरे श्रीवासुपूज्यविधिचैत्ये उद्देशतो दं० सहस्र ४ मालादिग्रहणेन श्रीसमुदायेन कृतार्था विदधिरे । तथा श्रीस्तम्भनकमहातीर्थे गोष्ठिकक्षेमन्धरसुत गो० यशोधवलेन द्रं०११७४ इन्द्रपदम् । इन्द्रपरिवारेण द्रं० २४०० मन्त्र्यादिपदं गृहीतम् । कलशाद्यायपदे सर्वसंख्ययोदेशतो ई० सहस्र ७ संघेन कृतार्थी चक्रिरे । तथा भृगुकच्छे द्रं० ४७०० समुदायेन स्थिरीकृताः। तथा श्रीशत्रुञ्जये श्रीयुगादिदेवचैत्ये योगिनीपुरवास्तव्य सा०पूनपालेन द्रं० ३२०० इन्द्रपदम् , इन्द्रपरिवारेण द्रं० सहस्र ३ मच्यादिपदं जगृहे । श्रेष्ठिहरिपालेन द्रं० ४२०० पाह्रघापदे । उद्देशतः कलशाद्यायपदे सर्वाग्रेण द्रं० सहस्र २५ श्रीसंघेनाऽक्षया निर्ममिरे । तथा युगादिदेवपुरतः श्रीजिनप्रबोधसूरिभिज्येष्ठ वदि ७ जीवानन्दसाधोः पुष्पमाला-यशोमाला धर्ममालालक्ष्मीमालासाध्वीनां च दीक्षामहोत्सवो मालारोपणादिमहोत्सवश्च विस्तरेण विधिमार्गप्रभावनाय चक्रे । श्रीश्रेयांसविधिचैत्ये द्रं० ७०८, तथा उज्जयन्ते सा० मूलिगसुत सा० कुमारपालेन द्रं० ७५० इन्द्रपदम् , इन्द्रपरिवारेण २१५० मन्च्यादिपदम् । सा० हेमचन्द्रेण स्वामातृराजूनिमित्तं ,सहस्र २ नेमिनाथमाला जगृहे । उद्देशतः कलशाद्यायपदे सर्वाग्रेण द्रं० सहस्र २३ श्रीसंघेन शाश्वतीकृताः। ___ एवं स्थाने स्थाने प्रवचनप्रोत्सर्पणाकारिप्रभावनाविधानतः सफलीकृतनिजजन्म-द्रव्य-कलासामर्थन सम्पूर्णमनोरथेन श्रीविधिसंघेन सह महातीर्थयात्रां विधाय सा० क्षेमसिंहेन श्रीजावालिपुरे आषाढ सुदि १४ श्रीदेवालयस्य श्रीजिनप्रबोधसूरिप्रमुखचतुर्विधसंघसमन्वितस्य विधिमार्गप्रभावनया निर्विघ्नं निर्मापितः प्रवेशकमहोत्सवः । समस्तसंघप्रमोदायाभवच्चाचन्द्रार्कम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148