________________
५५
युगप्रधानाचार्यगुर्वावली। ___सं० १३३२ ज्येष्ठ वदि १, शुक्रे श्रीजावालिपुरे सर्वदेशसमुदायमेलापके महाविस्तरेण सा० क्षेमसिंहश्रावकोतंसेन नमि-विनमिपरिवृतश्रीयुगादिजिन-श्रीमहावीर-अवलोकनाशिखर-श्रीनेमिनाथविम्बान् शांव-प्रद्युम्नमूर्योः श्रीजिनेश्वरमरिमूर्धनदयक्षमूर्ति-श्रीसुवर्णगिरि-श्रीचन्द्रप्रभस्वामि-वैजयन्त्याश्च प्रतिष्ठा कारिता । श्रीयोगिनीपुरवास्तव्यदलिकहरुश्रावकेण श्रीनेमिनाथस्य, सा० हरिचन्द्रश्रावकेण श्रीशान्तिनाथस्य, अन्येषामपि प्रभूतविम्बानां प्रतिष्ठा जज्ञे । ज्येष्ठ वदि ६, श्रीसुवर्णगिरी श्रीचन्द्रप्रभस्वामिध्वजारोपः । ज्येष्ठ वदि ९, स्तूपे श्रीजिनेश्वरसूरिमूर्तेः स्थापना । तमिन्नेव दिने विमलप्रज्ञस्योपाध्यायपदम् , राजतिलकस्य च वाचनाचार्यपदम् । ज्येष्ठ सुदि ३, गच्छकीर्ति-चारित्रकीर्ति-क्षेमकीर्तिमुनयो लब्धिमाला-पुण्यमालासाव्यौ च दीक्षिताः। ___ ७२. सं० १३३३ माघ वदि १३, श्रीजावालिपुरे कुशलश्रीगणिन्याः प्रवर्तिनीपदम् । अत्रैव संवत्सरे सा० विमलचन्द्रसुत सा० क्षेमसिंह-सा० चाहडविरचितेन मन्त्रिदेदासुतमन्त्रिमहणसिंहनियूढपच्छेवाणप्राग्भारेण सा०क्षेमसिंह -सा० चाहड-सा० हेमचन्द्र-श्रेष्ठिहरिपाल-योगिनीपुरवास्तव्य साजेणूसुत सा० पूर्णपाल-सौवर्णिकधान्धलसुतसा० भीम-मन्त्रिदेदापुत्रमन्त्रिमहणसिंहप्रमुखेन सर्वदिग्भवेन विधिसंघेन सह तद्गाढोपरोधेन श्रीशत्रुञ्जयादिमहातीर्थयात्रायै श्रीजिनप्रबोधसूरिसुगुरुषु श्रीजिनरत्नाचार्येषु श्रीलक्ष्मीतिलकोपाध्याय-श्रीविमलप्रज्ञोपाध्याय-वा० पद्मदेवगणि-वा० राजतिलकगणिप्रमुख साधु २७ सेव्यमानचरणारविन्देषु, प्र. ज्ञानमालागणिनी-प्र०कुशलश्री-प्र०कल्याणऋद्धिप्रभृतिसाध्वी २१ परिवृतेषु, चैत्र वदि ५ श्रीजावाल(लि)पुरात प्रस्थितेषु, स्थाने स्थाने श्रीविधिसंघसर्वजनमनश्चमत्कारकारिणीं विधिमार्गप्रभावनां विदधानेषु, श्रीश्रीमाले श्रीशान्तिनाथविधिचैत्ये द्रं० १४७४ विधिसंघेन सफलीकृताः। ___ तथा श्रीप्रह्लादनपुरादिषु विस्तरेण चैत्यपरिपाटयादिना प्रभावनां विधाय, श्रीतारणतीर्थे सा० नीम्बदेवसुत सा० हेमाकेन द्रं० ११७४ इन्द्रपदम् , इन्द्रपरिवारेण द्रं० २१०० मन्त्र्यादिपदं गृहीतम् । कलशाद्यायपदे सर्वसंख्ययोद्देशतो द्रं० ५२७४ विधिसंघेन सफलिताः । तथा वीजापुरे श्रीवासुपूज्यविधिचैत्ये उद्देशतो दं० सहस्र ४ मालादिग्रहणेन श्रीसमुदायेन कृतार्था विदधिरे । तथा श्रीस्तम्भनकमहातीर्थे गोष्ठिकक्षेमन्धरसुत गो० यशोधवलेन द्रं०११७४ इन्द्रपदम् । इन्द्रपरिवारेण द्रं० २४०० मन्त्र्यादिपदं गृहीतम् । कलशाद्यायपदे सर्वसंख्ययोदेशतो ई० सहस्र ७ संघेन कृतार्थी चक्रिरे । तथा भृगुकच्छे द्रं० ४७०० समुदायेन स्थिरीकृताः।
तथा श्रीशत्रुञ्जये श्रीयुगादिदेवचैत्ये योगिनीपुरवास्तव्य सा०पूनपालेन द्रं० ३२०० इन्द्रपदम् , इन्द्रपरिवारेण द्रं० सहस्र ३ मच्यादिपदं जगृहे । श्रेष्ठिहरिपालेन द्रं० ४२०० पाह्रघापदे । उद्देशतः कलशाद्यायपदे सर्वाग्रेण द्रं० सहस्र २५ श्रीसंघेनाऽक्षया निर्ममिरे ।
तथा युगादिदेवपुरतः श्रीजिनप्रबोधसूरिभिज्येष्ठ वदि ७ जीवानन्दसाधोः पुष्पमाला-यशोमाला धर्ममालालक्ष्मीमालासाध्वीनां च दीक्षामहोत्सवो मालारोपणादिमहोत्सवश्च विस्तरेण विधिमार्गप्रभावनाय चक्रे । श्रीश्रेयांसविधिचैत्ये द्रं० ७०८, तथा उज्जयन्ते सा० मूलिगसुत सा० कुमारपालेन द्रं० ७५० इन्द्रपदम् , इन्द्रपरिवारेण २१५० मन्च्यादिपदम् । सा० हेमचन्द्रेण स्वामातृराजूनिमित्तं ,सहस्र २ नेमिनाथमाला जगृहे । उद्देशतः कलशाद्यायपदे सर्वाग्रेण द्रं० सहस्र २३ श्रीसंघेन शाश्वतीकृताः। ___ एवं स्थाने स्थाने प्रवचनप्रोत्सर्पणाकारिप्रभावनाविधानतः सफलीकृतनिजजन्म-द्रव्य-कलासामर्थन सम्पूर्णमनोरथेन श्रीविधिसंघेन सह महातीर्थयात्रां विधाय सा० क्षेमसिंहेन श्रीजावालिपुरे आषाढ सुदि १४ श्रीदेवालयस्य श्रीजिनप्रबोधसूरिप्रमुखचतुर्विधसंघसमन्वितस्य विधिमार्गप्रभावनया निर्विघ्नं निर्मापितः प्रवेशकमहोत्सवः । समस्तसंघप्रमोदायाभवच्चाचन्द्रार्कम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org